OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, November 9, 2024

 अलिगढ विश्वविद्यालयस्य न्यूनपक्षाश्रितत्वाय हानिः नास्ति - सर्वोच्चन्यायालयः। 

अन्तिमनिर्णयाय स्थिरपीठं प्रासृजत्। 


नवदिल्ली> नियमसंहितया स्थापितम् इत्यनेन विद्याभ्याससंस्थायाः न्यूनपक्षपदस्वभावः न हन्यते इति सर्वोच्चन्यायालयस्य सप्ताङ्गनीतिपीठस्य भूरिपक्षविधिः। भारतसंसदा निर्मितस्य नियमस्य आधारेण नियन्त्रमाणः इति कारणेन अलिगढ् विश्वविद्यालयस्य न्यूनपक्षाश्रितत्वं नास्तीति १९६८ तमवर्षस्य पञ्चाङ्गयुतनीतिपीठस्य विधिः नूतनविधिना निष्प्रभो जातः। न्यूनपक्षसंस्था वा न वा इति निर्णेतुं मानदण्डान् प्रकल्प्य अन्तिमनिर्णयाय स्थिरनीतिपीठं प्रकरणं प्रासृजत्। 

   उत्तरप्रदेशे अलिगढे १८७५ तमे वर्षे 'मुहम्मदन् आङ्लो ओरियन्टल् कोलेज्' इति नाम्ना स्थापिता संस्था १९२० तमे वर्षे ब्रिटनस्य शासनकाले नियमानुसारं 'अलिगढ मुस्लिम्  विश्वविद्यालयः' इत्यभवत्। 

  अलिगढ केन्द्रीयविश्वविद्यालयः भवतीत्यतः न्यूनपक्षपदं दातुं  न शक्यते इति १९६८ तमे वर्षे पञ्चङ्गयुतपीठेन विहितम्। १९८१ तमे नियमपरिष्करणेन केन्द्रसर्वकारः न्यूनपक्षपदमदात्। किन्तु २००६ मध्ये अलहबाद् उच्चन्यायालयेन तन्निरस्तः।

Friday, November 8, 2024

 कपोलसङ्कोचः - सुनितायाः स्वास्थ्यविषये आशङ्का। 

बहिराकाशनिलये पाकं कुर्वन्तौ सुनीता विल्मोरः च। तत्र सुनितायाः आकारमेव आशङ्कानिदानम्। 

> स्टार् लैनर् इति बहिराकाशपेटकस्य साङ्केतिकदोषः अभवत् इत्यस्मात् अन्ताराष्ट्र बहिराकाशनिलयम् अधिवसन्तौ सुनिता विल्यंसः, बुच् विल्मोरः इत्येतयोः स्वास्थ्यविषये वैद्यैः आशङ्का प्रकटिता। अद्यत्वे बहिरागतेषु तयोः छायाचित्रेषु सुनितायाः कपोलद्वयं अत्यधिकं सङ्कोचेन दृश्यते इति आशङ्कायाः निदानम्।

      दीर्घकालीनस्य बहिराकाशवासस्य फलमेतदिति सूच्यते। अवश्यानुसारम् ऊर्जं [Calorie] न लभते इति स्यात् कारणमिति वैद्येषु अन्यतमेन डा विनय गुप्तेन सूचितम्। किन्तु आशङ्का आधाररहिता इति नासया प्रस्तुतम्। 

  केवलम् अष्ट दिनानां  बहिराकाशनिलयवासं कल्पितौ तौ अद्यावधि १५३ दिनानि तत्र यापितानि। द्वावपि २०२५ फेब्रुवरि मासात्परं प्रयागमिष्यतः इति प्रतीक्षते।

 उभयबन्धं प्रबलीकर्तुं यू एस् भारतं च। 

नवदिल्ली> भारत - अमेरिकयोः परस्परबन्धं प्रबलीकर्तुं युगपदुत्साहः भविष्यतीति भारतस्य विदेशकार्यमन्त्रालयेन निगदितम्। प्रधानमन्त्री नरेन्द्रमोदी नियुक्त यू एस् राष्ट्रपतिं डोनाल्ड ट्रम्पं दूरवाणीद्वारा कृते अभिनन्दनसम्भाषणे उभयराष्ट्रबन्धस्य शक्तीकरणे  दृढतां स्पष्टीकृतवन्तौ। 

