OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, June 22, 2026

 राममन्दिरे दानराशेः अपक्रमः।

मन्दिरपालनन्याससदस्याः अयोध्यायां भवितव्याः इति एस् ऐ टि।


अयोध्या> अयोध्यायां राममन्दिरे भक्तजनानां दानराशिषु बृहदपक्रमः जातः इत्यारोपणे अन्वेषणम् अभिमुखीक्रियमाणाः रामजन्मभूमि मन्दिरपरिपालनसंस्थायाः धुरन्धराः मन्दिरसेवकाः च अयोध्यायामेव भवितव्याः इति सविशेषान्वेषणसंघेन [SIT] निर्दिष्टम्। 

  रामलल्लाय [बालरामाय] भक्तैः समर्पितानि कनकरजतरत्नानि अपहृतानीति सूच्यते। एतेषां समर्पणसूचनाप्रमाणानानं विषये सुतार्यता न दृष्टा। २०० कोटितः १४०० कोटिरूप्यकाणां भृष्टाचारः कृतः इत्येव आरोपः। २०२५ जनुवरि फेब्रुवरिमासयोः महाकुम्भमेलकाले स्यात् अपक्रमः इति सूच्यते। तस्मिन् काले भक्तानां समर्पणानि उच्चरीत्या आसन्।