OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, June 30, 2026

 महिलानां दीर्घप्लुतिस्पर्धायाम् नूतना अनन्यप्रथमप्राप्तिः।

केरलस्य आन्सी सोजन् वर्या २२ वर्षैः पुरातनं राष्ट्रियकीर्तिमानं बभञ्ज।

आन्सी सोजन्।

 

भुवनेश्वरं> ओडीशायां भुवनेश्वरे सम्पन्नायाम्  अन्ताराज्यीय वरिष्ठकायिकवीरताप्रदर्शनस्पर्धायां  [Interstate Senior Athletic Championship] महिलानां दीर्घप्लुतिविभागे [long jump] केरलस्य आन्सी सोजन् वर्यया नूतना अनन्यप्रथमप्राप्तिः आलिखिता। ६. ८८ मीटर् प्लवनं कृत्वा २२ संवत्सरैः पुरातनं केरलीयमहिला अञ्जु बोबी जोर्ज् इत्यस्याः ६. ८३ इति राष्ट्रकीर्तिमानमेव पुरावृत्तं कृतम्। 

  तृश्शूर जनपदनिवासिनी आन्सी  गतमासे झार्खण्डे सम्पन्ने Federation cup Athletics Championship इत्यस्मिन् ६. ७५ मीटर् प्लुत्वा सुवर्णं प्राप्तवती। एकमासानन्तरं तत्तु राष्ट्रकीर्तिमानत्वेन परिणमत। इदानीं एष्यन् गयिंस् दीर्घप्लुते रजतपतकजेत्री अस्ति। 

  सेप्तंबरमासे सम्पद्यमाने एष्यन् गयिंस् दीर्घप्लुते भागं कृत्वा सुवर्णपतकं प्राप्तव्यमिति अभिलाषः इति आन्सी उक्तवती। आगामिवर्षे विश्ववीरता अस्ति। तदर्थं परिशीलनमपि कार्यम्।