OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, September 2, 2018

संस्कृतभारती-चित्तौडप्रान्तस्य वनविहारकार्यक्रमः जातः
    चित्तौडा > संस्कृतभारत्याः चित्तौडप्रान्तस्य अजयमेरु-शाहपुराजनपदयोः वनविहारकार्यक्रमः  भीलवाड़ाजनपदस्थे चँवलेश्वरजैनतीर्थे सुसम्पन्नः। कार्यक्रमे प्रतिभाप्रदर्शनम् समायोजितम्। कार्यकर्तारः संस्कृत-गीत-नृत्य-नाट्यादीनां मनोरमाः प्रस्तुतीः दत्तवन्तः। प्रान्तस्य विद्वत्परिषत्संयोजकः श्रीपरमानन्दशर्मा स्वरचितानि संस्कृतगीतानि श्रावयन् काव्यामृतधारां प्रावाहयत्। क्रीडासत्रे संस्कृतमाध्यमेन विविधाः क्रीडाः कुर्वन्तः सर्वे नितराम् अमोदन्त।
     चर्चासत्रे प्रान्तसङ्घटनमन्त्री श्रीदेवेन्द्रपण्डया  स्वस्वस्थाने संस्कृतसप्ताहस्य आयोजनाय कार्यकर्तृबन्धून् प्रेरितवान्। प्रान्तसम्पर्कप्रमुखः श्रीमहेशचन्द्रशर्मा 'गृहं गृहं संस्कृतम्' इति नाम्ना लोकसम्पर्काभियानम् आयोजयितुं प्रेरितवान्। प्रान्तशिक्षणप्रमुखः श्रीमधुसूदनशर्मा सम्भाषणशिविराभियानविषये चर्चाम् अकरोत्। भीलवाड़ाविभागसंयोजकः श्रीपरमेश्वरकुमावतः अजयमेरुजनपदसंयोजकः श्रीदेवराजकुमावतः च स्वजनपदस्य आगामिनीं कार्ययोजनां प्रस्तुतवन्तौ।  नूनम् आनन्दोत्साहाभ्यां परिपूर्णः आसीत् वनविहारोsयम्। कार्यक्रमेsस्मिन् पञ्चनवतिः कार्यकर्तारः सम्मिलिताः अभवन्।
वार्ताहरौ - मधुसूदन: शर्मा दीपक: शास्त्री च।

Saturday, September 1, 2018

रञ्जन् गोगोय् सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः भविष्यति। 

     नवदिल्ली> भारतस्य सर्वोच्च-न्यायालयस्य मुख्य न्यायाधीशस्थाने न्यायाधीशः रञ्जन् गोगोय् निर्दिष्टः। अस्य नाम मुख्य-न्यायाधीशेन दीपक् मिश्रेण एव निर्दिष्टः। अग्रिमन्यायाधीशस्य नामनिर्देशाय  नियममन्त्रालयेन दीपक् मिश्रा संपृष्टवान् आसीत्। 
   न्यायाधीशः गोगोय् सहिताः त्रयः न्यायाधीशाः जनवरि मासस्य १२ दिनाङ्के मुख्य न्यायाधीशं विरुद्ध्य वार्ता मेलनम्  आहूतवन्ताः। याचिकायाः विभजनमधिकृत्य आक्षेपयुक्त मासीत् वार्ता मेलनम्। गोगोय् वर्येण सः वार्तामेलने आसीनः चेलमेश्वरःआसीत्  वरिष्ठः न्यायाधीशः। किन्तु सः मेय् मासस्य अष्टादश दिनाङ्के निवृत्तः अभवत्l
मुल्लप्पेरियार्- भीषया सह तमिल् नाट् मुख्यमन्त्री 
    कालटी > महाप्रलयात् मन्दमन्दं पारं गन्तुं प्रयतन्ते केरलाः। सन्दर्भेऽस्मिन् मुल्लप्पेरियार् जलबन्धस्य जलवितानं १४२ पादमानतः १५२ इति वर्धयिष्यते इति तमिल्नाट्  मुख्यमन्त्रिणा एटप्पाटि पलनिस्वामिना  उक्तम्। उच्चन्यायालयस्य अनुज्ञा लब्धे सति जलविधानं १५२ इति वर्धयिष्यते, जलबन्धस्य भितेः प्रबलीकरणं समारब्धम् इति च तेनोक्तम्।
   वृष्टिकालात् पूर्वं दोषपरीक्षां कृत्वा जलबन्धस्थ बलक्षयः नास्ति इति प्रमाणपत्रम् अदात्। वृष्ट्याकेरलस्य  जलबन्धाः  सर्वं पूर्णाणाः अभवत्। जलं जलबन्धात् बहिर्गत्वा जलोपप्लवमभवत्I  मुल्ल पेरियार् जलबन्धात् जायमानप्रवाहः एव जलोपप्लवस्य कारणम् इति केरलेषु  अनृतारोपाः प्रचलन्ति इति पळनिस्वामिना उक्तम्।

