बिश्वनाथ सिन्हा केरलस्य नूतनः मुख्यसचिवः।
अनन्तपुरी> इदानीं राज्यस्य गृहविभागे अतिरिक्तमुख्यसचिवरूपेण [Additional Chief Secretary] सेवां क्रियमाणं बिश्वनाथ सिन्हां आगामि मुख्यसचिवरूपेण नियोक्तुं केरलस्य मन्त्रिमण्डलेन निर्णीतम्। अस्मिन् मासे ३० तमे दिनाङ्के वर्तमानीनः मुख्यसचिवः ए जयतिलकः सेवानिवृत्तो भविष्यति। तत्स्थाने अस्ति बिश्वनाथस्य नियुक्तिः।
१९९२ ऐ ए एस् गणीयः बिश्वनाथ सिन्हा बिहारराज्यीयः अस्ति। केरले बहुषु विभागेषु सचिवपदं वहति स्म।
