आगामिसप्ताहे जापानस्य प्रधानमन्त्री भारते।
नवदिल्ली> जापानस्य प्रधानमन्त्री सनाये तकायिच्ची वर्या त्रिदिनात्मकसन्दर्शनाय आगामिसप्ताहे भारतं प्राप्स्यति। १६ तमस्य भारत-जापानयोः सांवत्सरीयोच्चशिखरस्य अंशतया जुलाई प्रथमदिनाङ्कतः तृतीयदिनाङ्कपर्यन्तं भवेत् सन्दर्शनम्। व्यापार-निक्षेप-देशरक्षा इत्यादिमण्डलेषु सहयोगं प्रबलीकर्तुमेव शिखरमेलनम्।