Friday, August 31, 2018

लोकसभाया: राज्यविधानसभानाञ्च निर्वाचनानि सहैव सम्पादयितुं प्रस्‍ताव: 
- पुरुषोत्तमशर्मा
     नवदिल्ली > विध्यायोगेन प्रशासनाय प्रेषिते प्रतिवेदने लोकसभाया: अथ च राज्यविधानसभानां निर्वाचनानि सहैव सम्पादयितुं प्रस्‍ताव: अनुमोदित:। आयोगेनोक्तं यत् देशे निरन्तरनिर्वाचनप्रक्रियाया: निरसनाय एकमेव समाधानं विद्यत् । आयोगेन एतदर्थं संविधाने निर्वाचनविधौ च परिष्कार: अनुशंसित: । प्रतिवेदने स्पष्टीकृतं यत् सहैव वनिर्वाचनेन प्राशासनिकधनरक्षा, प्रशासनस्य सुरक्षाबलानां च समयलाभ: भविष्यति, येन प्रशासनिकनीतीनां क्रियान्‍वयनं भद्रतरं भविष्यति। सहैवोक्तंयत् संविधानस्य साम्प्रतिकस्वरूपेण सहैव निर्वाचनायोजनं सम्भवं नास्ति ।
म्यान्मर् राष्ट्रे जलबन्धभग्नेन जलोपप्लवः ; सहस्रशः भवनरहिताः।
    नय्पिट्टो >  म्यान्मर् राष्ट्रे बागो प्रविश्यायां स्वरषोङ् नामकः दल बन्धः अतिवृष्ट्या सञ्जातेन जलोपप्लवेन भग्नः जातः।शताधिकाः ग्रामाः निमग्नाः! षट् मरणानि सूचितानि। पञ्चाशत्सहस्रं जनाः भवनरहिताः अभवन्।
     सोमवासरादारभ्य एव जलबन्धः सम्भरणशेषिमतिक्रम्य प्रवहति स्म। किन्तु आशङ्काजनकः अवस्थाविशेषः नास्तीति अधिकारिभिः उक्तमासीत्। अतो जनाः स्व स्व भवनेषु वर्तमानाः आसन् I किन्तु बुधवासरे उषसि जलबन्धद्वाराणि प्रभञ्ज्य प्रवहता जलेन भवनानि क्षेत्राणि च निमज्जितानि आसन्।
एशियामहाद्वीपीयक्रीडोत्सवे भारतीयस्य भव्यं प्रदर्शनम्
गुरुवासरे भारतेन पञ्चपदकानि विजितानि
-पुरुषोत्तमशर्मा
       एशियामहाद्वीपीय-क्रीडोत्सवे द्वादशे दिवसे भारतीयक्रीडकैः भव्यं प्रदर्शनम् आचरितम् । गुरुवासरे भारतेन स्वर्णपदकद्वयं समेत्य पञ्चपदकानि विजितानि ।भारतपक्षतो जिनसनजॉनसनेन पुरुषाणां 1500 मीटरमिता धावनस्पर्धा 3:44.72 समये पूरिता। ऐषमः क्रीडायां जिनसनस्य द्वीतीयं पदकमिदं वर्तते। महिलानां 4×400 मीटरमितायां रिले-स्पर्धायां भारतस्य अनवरतं पञ्चमं स्वर्णपदकमिदं वर्तते । महिलानां 1500 मीटरमितायां धावनस्पर्धायां पीयूचित्रा रजतपदकं विजितवती। पुरुषाणां च 4×400 रिले स्पर्धायां भारतीयदलेनापि रजतपदकं विजितम् । डिस्कस-थ्रो इति स्पर्धायां सीमा पूनिया  भारताय  कांस्यपदकम् अधिगतवती।
मिथः पङ्काक्षेपाय सामाजिकमाध्यमाः न उपयोक्तव्याः - नरन्द्रमोदी 
    नवदिल्ली> मान्यजनतन्त्राय उचितः मार्गः न भवति मिथः पङ्काक्षेपः इति भास्तस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्।  सामाजिक माध्यमद्वारा कृतानुचिताभिमतप्रकाशनम् उद्दिश्य एव मोदिनः परामर्शः। वाराणसि प्रदेशस्थ भाजपादलीयैः सह कृते दृश्य सम्मन्द्रणोपवेशने भाषमाणः आसीत् सः। राष्ट्रस्य सुवार्ताः एव प्रसारणीयाः । समाजस्य शक्तीकरणाय उपयुक्ता वार्ता एव मिथः दातव्याः। किन्तु प्रदिवेशिकानां कुटुम्बव्यवहाराः राष्ट्रियवार्तारूपेण परिवर्तन्ते। एषः न केवलं यस्यकस्यापि राजनैतिक-दलस्य वा तेषाम् आशयस्य वा विषयः न, १२५ कोटि जनानाम् अपि चl
      विषयेऽस्मिन् स्वयमेव अनुशीलनं करणीयम् ।  स्वच्छभारत अभियान् नाम केवलं परिसरशुद्धिः इति न। मनसः विशुद्धिरपि भवति इति प्रधानमन्त्रिणा मोदिना भणितम्।
भारत-पाक् सिन्धू नदीजल सन्धिपत्रचर्चा श्वः प्रारब्स्यते। 

