फिफा विश्वचषकः।
विमर्शकाणां वक्त्रं पिदधीत CR7।
क्रिस्टियानो रोनाल्डो ।
हूस्टणः> अतीतायां क्रीडायां नष्टचेतन इव आचरितवान् इति आराधकानां प्रतियेगिनां च विमर्शनैः वाक्ताडनमनुभूतवान् क्रिस्टियानो रोनाल्डो नामकः गतरात्रौ सर्वेभ्यः भृष्टमुत्तरं दत्तवान्। CR7 इति आराधकैः आह्वयमानः पोर्चुगलदलनायकः उस्बकिस्थानं विरुध्य प्रतियोगितायां लक्ष्यकन्दुकद्वयं सम्प्राप्य प्रतिद्वन्दिनं ५-० इति उज्वलविजयाय नेतृत्वमावहच्च। अतीतेषु ६ विश्वचषकेषु अनुस्यूततया लक्ष्यकन्दुकसम्पादनम् इति चरित्रोपलब्धिश्च अस्य नाम्नि रचिता।
रोनाल्डो वर्यस्य लक्ष्ययुगलं ६, ३९ निमिषयोः आसीत्। पोर्चुगलस्य क्रीडकौ सुनो मेन्डिस् (१७), रफायेल् लियावो (८७) च इतरौ लक्ष्यभेदकौ। पञ्चमं लक्ष्यं तु उस्बकिस्थानीयस्य स्वयंकृतानर्थम् ( ६०) आसीत्। आद्यन्तम् क्रीडाधिपत्यं पोर्चुगलस्य आसीत्। किन्तु एकस्मिन्नवसरे पोर्चुगलस्य लक्ष्यकन्दुकजाले उस्बकिस्थानेन कृतं लक्ष्यभेदनं दोषारोपात् निरस्तं च।