फिफा विश्वचषकः।
फ्रान्स्, नोर्वे च निर्णायकचरणं प्रापतुः। 
किलियन् एम्बापे।
अल्जीरियायाः प्रथमविजयः।
यू एस्> विश्वचषकपादकन्दुकस्पर्धायाम् उज्वलविजयेन फ्रान्स्, नोर्वे दलौ निर्णायकचरणं [knock out] प्रापुः। फ्रान्सः प्रत्युत्तररहितैः त्रिभिः लक्ष्यकन्दुकैः इराखं पराजापयत। नोर्वे तु द्वयं विरुध्य त्रीणि लक्ष्याणि सम्पाद्य सेनगलम् अभ्यभवावयत्। जोर्दानं पराजित्य अल्जीरिया प्रथमविजयं सम्प्राप - [२-१]।
फ्रान्सस्य क्रीडकः किलियन् एंबापे, नोर्वीयक्रीडकः एर्लिंग हालण्टः च युगलक्ष्यं सम्पादितवन्तौ। एंबापे विश्वचषके १६ क्रीडाभ्यः १६ लक्ष्यकन्दुकानि सम्पाद्य जैत्रयात्रा अनुवर्तते। लक्ष्यसमाहरणे लयणल् मेसी १८ लक्ष्यैः अस्य अग्रे वर्तते।