OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, June 28, 2026

 फिफा विश्वचषकः।

अर्जेंटीनायाः अनायासविजयः; गणवीरः।

 विश्वचषके मेस्सेः १९ तमं  लक्ष्यकन्दुकम्।

जोर्दानं प्रति स्पर्धायां लयोणल् मेस्सी।

टेक्सस्> अमेरिकायां टेक्सस् नगरस्थे डल्लस् क्रीडाङ्कणे रविवासरस्य प्रभाते (भारतीयसमयः) सम्पन्ने अर्जेन्टीना-जोर्दानयोः प्रतिद्वन्द्वे जोर्दानं एकं विरुध्य त्रिभिः लक्ष्यकन्दुकैः पराजित्य अर्जन्टीना अनायासविजयेन गणवीरतां प्राप। क्रीडायाः ६५ तमे निमिषे स्थानोपवेशनत्वेन [substitute] आगतः लयोणल् मेस्सी अस्मिन् विश्वचषके स्वकीयं षष्ठं लक्ष्यकन्दुकं सम्पादयामास। अपि च, विश्वचषकस्पर्धासु आहत्य १९ तमं लक्ष्यकन्दुकं सम्प्राप्य अधिकार्जकः [top scorer] इति स्वस्यैव अनन्यथाप्रथमप्राप्तिं सः नवीकृतवान् च। 

  ८० तमे निमिषे आसीत् मेस्सेः लक्ष्यकन्दुकम्। ततः पूर्वं जियोवनी लो सेल्डो नामकः १९ तमे निमिषे, लौटारो माल्टिनस् नामकः ३० तमे निमिषे च  अर्जन्टीनायै लक्ष्यकन्दुके प्राप्तवन्तौ। ५५ तमे निमिषे जोर्दानस्य क्रीडाकुशलः मूसा अल् तमारिः आश्वासलक्ष्यकन्दुकं सम्पादयामास। 

  'जे' (J) गणस्य वीरतां प्राप्तः अर्जेन्टीना संघः निर्णायकचक्रे जूलाय् तृतीय दिनाङ्के केप् वर्दे दलेन सह स्पर्धिष्यते।