OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, June 23, 2026

 लख्नावि महान् अग्निप्रकाण्डः।

१५ जनाः दग्धाः। 

लख्नौः> उत्तरप्रदेशस्य राजधानीनगरस्थे अलिगञ्जे 'अनिमेषन्' परिशीलनकेन्द्रे दुरापन्ने महति अग्निप्रकाण्डे १५ जनाः दारुणेन मृताः। परिशीलनकेन्द्रे वर्गे भागं कृतवन्तः छात्राः एव मृतेषु भूरिशः। सप्त जनाः आहताः। 

 सोमवासरे अपराह्णे आसीत् स्तरत्रयोपेते भवनसमुच्चये अग्निबाधा। उच्चस्तरे बाधिता अग्निः नीचस्तरं व्याप्तः। भवनात् उत्प्लुत्य एव बहवः आहताः।