  राष्ट्रसुरक्षा, साङ्केतिकविद्या, बहिराकाशमित्यादिमण्डलेषु परस्परसहयोगः प्रबलीकरिष्यति।

    तालिबानेन सह भारतस्य नयतन्त्रचर्चा सम्पन्ना।

नवदिल्ली> २०२१ तमे वर्षे अफ्गानस्य प्रशासनं स्वीकृतवता तालिबानेन सह इदंप्रथमतया भारतं नयतन्त्रचर्चामकरोत्। तालिबानस्य प्रवर्तमानः रक्षामन्त्री मुल्ला मुहम्मद याकूबः इत्यनेन सह भारतस्य नयतन्त्राधिकारिणः काबूले मेलनमकुर्वन्। 

  किन्तु तालिबानप्रशासनं अद्यावधि भारतेन नाङ्गीकृतम्। प्रत्युत, अफ्गानजनतां प्रति भारतस्य दीर्घकालीयबन्धमेव एतस्य मार्गदर्शकमिति विदेशकार्यवक्त्रा उक्तम्। 

राष्ट्रिय भीकरविरुद्धनयः शीघ्रमिति गृहमन्त्री। 

 नवदिल्ली> भीकरतां भीकराणाम् आवासव्यवस्थां च प्रतिरोद्धुं राष्ट्रिय भीकरविरुद्धनयः शीघ्रमेव प्रतिष्ठास्यतीति केन्द्रगृहमन्त्री अमित शाहः अवोचत्। दिल्ल्यां राज्यस्तरीयारक्षकाधिकारिणः समेत्य भागं गृहीते भीकरविरूद्धसम्मेलने भाषमाणः आसीत् अमित शाहः। 

  नीतिन्यायनिर्वहणं तत्तद्राज्यानां विषयोSपि आतङ्कवादस्य सीमा नास्तीति उक्तवान् गृहमन्त्री २०१४ तः आरभ्य  भीकरतां विरुद्ध्य मोदिप्रशासनस्य लाभानि प्रकीर्तितवान्। 

मुख्यन्यायाधिपः डि वै चन्द्रचूडः रविवासरे स्थानात् विरमति।

नवदिल्ली> सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपस्य  डि वै चन्द्रचूडस्य अन्तिमः सेवादिवसः अद्य भवति। वर्षद्वयस्य मुख्यन्यायाधिपपदात् तेन  रविवासरे विरम्यते। आहत्य सार्धाष्टसंवत्सराणि सर्वोच्चन्यायालये न्यायाधिपरूपेण सेवां कृतवतः एतस्मात् अनेके स्वतन्त्र पुरोगमनमनपराः विधयः जाताः। तथा च सर्वोच्चन्यायालयस्य शासनक्षेत्रे नैकानि परिष्काराणि च तेन विधत्तानि।

बङ्लादेशे हैन्दवाः संरक्षणीयाः - भारतम्। 

        नवदिल्ली> बङ्लादेशस्थाय हिन्दुधर्मसमूहाय संरक्षणं दातव्यमिति भारतेन अभ्यर्थितम्। चिटगोङ् मण्डले हैन्दवानां प्रति विधत्ते आक्रमणे प्रतिषिध्य आसीत्  भारतस्य निवेदनम्। 

Thursday, November 7, 2024

 जे डि वान्सः अमेरिकायाः उपराष्ट्रपतिः।

जे डि वान्सः पत्न्या उषया साकम्। 

 

वाषिङ्टणः> अमेरिकायाः राष्ट्रपतिपदं प्रति रिपब्लिकन् पार्टी इत्यस्य स्थानिशिनौ डोणाल्ड ट्रम्पे दृढे जाते ओहायो इत्यस्मात् चितः जेयिस्  डेविड्  वान्सः अमेरिकायाः उपराष्ट्रपतिः भविष्यति। विजयं दृढीकृत्य फ्लोरिडायां स्वानुयायिजनान् संबुध्य भाषमाणे आसीत् ट्रम्पस्य प्रस्तुतिः। २०१६ तमे निर्वाचनकाले ट्रम्पं 'हिट्लरं' उपमां कृतवानासीत् जे डि वान्सः। 