  इस्लामाबाद्> सिन्धू नदीजलसन्धिपत्र संबन्धतया भारत पाकिस्थानयोः मिथः भाषणं श्वः समारप्स्यते। झलं नद्यां भारतेन निर्मितां किषन् गङ्गा जलवैद्युतपरियोजनां विरुद्ध्य पाकिस्थानः तिष्ठति इत्येन इयम् उभयचर्चा निर्णायका एव।  पाकिस्थानस्य प्रधानमन्त्रीपदे इम्रान् खानस्य आरोहणानन्तरम् जायमाना  प्रथम चर्चा एव सा।  
     लाहोरे प्रचाल्यमानायं चर्चायां भारतस्य सिन्धू नदीजलसन्धेः अध्यक्षः पि के सक्सेना च भागं स्वीकुर्वन्ति। पाकिस्थानस्य पक्षतः सय्यत्‌ मोहर् अलि षा नेतृत्वं करिष्यति।
गते मार्च् मासे  नवदिल्याम् आसीत् सिन्धू नदी जल आयोगस्य प्रथम मेलनम्।
    सिन्धु नदी श्रृंखलायाः जलं पाकिस्थानायापि उपकारत्वेन भवितुं रूपीकृता सन्धिः एवभवति सिन्धू नदीजलसन्धिःI

Wednesday, August 29, 2018

जनं दृश्यमाध्यमे सम्प्रतिवार्ता कार्यक्रमस्य छात्र-वार्तावतारकाः 
  कालटी> सम्प्रतिवार्ता इति अन्तर्जालीयवाहिन्याः छात्रवार्तावतारकाः आगस्ट् मसस्य २९ दिनाङ्कतः चतुर्दिनपर्यन्तं वार्तावतारणं कुर्वन्ति। सर्वशिक्षा अभियानेन २०१७ संवत्सरस्य  श्रेष्ठपरियोजना इति अङ्गीकृतः भवति अयं कार्यक्रमःI छात्राः एव भवन्ति अस्मिन् वर्तावतारकाः। अष्टाशीति वार्ता-सोपानानि (Episode) इदानीं पूर्तीकृतानि सन्ति। 

    कार्यक्रमस्य छात्र-वार्तावतारकाराणां क्षमतां दृष्ट्वा एव जनं दृश्यमाध्यमेन छात्रेभ्यः वार्तावतारणाय सन्दर्भः प्रदास्यते। गत संवत्सरे आसीत् छात्रवार्तावतारकाणां प्रप्रथमं प्रसारणम्।  सर्वकारेतर-वार्तावाहिनिषु जनं दृश्यमाध्यमेन एव प्रप्रथमतया  संस्कृतवार्ताकार्यक्रमः समारब्धः। अन्तर्जालीय वार्ताप्रसारण कार्यक्रमेषु छात्राणां वार्तावतारणमपि विश्वे प्रथमतया एव।

    अद्य सायं पञ्चवादने जनंदृश्यमाध्यमस्य वार्ता संस्कृतं नाम कार्यक्रमेण छात्राणां वार्तावतारणं भविष्यति। श्रीकृण-जयन्ती पर्वणानुबन्धतया भवति छात्राणां भागभागित्वम् । नम्यालक्ष्मी आर्, नारायणी महादेवन्, विष्णु हरिकुमारः, निरञ्जना जे च अस्मिन् वार्तावतारकाः भवन्ति।
'एष्यन् गयिंस्' क्रीडायां भारताय सौभाग्यदिनम्। 
     जक्कार्ता > एष्यन् गयिंस्' क्रीडायाः दशमे दिने भारतेन नव कीर्तिमुद्राः  प्राप्ताः। पुरुषाणां अष्टशतं मीटर् धावनस्पर्धायां भारतस्य  मञ्जित् सिंहः सुवर्णमुद्रां जिन्सण् जोण्सण् रजतमुद्रां च  प्राप्तवन्तौ। वनितानां 'बाड्मिन्टण्' क्रीड़ायाः अन्तिमप्रतियोगितायां पि वि सिन्धू रजतमुद्रया तृप्तिं प्राप्तवती! भारतस्यैव सैना नेह्वाल् पित्तलमुद्रां प्राप्तवती। पटललानक्रीडायां (Table Tennis) इदं प्रथमतया भारतेन मुद्रा एका प्राप्ता - पुरुषाणां सङ्घविषये पित्तलमुद्रा। 
   'कुराष्' नामके विषये एकैकं रजतं , पित्तलं , ततः अस्त्रप्रक्षेपणे  रजतद्वयं च प्राप्य दशमे दिने नव मुद्राः भारतेन प्राप्ताः! इदानीं भारतम् अष्टमस्थाने वर्तते। सुवर्णानि - ९ ; रजतानि - १९ ; पित्तलानि - २२!