  जे डि वान्सस्य पत्नी उषा वान्सः भारतवंशजा अस्ति। आन्ध्रप्रदेशे पश्चिमगोदावरी जनपदात् अमेरिकाम् अधिनिवेशं कृतवत्योः  राधाकृष्ण-लक्ष्मी दम्पत्योः पुत्री भवति उषा।

भारत-नेपाल एन्वायर्मेंटल् लीडर्षिप् अवार्ड-2024 प्राचार्याय प्रो.एम्.सी.पाण्डे महोदयाय।

वार्ताहरः- डा. मूलचन्द्रशुक्लः।

   रामनगरम्> पी एन् जी राजकीय स्नातकोत्तर-महाविद्यालयस्य  प्राचार्यः प्रो.एम्.सी.पाण्डे महोदयः अस्मिन् संवत्सरस्य भारत-नेपाल एनवायरमेण्टल् लीडर्षिप् अवार्ड् इत्यनेन सम्मानितः।  एतस्मै अयं बिरुदः  नवम्बरमासस्य 11 दिनाङ्के नेपालस्थकाठमाण्डू नगरे नेपालस्य  विदेशमन्त्रिणा  प्रदास्यते। प्रो.पाण्डे महोदयेभ्यः पर्यावरणसंरक्षणाय वन्यजीवसंरक्षणाय च भारत- नेपालदेशयोः मैत्रीसम्मेलने आयोजकेन "ग्लोबल् लीडर्षिप् फोरम" इत्यनेन सम्माननमिदं प्रदास्यते।

   एतस्मात् पूर्वमपि पाण्डेय महोदयाः उत्तराखण्ड-सर्वकारस्य उच्चशिक्षायामुत्कृष्ट-उल्लेखनीयमवदानाय "भक्तदर्शन" पुरस्कारः, "प्रिंसिपल् ऑफ् द ईयर्", भारत सर्वकारस्य महात्मागान्धी राष्ट्रिय-ग्रामीण-शिक्षा परिषदः उच्च-शिक्षाविभागस्य "ग्रीन चैम्पियन्षिप् अवार्ड्, उत्तरप्रदेश राज्स्य "श्री के.एस.अय्यर् वाणिज्य गौरव सम्माननम्" इत्येतैः सम्मानैः पुरस्कृताः आसन्।

  अस्मिन्नवसरे महाविद्यालयस्य समस्त-प्राध्यापकाः शिक्षकेतरकार्मिकाश्च पाण्डे महोदयेभ्यो वर्धापनानि शुभकामनाश्च प्रेषितवन्तः।  

 निर्धनछात्राणाम् उपरिशिक्षायै 

पि एम् विद्यालक्ष्मी परियोजना समारब्धा। 

न्यासं विना दशलक्षपर्यन्तं शैक्षिकम् ऋणम्। 

नवदिल्ली> आर्थिकसङ्कटेन राष्ट्रस्य अग्रणीषु उन्नतशैक्षिकसंस्थासु अर्हतासु सत्स्वपि ये प्रवेशः अलभमानाः वर्तन्ते तादृशानां निर्धन-मध्यस्तरीयछात्राणां  कृते केन्द्रप्रशासनस्य सविशेषा ऋणसमायोजना समारब्धा। 'पि एम् विद्यालक्ष्मी' इति कृतनामधेयया अनया परियोजनया दशलक्षं रूप्यकाणि यावत् ३% स्वल्पधनवृद्ध्या  लप्स्यन्ते। 

  राष्ट्रियसंस्थाश्रेणीकरणमाधारीकृत्य प्रथमशततमश्रेण्याम् अन्तर्भूतासु केन्द्रीयशैक्षिकसंस्थासु प्रथमद्विशतश्रेण्यां वर्तमानासु राज्यस्तरीय-केन्द्रप्रशासनसंस्थासु च येषां प्रवेशः लभ्यते तेषां अल्पधनवृद्ध्या निक्षेपं विना च शैक्षिकऋणाय अर्हता अस्ति।

Wednesday, November 6, 2024

अमेरिकाराष्ट्रस्य  ४७ तमं राष्ट्रपतिपदं डोनाल्ड् ट्रम्पः प्राप्तवान्।

   डेमोक्रेटिक्-पक्षीयप्रतिनिधिं कमला-हैरिसं पराजित्य डोनाल्ड् ट्रम्पः २७७ 'इलेक्टोरल्-वोट्' प्राप्त्वा अमेरिकायाः ४७ तमः राष्ट्रपतिः अभवत्। कमला हैरिसः  २२६ इलेक्टोरल्-वोट् प्राप्तवती। सेनेट्-सभायां रिपब्लिक्-पक्षाय बहुमतं प्राप्तम्। जेडी वांस् उपराष्ट्रपतिः भविष्यति।

    ७८ वर्षीयः डोनाल्ड् ट्रम्पः पुनरपि राष्ट्रपतिस्थानं प्राप्य विशेषम् इतिहासं निर्मितवान्। अमेरिकायाः इतिहासे पराजयानन्तरं पुनः निर्वाचितः द्वितीयः राष्ट्रपतिः एव अभवत् एषः। इतः पूर्वं ग्रोवर् क्लिवलान्डः अपि एवं निर्वाचितः आसीत्।

 वार्तामुक्तकानि। 

इस्रयेलस्य गासाक्रमणमनुवर्तते - ३० मरणानि। 

डेयर् अल्बला> उत्तरगासायां सोमवासरे रात्रौ  इस्रयेलेन कृते आक्रमणे ३० जनाः हताः। मृतेषु अष्ट महिलाः षट् बालकाश्च। मासैकं यावत् गासायाम् इस्रयेलेन शक्तः सैनिकप्रक्रमः अनुवर्तते। 

यू एस् प्रतिनिधिसभां प्राप्तुं नव भारतवंशजाः। 

वाषिङ्टणः> यू एस् जनप्रतिनिधिसभां प्रति सम्पन्ने निर्वाचने नव भारतवंशजाः स्पर्धितवन्तः। वेर्जिनिया, कैलिफोर्निया, वाषिङ्टणः, इलिनोय्, मिषिगण् , अरिसोणा, कन्सासः, न्यूजेर्सी इत्येतेभ्यः राज्येभ्यः एव एते स्पर्धन्ते। एषु त्रयः नूतनमुखाः सन्ति। 

नेय्मरः पुनरपि आहतः। 

रियादः> आहतात् विमुच्य क्रीडाङ्कणं प्रत्यागत्य स्पर्धाद्वये क्रीडिते ब्रसीलस्य नेय्मरः पुनरपि आहतः अभवत्। एष्यन् चाम्प्यन्स् लीग् स्पर्धानामन्तरे सौद्याः अल् हिलालक्रीडकः व्रणितोSभवत्। आगामी स्पर्धाद्वयात् सः निवारितः अस्ति।

 संसदः शीतकालसम्मेलनं २५ तमे दिनाङ्के आरप्स्यते। 

नवदिल्ली> महाराष्ट्रं झार्खण्डविधानसभानिर्वानात् परं नवम्बर् २५ तम दिनाङ्कतः भारतीयसंसदः शीतकालसम्मेलनमारब्धुं निश्चिकाय। डिसम्बर् २० तमे समाप्यते। 

  'एकराष्ट्रम् एकनिर्वाचनं' , वखफनियमपरिष्करणम् इत्यादीनि विधेयकानि प्रचाल्यमानसम्मेलने अवतरिष्यन्ति। 

  सम्मेलनस्य द्वितीयं दिनं - नवंबर २६- प्रशासन नीतिसंहितादिनत्वेन आचरिष्यति। पुरातनसंसद् मन्दिरस्य केन्द्रसभागारे लोकसभा-राज्यसभयोः संयुक्तसम्मेलनं समायोज्य एव नीतिसंहितायाः ७५ तमं वार्षिकम् आचरिष्यतीति संसदीयमन्त्रिणा किरण रिजिजुवर्येण निगदितम्।

 २०३६ ओलिम्पिक्स् - आतिथ्याय भारतेन अर्थितम्। 

नवदिल्ली> २०३६ तमवर्षस्य ओलिम्पिक्स् महोत्सवाय आतिथ्यं वोढुं सन्नद्धतां विज्ञाप्य अन्ताराष्ट्र ओलिम्पिक्स् समित्याः पुरतः   भारतस्य  ओलिम्पिक्स् समित्या [ऐ ओ ए] निवेदनं समर्पितम्। आतिथेयत्वे तात्पर्यं प्राकट्य प्रधानमन्त्रिणा केन्द्रकायिकमन्त्रालयेन च प्रस्तुतमपि औद्योगिकरीत्या सर्वकारेण कृतः प्रथमः पदक्षेपो भवतीदं निवेदनम्। 