Tuesday, August 28, 2018

 ७७ राष्ट्रेषु ७००० भारतीयाः कारागारबद्धाः। 
      नव दिल्ली > सप्तसहस्राधिकाः भारतीयाः सप्त सप्तति राष्ट्रेषु कारागारे वर्तन्ते इति प्रमाणतया उच्यते
सप्त त्रिंशत्यधिक सप्तसप्तति जनाः विदेशकारागारे वर्तन्ते। त्र्यशीति सैनिकाः पाकिस्थानस्य  कारागारे सन्ति। सौदी राष्ट्रे भवन्ति भूरि। पञ्चसप्तत्यधिक पञ्चशतोत्तरैकसहस्रं जनाः सन्ति सौदीकारागारे। अमेरिकायां ६४७, नेपाले ५४८, कुवैट् ४८४, पाकिस्थाने ४७१, ब्रिट्टन् ३७८, मलेष्या २९८, चैना २२६, इट्टली २२५ इत्येवं गच्छति संख्या।
भारतीय-कारागारे बहवः वैदेशिकाः अपि सन्ति। अस्मिन् ३९ पाकिस्थानीयाः च सन्ति।

Monday, August 27, 2018

"एकमासस्य वेतनं यच्छन्तु "- अभ्यर्थना केरलमुख्यमन्त्रिण:।
   प्रलयेन विनष्टानां पुनर्निर्माणम् ततोप्युपरि नवकेरलनिर्माणाय सर्वकारस्य परिश्रम इति मुख्यमन्त्री श्री पिणरायी विजय:। एतदर्थं आलोके विद्यमाना: मलयालि जनाः मासैकस्य वेतनं राज्याय दातुं सन्नद्धा: भवेयुरिति अभ्यर्थितवान् स:। इदं तु धनं दशमासै: दीयते चेत् पर्याप्तम्। प्रत्येकस्मिन् मासे दिनत्रयस्य मूल्यम् पर्याप्तम्। मलयालि जनाः मिलन्तु नाम सर्वान् प्रतिसन्धीन् उल्लङ्घितुम् पारयामो वयम्। लोकस्य सहायहस्त: केरलस्य शक्ति:।।

Sunday, August 26, 2018

संस्कृतदिनस्य शुभाशयाः
प्रसारयेम संस्कृतम् 
प्रकर्षयेम भारतम्
यन्त्ररहितं पट्टिकाशकटम् आगामिनि मासादारभ्य धावयिष्यति।
    नवदिल्ली> राष्ट्रे स्वदेशीयातिवेग पट्टिकाशकटम् आगामिनी मासे परीक्षणधावनम् आरब्स्यते। मेट्रो रेल्यानमिव यन्त्ररहितं भवति 'ट्रयिन् आष्टादश' इति नामाङ्कितम् इदं शकटम्। परीक्षणधावने विजयं भविष्यति चेत् इदानीं विद्यमानस्य शताब्दि-अतिवेगयानस्य स्थाने धावयितुमुद्दिश्यते। भारतरेल् संस्थायाः साङ्केतिकोपदेष्टृपदे विराजमाना The Resurch And Standard Organisation इति समितिः  परीक्ष्य निर्णयः स्वीकरिष्यति। इदृशानि षट् यानानि प्राथमिकस्तरे चालयिष्यन्ति। चेन्नै इन्टग्रल्  कोच् यन्त्रागारे एव यानस्य निर्माणं प्रचलति। होरायां षष्ट्यधिकैकशतं (१६०) किलोमीट्टर् एव भवति यानस्य वेगक्षमता। 

Saturday, August 25, 2018

सर्वेभ्यः श्रावणपर्वणीयाः शुभाशंसाः।

कोच्ची अन्तराष्ट्रिय विमाननिलयः २९ तमे प्रवर्तनसज्जः भविष्यति।
  कोच्ची > महाप्रलयमनुबन्ध्य प्रवर्तनविरतः कोच्ची अन्ताराष्ट्रिय विमाननिलयः (सियाल्) आगस्ट् नवविंशतिदिनाङ्कादारभ्य पूर्णतया प्रवर्तनसज्जः भविष्यतीति सियाल् अधिकारिवर्गेण निगदितम्। पञ्चदश दिनाङ्के (१५) पिहितस्य निलयस्य प्रवर्तनं षट्विंशति दिनाङ्कतः (२६) पुनरारब्धुं शक्यतेति पूर्वमुक्तमासीत्।
कुल्दीप् नय्यारः दिवं गतः।
  नवदिल्ली > भारतीयपत्रकारमण्डलस्य अनन्यव्यक्तित्वेषु अन्यतमः कुलदीप नय्यारः दिवंगतः। पञ्चनवतिवयस्कः आसीत्! पत्रिकास्वतन्त्रतायै पोैराधिकाराय च अनवरतं प्रयत्नं कृतवानेषः अनन्यसामान्यवार्तानां (Exclusive) नामान्तरमासीत्। 
    जवहर् लाल् नह्रोः अनुगामिरूपेण लाल् बहदूर् शास्त्रिणः नियुक्तिः, आकस्मिककालानन्तरं पुनरपि स्पर्धयितुम् इन्दिरागान्धिनः निर्णयः, पाकिस्थानस्य भूतपूर्वप्रधानमन्त्रिणः सुल्फिक्कर् अलि भूट्टोवर्यस्य मृत्युदण्डवार्ता च नय्यारेणैव प्रथमतया बहिर्नीताःI

Friday, August 24, 2018

दुरिते समाश्वासाय स्वस्य भूमिं प्रदातुं विद्यालयछात्रा
    कण्णूर् > केरले दुरापन्ने महाप्रलयात् रक्षां प्राप्तुं प्रयतन्ते केरलाः। सर्वेषां नैजं सर्वं विनष्टम् अभवत्। सन्दर्भेऽस्मिन् काचन बालिका स्वस्य पैतृकं भूमिं दानाय निश्चितवती। पय्यन्नूरस्थ षेणायी स्मारक विद्यालयस्य विद्यार्थिनी स्वाहा भवति एषा। तस्यै तस्याः अनुजाय च लब्धं पैतृकभूमिः 'एकर्' मितम् अस्ति। पञ्चाशत् लक्षं मूल्यमस्ति भूमेः।
     अस्याः पिता शङ्करः कृषकः एव। माता विधुबाला सोदरः ब्रह्म च भवतः। दुरितबाधितानां कृते किमपि वा दातव्यमिति तस्याः अभिलाषःI सा केरलस्य मुख्यमन्त्रिणः दुरिताश्वास निधिम् प्रति भूमिं समर्पितवती। कालेऽस्मिन् दानविमुखाः भूरिः वर्तन्ते। अस्मिन् काले ईदृशदानकर्म सर्वेस्मै आदर्शभूतः एवः। अनेन दानेन सर्वे इदानीम् अद्भुत-स्तब्धाः अभवन्।

Thursday, August 23, 2018

राफेल् सन्धिः- आरोपणं स्थगनीयम्  - कोण्ग्रस् दलं प्रति रिलयन्स्  संस्थायाः सूचनापत्रम्।
     नवदिल्ली> राफेल् युद्धविमान सन्धिमधिकृत्य आरोपणं स्थगनीयं  नो चेत् नियमप्रक्रमः भविष्यति इति  कोण्ग्रस् दलं प्रति रिलयन्स् संस्थया सूचनापत्रम् प्रेषितम्।
     अनिल् अम्बानी इत्याख्यस्य स्वामितायां वर्तमानेन रिलयन्स् इन्फ्रास्ट्रक्चर् , रिलयन्स् डिफन्स्, रिलयन्स् एयरोस्टेर् इत्यादिभिः संस्थाभिः एव सूचनापत्रं प्रेषितम्। कोण्ग्रस् नेतारः उत्तरवादित्वेन वर्तितव्याः। राजनैतिक दलनेतारः  तेषाम् अभिमत-प्रकाशनाधिकारः स्वेच्छया निरुत्तरवादरूपेण कूर्वन्ति। सः अधिकारः  अनुज्ञापत्रमिति विचारः मास्तु, इत्यपि सूचनापत्रे लिखितम् अस्ति।

तृतीया निकषस्पर्धा - भारतस्य विजयः।
    नोट्टिङ्ङाम् > ट्रन्ट् ब्रिज मध्ये सम्पन्नायां तृतीयायां क्रिकेट् निकषस्पर्धायां आतिथेयराष्ट्रं इङ्लण्टं विरुध्य भारतदलस्य त्र्यधिकद्विशतं  (२०३) धावनाङ्कानां समुज्वलविजयः। एषो विजयः केरलेषु प्रलयक्लेशबाधितानां कृते समर्प्यते इति नायकः विराट् कोली उक्तवान्। क्रीड़या लब्धमाना  सम्मानसंख्या (match fee) सर्वा प्रलयबाधितेभ्यः दीयते इत्यपि तेनोक्तम्।  गतं क्रीड़ाद्वयमपि भारतेन पराजितमासीत्! ततः उत्साहोज्वलं प्रत्यागमनमेव भारतदलेन कृतम्। परं निकषद्वयम् अवशिष्यते।
'मिषन् गगनयान्' कर्मभूमै नेतृत्वं वोढुं स्त्रीशक्तिः।
    बंगलूरु > ऐ एस् आर् ओ संस्थायाः नूतनपरियोजनायाः कर्मभूमौ नेतृत्वपदे  डा. वि आर् ललिताम्बिका। विक्रं साराभाय् बाह्याकाशकेन्द्रस्य उपनिर्देशिकास्थाने विराजमाना आसीत् एषा। मानवं द्वाविंशत्यधिक द्विसहस्र तमे बाह्याकाशं प्रेषयितुमुद्दिश्य भवति नूतन परियोजना।  भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना गते स्वतन्त्रतादिने प्रकाशितेयं योजना। नव सहस्रंकोटि रुप्यकाणि एतदर्थं परिकल्पितानि सन्ति। परियोजनायाः प्राथमिक प्रवर्तनानि मासत्रयात् पूर्वं समारब्धानि। एषा केरलीयवनिता त्रिंशत् वर्षाणि यावत् ऐ एस् आर् ओ संस्थायां कर्मचारी रूपेण अस्ति।  संख्याधिकाः पुरास्काराः अपि तस्यै लब्धाः सन्ति।
जगति अद्य संस्कृतसप्ताहोत्सव: प्रारभते
-पुरुषोत्तम शर्मा 
   संस्कृतदिवस: आगामि रविवासरे आयोजयिष्ये। ऐषम: संस्कृतसप्ताह: ऑगस्तमासस्य त्रयोविंशतिदिनाङ्कात् नवविंशतिदिनाङ्कं यावत् समाचर्यते। अस्मिन् सप्ताहे जगति संस्कृतजनै: नैके कार्यक्रमा: उत्सवत्वेनायोज्यन्ते। संस्कृतशिक्षणसंस्थानेषु विद्यार्थिभ्य: विविधस्पर्धा: समायोज्यन्ते। 
  प्रशासनेतर-संस्कृतसंस्थाभि: संस्कृतप्रचाराय शोभायात्रा: सम्भाषणशिबिराणि प्रदर्शिन्य: परिसंवादकार्यक्रमाश्च विधीयन्ते। भाषाप्रचाराय संस्कृतज्ञा: सामाजिकसञ्चारमाध्यमेषु विविधस्तरेषु लेखनं चित्रप्रदर्शनं दृश्याङ्कनञ्च कुर्वन्ति।