  ओक्टोबर् मासे ऐ ओ सि संस्थायाः Future Host Commission इत्यायोगं प्रति निवेदनपत्रं प्रेषितमासीत्। भारतेन सह सौदी अरेब्या, खत्तरः, तुर्की इत्यादिराष्ट्राण्यपि आतिथ्याय उत्साहं प्रकटयन्ति। यदि भारतम् आतिथ्यराष्ट्रं भविष्यति तर्हि अलहबादं केन्द्रीकृत्य स्पर्धाः आयोजयिष्यतीति सूच्यते।

Tuesday, November 5, 2024

 कानडायां हैन्दवमन्दिरं प्रति खालिस्थानवादिनाम् आक्रमणम्। 

कानडप्रशासनं विरुद्ध्य भारतस्य तीव्रः प्रतिषेधः। 

नवदिल्ली> कानडाराष्ट्रे ब्रांस्टण् इत्यत्र हिन्दुसभायाः मन्दिरं प्रति खालिस्थानवादिनाम् आक्रमणं जातम्। खालिस्थानपताकाः धारयन्तः प्रक्षोभकारिणः मन्दिरं प्राप्तवतः  जनान् दण्डानुपयुज्य ताडनं कृतस्य दृश्यानि बहिरागतानि। भारतनयतन्त्रकार्यालयेन मन्दिरे आयोज्यमानः कार्यक्रमः स्थगितः आसीत्। 

    भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अक्रमममुम् 'एक्स्' द्वारा  कठिनस्वरेण व्यमर्शयत्। भारतस्य निश्चयदार्ढ्यं दुर्बलीकर्तुं क्रियमाणाः एतादृशघटनाः विफलीकरिष्यन्ते इति तेन निगदितम्।

 षार्जा अन्ताराष्ट्र पुस्तकोत्सवः श्वः आरप्स्यते। 

षार्जा> ४३ तमः षार्जा अन्ताराष्ट्रीय पुस्तकोत्सवाय षार्जा एक्स्पो केन्द्रे  बुधवासरे शुभारम्भः। १७ तमे दिनाङ्के परिसमाप्यते। 

  ११२ राष्ट्रेभ्यः २५२२ प्रसाधकाः प्रदर्शकाश्च भागं करिष्यन्ति। भारतात् केरलीयकविः रफीख् अहम्मदः, अभिनेत्री तूलिकाकारी च हुमा खुरैशी इत्येतौ भागभागित्वं करिष्यतः। ४००तः अधिके तूलिकाकाराः तेषां नूतनकृतिभिः सह आगमिष्यन्ति। १३५७ सांस्कृतिककार्यक्रमाः, १७ विख्यातपाककर्तॄणां पाककार्यक्रमाः , ६०० विविधविभागेषु परिशीलनकार्यक्रमाः च पुस्तकोत्सवस्य अंशतया विधास्यन्ति। 

  मलयालं, अरबी, आङ्गलेयः, उर्दू, पञ्चाबी, तगालोग् इति षट्सु विभिन्नभाषासु अवतार्यमाणाः  काव्यालापनिशीथिन्यः अस्योत्सवस्य सविशेषता अस्ति।

 वार्तामुक्तकानि। 

पालक्काट् उपनिर्वाचनस्य दिनाङ्कः परिवर्तितः। 

नवदिल्ली> केरले पालक्काट् जनपदे कल्पात्ति मन्दिरे प्रचाल्यमानस्य रथोत्सवस्य अंशतया पालक्काट् विधानसभामण्डले निश्चितस्य उपनिर्वाचनस्य दिनाङ्कः परिवर्तितः। अस्मिन् मासे १३ तमतः २० तमं दिनाङ्कं प्रति निर्वाचनं परिवर्तितम्। 

पञ्चाबे उत्तरप्रदेशे च निर्वाचनं परिवर्तितम्।

नवदिल्ली > पञ्चाबः उत्तरप्रदेशः इत्येतयोः राज्ययोः नवम्बर् १३ तमे दिनाङ्के  १३ विधानसभामण्डलेषु प्रचालनीयानि  निर्वाचनानि २० तमदिनाङ्कं परिवर्तितानि। कार्तिकपूर्णिमामनुबन्ध्य विश्वासिनां निवेदनमनुसृत्यैव परिवर्तनमभवदिति सूच्यते। 