Wednesday, August 22, 2018

मुम्बय्यां भवनसमुच्चये अग्निबाधा - द्वौ मृत्यू। 
मुम्बई > मुम्बय्यां परेलस्थे अधिवाससमुच्चये सञ्जातायाम् अग्निबाधायां द्वौ मृत्युमुपगतौ। चतुर्दश जना आहताः।  रक्षां प्राप्तवन्तः के ई एम् आतुरालयं प्रवेशिताः! परेलस्थे 'हिन्द् माता' चलनचित्रालयस्य समीपे वर्तमाने 'क्रिस्टल टवर्' नामकस्य भवनसमुच्चयस्य द्वादशस्तरे आसीत् अग्निबाधा।
एष्यन् गेयिंस् - वनितानां होकी क्रीडायां भारताय विजयः
          जक्कार्ता>एष्यन् गेयिंस् मध्ये वनितानां होकी क्रीडायां प्राथमिकचक्रे कसाकिस्थानस्योपरि भारतस्य एकपक्षीयविजयः। क्रीडायां भारतवनिताः २१अवसरेषु लक्ष्यं प्रापयन्। भारतसंघे लक्ष्यरक्षिकाम् अतिरिच्य अन्याः सर्वाः अपि लक्ष्यं प्राप्तवत्‍यः इति क्रीडायाः सविशेषता भवति। भारतस्य चतस्रः वनिताः वारत्रयं लक्ष्यं प्राप्तवत्यः। 'एष्यन् गेयिंस् '  प्रगतचक्रस्य पित्तलस्य जेता भवति भारतम्।
क्लेशार्णवात् केरलम् उत्तरति, स्वच्छप्रवर्तनं कठिनतरम्।
        कोच्ची > प्रलयजले अवतर्तुमारब्धे   प्रलयदुरन्तात् केरलराज्यं मन्दं मन्दम् उत्तरति। किन्तु कुट्टनाट् प्रदेशः इदानीमपि जलनिमग्नः वर्तते। समुद्रवितानात् नीचस्तरे एव कुट्टनाट् प्रदेशस्य स्थानम्! अत एव जलस्य बहिर्गमनविलम्बः। 
       क्लेशसमाश्वासशिबिरेभ्यः जनाः स्ववासस्थानानानि प्राप्नुवन्ति। किन्तु गृहाणि पङ्कनिमग्नानि वर्तन्ते। सर्पादिविषजन्तूनां सान्निद्ध्यमपि भीतिजनकं वर्तते। अतः गृहाणां स्वच्छप्रवर्तनं कठिनतरमस्ति। केरले सर्वत्र सन्नद्धसेवकाः स्वयंसेवकसंघाश्च स्वच्छप्रवर्तने निरताः सन्ति।

Thursday, August 16, 2018

अटलजी इत:परं स्मृतिपथे। 
   भारतराष्ट्रियस्य मानविकताया: मुखम् इति सुज्ञातः अटलबिहारी वाजपेयी दिवंगत:। त्रिणवतिवयस्क:। देहल्या: एयिंस् आतुरालये आसीदन्त्यम्। वृक्करोगबाधया जूण् एकादशे आतुरालयम् प्रविष्टः आसीत्। त्रिवारम् प्रधानमन्त्रिपदमारूढवान्  सः  शासनकालम् पूर्णम् अकरोत्। 