सङ्गीतज्ञः क्विन्सि जोण्सः दिवंगतः। 

वाषिङ्टणः> जास् वादकः , सङ्गीतसंपुटनिर्माता, गायकः, गानरचयिता इत्यादिभिः विख्यातः यू एस् पोप् सङ्गीतज्ञः क्विन्सि जोण्सः (९१) दिवंगतः। २८ ग्रामिपुरस्काराः अनेन प्राप्ताः।

 अमेरिकायां राष्ट्रपतिनिर्वाचनम् अद्य। 

डोणाल्ड् ट्रम्पः कमला हारिसश्च मुख्यप्रतियोगिनौ। 

वाषिङ्टणः> अमेरिकायाः ४७ तमं राष्ट्रपतिं निर्वाचितुं जनाः अद्य मतदानकेन्द्रं प्राप्स्यन्ति। वर्तमानीना उपराष्ट्रपतिः डेमोक्राटिक् पार्टी इति राजनैतिकदलस्य च स्थानाशिनी कमलाहारिसः, भूतपूर्वराष्ट्रपतिः रिप्पब्लिकन् पार्टी इत्यस्य स्थानाशी च डोणाल्ड् ट्रम्पः मुख्यप्रतियोगिनौ वर्तेते। 

   आहत्य १७ कोटि मतदायकाः सन्ति। तेषु ७. ५ कोटिमतदायकाः एतदाभ्यन्तरे तेषामभिमतं विनियुक्तवन्तः। 'इलक्टरल् कोलेज्' इत्याहूमानं जनप्रतिनिधिसभाङ्गाः एव दिनद्वयात्मकनिर्वाचनप्रक्रियायां जनैः चिन्वमानाः भविष्यन्ति। राष्ट्रपतेः परोक्षनिर्वाचनमेव जनैः क्रियते। 'इलक्टरल् कोलेज्' अङ्गाः राष्ट्रपतिं निर्णेतुं मतदानं करिष्यन्ति। ५३८ जनप्रतिनिधयः भविष्यन्ति। तेषां मतेषु २७० मतानि येन  उपलप्स्यन्ते  सः राष्ट्रपतिः भविष्यति। 

  २०२५ जनवरि षष्ठदिनाङ्के एव औद्योगिकं फलप्रख्यपनं करिष्यति। किन्तु मतदानप्रक्रियायाः अन्ते 'एक्सिट् पोल्' द्वारा आगामी राष्ट्रपतिः क इति ज्ञातुं शक्यते।

Monday, November 4, 2024

 प्रस्फोटकानि नित्यं निषिद्धानि भवन्तु इति निर्देशः, दिल्ली-सर्वकाराय सर्वोच्चन्यायालयस्य आज्ञा।

    दिल्लीनगरे निरन्तरं वर्धमाने वायुमलिनतायाः सन्दर्भे सर्वोच्चन्यायालयेन प्रस्फोटकानां नित्यनिषेधाय निर्देशः कृतः। दिल्ली-सर्वकाराय तथा आरक्षक- अध्यक्षाय च सर्वोच्चन्यायालयेन निष्ठाव्यवस्था प्रेषिता, प्रस्फोटकानां निषेधं न अकार्यम् इत्यनेन भवति प्रक्रमः।  सप्तदिनाभ्यन्तरे सत्यवाङ्मूलम् समर्पयितुं न्यायालयेन निर्दिष्टम्।

   न्यायालयेन पृष्टं यत् "निषेधः सन्निहितेऽपि दीपावलीदिने किं जातम्?" इति।  तदीयदिनस्य अग्निकाण्ड-विषये न्यायालयेन स्पष्टीकरणं अपेक्षितम्। अयम् अभियोगः अस्मिन् मासस्य १४ दिनाङ्के पुनरपि परिगणनाय स्वीकरिष्यति।

 उत्तराखण्डे बस् यानं गर्ते  पतितं ,  २८ यात्रिकाः मृताः।

    उत्तराखण्डराज्ये अल्मोडा जनपदस्य मर्चुला प्रदेशे बस् यानं  अगाधे गर्ते पतित्वा २८ जनाः मृताः इति ज्ञायते। अनेकाः अपि अपघातेन आहताः सन्ति। अस्मिन् प्रदेशे अद्यापि रक्षणकार्यं प्रवर्तमानमस्ति। बस् यानं द्विशतमीट्रर् मिते अगाधे पतित्वा  सम्पूर्णतया  भग्नमभवत्। तस्मिन् काले बस्याने चत्वारिंशत् यात्रिकाः आसन् इति वार्ता लब्धा। पौडी गढ्वालतः कुमौणप्रदेशस्थे रामनगरं प्रति गच्छत् आसीत्।

 वार्तामुक्तकानि। 

गुजराते लघु भूचलनम्। 

अहम्मदाबादः> कच्च् जनपदे रविवासरस्य उषसि लघुभूकम्पः अभवत्। मापिन्यां ३. ४ अङ्कितम्। जनापायः विनाशः वा न सूचित‌ः। कच्चस्य लख्पत् स्थानात् ५३ कि मी उत्तपूर्वस्यां दिशि अस्ति प्रभवकेन्द्रम्। 

नियन्त्रणरेखासमीपे पाकिस्थानस्य आयुधपरीक्षणम्। 

श्रीनगरं> जम्मु काश्मीरस्य नियन्त्रणरेखासमीपे पाकिस्थानेन चीननिर्मितानाम् आग्नेयभुषुण्डिनां परीक्षणं कृतम्। पाकिस्थानस्य सेनाशक्तिवर्धने चीनस्य प्रमुखं भागभागित्वमस्ति। पुरुषरहितविमानानि, युद्धविमानानि, नूतनानि आशयविनिमयसंविधानानि च निर्मातुं पाकिस्थानाय चीनस्य साह्यं लब्धमासीदिति वृत्तान्तमस्ति। 

मणिप्पुरे ६ आतङ्कवादिनः निगृहीताः। 

इम्फालं > मणिप्पुरे तौबाल् बिष्णुपुरं जनपदेभ्यः 'पीपिल्स् वार् ग्रूप्' नामके  निरुद्धसंघटने कर्म वहन्तः षट् आतङ्कवादिनः आरक्षकसेनया निगृहीताः। 

वायुमलिनीकरणात् लाहोरे विद्यालयाः पिहिताः। 

लाहोर्> वायुमलिनीकरणम् अत्यन्तं दुर्घटावस्थायां प्राप्तायां पाकिस्थानस्य लाहोरे नीचस्तरीयविद्यालयाः सप्ताहं यावत् पिहिताः। लोहोरं  दिनानि यावत् धूमहिमेन आवृतमस्ति। शनिवासरे वायोः गुणनिर्णयसूचिकायां १००० अङ्कितम्।

 श्रीनगरे भीकराक्रमणं - १२ व्रणिताः। 

श्रीनगरं> जम्मु काश्मीरस्य श्रीनगरे जनसम्मर्दयुक्तं विपणिं लक्ष्यीकृत्य कृते ग्रनेड् विक्षेपणे १२ जनाः आहताः। सर्वे विविधातुरालयान् प्रवेशिताः। 

 रविवासरे आकाशवाणी, दूरदर्शनम् इत्येतयोः समीपं कार्यनिर्वहणं क्रियमाणान् सि आर् पि एफ् भटान् प्रति विक्षिप्तं ग्रनेडायुधं स्रंसितलक्ष्यं भूत्वा वीथ्यापणिकानां मध्ये पतितमासीत्। आक्रमणं मुख्यमन्त्रिणा ओमर् अब्दुल्लेन अपलपितम्। 

   अन्वेषणे हिस्बुल् मुजाहिदसम्बन्धी एकः पुल्वामायां सुरक्षासेनया  निगृहीतः। अस्मात् आयुधान्यपि निगृहीतानि।

 केरलस्य कौमारकायिकोत्सवस्य अद्य शुभारम्भः। 

उद्घाटनकार्यक्रमाय छात्राः परिशीलने। 

२०,००० अधिके कायिकताराः। महाराजास् कलालयक्रीडाङ्कणं मुख्यवेदी; इतरे सप्तदश वेदिकाः। वासभोजनव्यवस्थाः सज्जाः। 