Wednesday, August 15, 2018

सामाजिकजीवने गान्धिमार्गः समुचितः - राष्ट्रपतिः। 
नवदिल्ली > महात्मागान्धिनः अहिंसादर्शनाय प्राधान्यं ददन् राष्ट्रपतेः रामनाथकोविन्दस्य स्वतंत्रतादिनसन्देशः। सामाजिकजीवने अक्रममार्गः निष्कासितव्यः। सर्वैः महात्मागान्धिनः अहिंसासिद्धान्तः अनुकर्तव्य इति राष्ट्रपतिना उद्बोधितम्। राष्ट्रे सर्वत्र जनसमूहहत्याः अतिक्रमाश्च वर्धमाने सन्दर्भे एव राष्ट्रपतेः  एतादृशं निरीक्षणम्।
पुनरपि केरले प्रलयकोपावेशः - १२ जनपदेषु अतिजाग्रतानिर्देशः - कोच्चि विमाननिलयः पिहितः।
     कोच्ची > केरलराज्ये कतिपयदिनानां विरामानन्तरं पुनरपि महाप्रलयः। अतिवर्षानुबन्धप्रकृतिदुरन्तेषु जनाः दैन्यमनुभवन्ति। केरलस्य ३३ जलबन्धाः जलवितानोद्गमनेन जलबहिर्गमनद्वाराणि उद्घाटितानि। सर्वाः नद्यः आप्लुतोदकाः प्रवहन्ति। नदीतटनीचप्रदेशाः उपप्लवे निमज्जिताः। तन्निवासिनः क्लेशसमाश्वासशिबिराणि प्रति नीताः।
     कोषिक्कोट् जनपदे नवस्थानेषु भूस्खलनानि अभवन्। दुष्प्रभावे १२ जनाः मृताः। कोच्ची अन्तर्राष्ट्रविमाननिलयः चत्वारि दिनानि यावत् पिहितः वर्तिष्यते।
स्वतन्त्रता दिनस्य शुभाशंसाः।
   अद्य भारतस्य द्विसप्ततितमं स्वातन्त्र्यदिनम्। भारतस्य प्रधानमन्त्री श्री नरेन्द्रमोदी 
  आशंसाभाषणम् अकरोत्‌ , भारतस्ववतन्त्रतायाः ध्वजारोहणं च अकरोत्।
भग्नभीषायां वर्तमानः मुल्लपेरियार् जलबन्धः जलेन पूर्यते। केरलजनाः पुनरपि भीत्याम्I
        कुमळी /केरलम् > मुल्लपेरियार् नाम जलबन्धे जलवितनं षट्त्रिंशदधिकै कशतं पादमितम् अभवत्I अस्य संवहनक्षमता द्विच त्वारिंशदधि कैकशत-पादपरिमिता भवतिI जलबन्धस्य वृष्टिप्रदेशेषु इदानीमपि वृष्टिः अनुवर्तते। जलवितानां द्विचत्वारिंशादधिकैकशतं (१४२) आगच्छति चेत् अधिकं जलं तमिल् नाड् राज्यं प्रति नेष्यति।

      वृष्टिपातेन अधिकं जलं जलबन्धे समागच्छति चेत् जलं बहिः नेतुं अधिकारः तमिल् नाट् सर्वकारस्य एवI जलबन्धः भग्नः चेत्  महाहानिः केरलस्येव इत्यस्थि वैरुद्ध्यम्। केवलं पञ्चदशवर्षपर्यन्तं यावत् भवति पुरातनोऽयं जलबन्धस्य आयुः इति विचारितःI जलबन्धस्य पुरातनत्वं तथा अबलत्वं च परिकल्प्प्य जलविधानं न्यूनं करणीयमित्यस्ति केरलस्य आवश्यम्। किन्तु सर्वोच्चच न्यायालयस्य आदेशस्य बलेन जलवितानं १४२ इति उपरि वितानं स्थातुम् तमिल् नाट् सर्वकाराय सन्दर्भः अलभत्। किन्तु प्रकृतिदुरन्तस्य पुरतः सर्वोच्च न्यायालयस्य आदेशस्य स्थानं वर्तते वा इति जनाः पृच्छन्ति।

Monday, August 13, 2018

पुण्यकोटिः- अनुप्राणित-उल्लिखित-चल-चित्रे भागं कर्तुम् अवसरः।

     कोच्चीची> पुण्यकोटिः नाम दक्षिणभारतस्य एकेन प्रख्यातजानपदगीतेन प्रेरितम् आदिममं संस्कृतभाषामयं अनुप्राणित-उल्लिखित-चल-चित्रं भवितुं सिद्धं वर्तते । इन्फोसिस्-नामिकायां सङ्गणकसूचना-प्रौद्योगिकी-संस्थायां प्रौद्योगिकी-तन्त्रज्ञत्वेन कार्यं कुर्वाणेन रविशङ्कर-नाम्ना संस्कृत-अनुरागातिरेकात् लिखित-निर्मितम् इदम् चित्रम् अद्यतनीयेषु युवसु संस्कृतप्रचारार्थम् । एतत् कर्म भारते तत्र तत्र निवसताम् अनेकेषां चित्र-अनुप्राणन-तज्ज्ञानाम् सश्रद्धं कठिनपरिश्रमस्य परिणामः अस्ति, येषु केचन निस्स्वार्थाः  इदं सत्कर्मार्थम् इति भावयन्तः धन-लाभ-अनपेक्षाः अपि । अपि च बहुप्रख्यातः इलयराजा-नामकः सङ्गीतनिर्माता अस्य चित्रस्य सङ्गीतरचयिता अस्ति। तथा दक्षिणभारते अतिविख्याता रेवती-नामा चल-चित्र-अभिनेत्री अस्मिन् चित्रे स्वध्वनिदानेन भागं निरवहत् ।