कोच्ची> ओलिम्पिक्स् इति नाम प्रयोक्तुं साङ्केतिकतया न शक्यते चेदपि तस्य महोत्सवस्य सर्वप्रौढ्या एव केरलराज्यस्तरीयः विद्यालयकायिकोत्सवः अद्य प्रारम्भं कुरुते। एरणाकुलं नगरस्थे महाराजास् कलालयक्रीडाङ्कणे सायं चतुर्वादने केरलस्य शिक्षामन्त्री वि शिवन्कुट्टिः कायिकोत्सवस्य उद्घाटनं करिष्यति। ओलिम्पिक्समहामहं अनुस्मार्यमाण इव वर्णाभः कार्यक्रमः सज्जः अस्ति। 

  महाराजास् क्रीडाङ्कणे विधास्यमाने सञ्चलने [March Past] ३५०० छात्राः , तदनुवर्तमानेषु सांस्कृतिककार्यक्रमेषु एरणाकुलं जनपदस्थेषु त्रिंशदधिकं विद्यालयेषु ४००० छात्राश्च भागं करिष्यन्ति। पद्मश्री भरत् मम्मूट्टिः सांस्कृतिककार्यक्रमाणाम् उद्घाटनं निर्वक्ष्यति। 

  महाराजास् कलालयक्रीडाङ्कणं विना जनपदस्थानि सप्तदश स्थानानि च कायिकस्पर्धानां वेदिकाः भविष्यन्ति। एताः सर्वाः वेदिकाः चतुर्षु गणेषु [Cluster] अन्तर्भाव्य एव स्पर्धानाम् एकोपनं क्रियमाणः अस्ति।

Sunday, November 3, 2024

 केरलस्य विद्यालयीयकायिकोत्सवः श्वः आरभ्यते। 

ओलिम्पिक्स् आदर्शानुसारं प्रचाल्यमाना मेला। 

केरलराज्यस्तरीय विद्यालयीयकायिकोत्सवस्य भाग्यचिह्नमं - तक्कुटुः। 

   कोच्ची> केरलराज्यस्य अस्य वर्षस्य विद्यालयीयकायिकस्पर्धाः ओलिम्पिक्स् आदर्शरूपेण कोच्चीनगरे श्वः आरप्स्यते। महाराजास् कलालयस्य क्रीडाङ्कणं मुख्यवेदिका भविष्यति। 

  कायिकोत्सवे वीरतां प्राप्यमानाय जनपदाय दीयमानः 'एवर् रोलिङ् चषकः', कासरगोडतः आरब्धा दीपशिखा इत्येतयोः प्रयाणम् आरब्धम्। तक्कुटुः इति कृतनामधेयः चिक्रोड एव अस्य कायिकोत्सवस्य भाग्यचिह्नम्।

 दिवंगताय क्रैस्तवमहापुरोहिताय अयुतानाम् अन्त्याञ्जलिः। 


कोच्ची> याकोबाय क्रैस्तवसभायाः प्रान्तीयाचार्यवरिष्ठः, श्रेष्ठ कातोलिकापदीयः च आबून् मार् बसेलियोस् तोमस् प्रथमः बावावर्याय दशसहस्रैः विश्वासिभिः प्रमुखैश्च  अन्त्याञ्जलिः समर्पिता। क्रैस्तवधर्मप्रचारकेषु  श्रेष्ठाजपालस्य तस्य भौतिकशरीरम् अन्त्यशुश्रूषानन्तरं पुत्तन् कुरिश् नामके स्थाने वर्तमाने पात्रियर्का सेन्टर् मोर् अत्तनेष्यस् कतीड्रल् इत्यस्य अङ्कणे सविशेषरीत्या सज्जीकृते स्थाने संस्कृतम्। गतगुरुवासरे सायं कोच्च्याम् आतुरालये आसीत् ९६ वयस्कस्य तोमस् प्रथमः बावावर्यस्य समाधिः। 

  अन्त्यशुश्रूषाकार्यक्रमाणां मलङ्करा मेत्रपोलीत्तापदीयः जोसफ् मार् ग्रिगोरियोस् मुख्यकार्मिकत्वमावहत्। पात्रियर्कीस् बावावर्यस्य प्रतिनिधिरूपेण प्राप्तौ अमेरिकन् आर्च् बिषप् मार् दिवान्नियोस् जोण् , इङ्लाण्टस्य आर्च् बिषप् मार् अतानासियोस् तोम डेविड् इत्येतौ अन्ये सह मेत्रापोलीता पुरोहिताश्च सहकार्मिकाः अभवन्।