      एतन्निमित्तं रवि-वर्येण अद्यावधि प्रायः ५३ लक्षं रूप्यकाणि सञ्चितानि सन्ति स्वहितैषिणाम् अपि च चित्रस्य तद्गतसन्देशस्य च अनुमोदकानाम् च साहाय्यात् । विश्बेरी-नामिकायाः संस्थायाः मञ्चस्य द्वारा परिकल्पितां जन-समूह-अर्थ-दान-व्यवस्थाम् उपयुज्य आभारतं निवसन्तः अनेके जनाः अग्रे आगत्य यथाविधं स्वभागदानं कृतवन्तः । तेषां एवं करणस्य मुख्यकारणम् अस्ति संस्कृते अनुरागः । तथाऽपि इदं विश्वस्तरे श्लाघनीयम् अनुप्राणित-चित्रं निर्मातुम् इतोऽपि अधिकं २३ लक्षं अपेक्ष्यते रवि-वर्येण । एतस्य समुद्यमस्य साहाय्यकर्तृषु अनुमोदकेषु अन्यतमाः राजन्ते भूतपूर्वः इन्फ़ोसिस्-निर्देशकः मोहनदास-पाय्-वर्यः, कर्णाटकस्य प्रथमा महिला ऐ.पी.एस्. अधिकारिणी जीजा-हरिसिङ्ग्-वर्या , राष्ट्रियपुरस्कारभाक् सम्पादकः मनोज-कन्नत्-वर्यः तथा लोकविदित-पाञ्चालिकाचालकौ अनुपमा विद्याशङ्कर-होस्केरेवर्यः च। स्वयं रवि-वर्यस्य पुत्री बहुभाषापटुः संस्कृतभाषिणी च स्नेहा-नामिका अपि अत्र स्वध्वनिदानेन उपकृतवती।

        पाश्चात्य-संस्कृतेः सङ्कलनात् संस्कृतभाषा अद्य शनैः  किञ्चित् पृष्टमेव अवशिष्यते। पुण्यकोटि-चित्र-द्वारा एतां दिव्यां भाषाम् उद्धरन् सत्ययुक्तस्य जीवनस्य महिमानं, निसर्गानुकूलां जीवनरीतिं च युवजनेभ्यः प्रतिबोधयितुं रविवर्यः आशास्ते।

        संस्कृतजगति अन्तर्भूतानां भवतां अधुना अस्माकं संस्कृतिं इतिहासं च प्रपञ्चकलाक्षेत्रपथे स्थापयितुं कश्चिदयं अवकाशः । प्रचारोऽयम् अधुना चित्रं सम्पूर्णतां नेतुं आर्थिकव्यवस्थां परिकल्पयन् वर्तते यत्र भवन्तः साहाय्यं कर्तुम् अवकाशः जातः ।   भवन्तः अत्र (http://bit.ly/2M3cBDm) भागदानेन स्वानुमोदनं दर्शयन्तु अन्यजनेषु च सूचनामिमां प्रसारयन्तु ।
अतिवृष्टिः न्यूना; केन्द्रगृहमन्त्री प्राप्तः; दैन्याय आश्वासः। 
     कोच्ची > केरलस्य जलबन्धवृष्टिप्रदेशेषु अतिवृष्टेः अल्पमात्रन्यूनता इत्यतः प्रलयदैन्यस्य आशङ्का अपगम्यमाना वर्तते। किन्तु जलबन्धेभ्यो बहिर्नीयमानजलपरिमाणे न्यूनता न कृता। अतः यत्र यत्र जलोपप्लवः सञ्जातः तत्रत्याः जनाः इदानीमपि दैन्याश्वासशिबिरेषु एव वर्तमानाः सन्ति। 
   केन्द्रगृहमन्त्री राजनाथसिंहः ह्यः केरलमागत्य जलोपप्लवदैन्यानि साक्षात्सन्दृष्टवान्। राज्यचरिते बृहत्तमः प्रकृदुरन्त इति दुरन्तमण्डलानि साक्षाद्दृष्ट्वा तेनोक्तम्। शतकोटिरूप्यकणां धनसाहाय्यं  शीघ्रसाह्यरूपेण केन्द्रमन्त्रिणा प्रख्यापितम्। 
     गतदिने मुख्यमन्त्री पिणरायि विजयः उदग्रयानेन केरलानां दुरन्तबाधितप्रदेशान् सन्दृश्य स्थितिगतयः अवलोकितवान्। ८३१६कोटिरूप्यकाणां विनष्टः केरलेषु प्रकृतिदुरन्तेन सञ्जात इति मुख्यमन्त्रिणा प्रोक्तम्। १२२० कोटि रूप्यकाणां साहाय्यं केन्द्रसर्वकारं प्रति अपेक्षितम्। अतिवृष्टिदुष्प्रभावे केरलेषु इतःपर्यन्तं ३४ जनाः मृत्युमुपगताः। ५३,००० अधिकं जनाः दैन्याश्वासकेन्देषु अभयं प्राप्ताः सन्ति।