OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, June 22, 2026

आगामि वर्षात् सङ्गणकाधारिता स्नातकपूर्वस्तरीया राष्ट्रियार्हताताप्रवेशपरीक्षा।

प्रश्नपत्रचौर्यकरणवार्ता अनृता।

वार्तं विरुद्ध्य नियमप्रक्रमाः स्वीकरिष्येति NTA।

AI चित्रम्

नवदिल्ली> वैद्यकीयप्रवेशार्थं प्रवर्त्यमानायां स्नातकपूर्वस्तरीयायां राष्ट्रियार्हता-प्रवेशपरीक्षायां महत्त्वपूर्णं परिवर्तनं कर्तुं राष्ट्रियपरीक्षणाभिकरणं (NTA) सज्जतां करोति। वर्तमानकाले कागदाधारितां परीक्षाम् आगामिवर्षात् सङ्गणकाधारिता अन्तर्जालिकपद्धत्यां परिवर्तयितुं प्रक्रियामारभतेति महानिदेशकः अभिषेक सिंहेन न्यवेदयत्।

एतद्विषये उच्चस्तरीयसमितेः प्रस्तावं केन्द्रशासनमन्वमन्यत। तस्मात्कारणात् प्रक्रिया शीघ्रं समारब्धा। अपरत्र पुनर्परीक्षायाः प्रश्नपत्रं टेलिग्राममाध्यमेन

चोरितमिति सामाजिकमाध्यमेषु प्रसार्यमाणानि चलच्चित्राणि सन्देशाश्च पूर्णतया मिथ्याभूतानि इति केन्द्रशासनं राष्ट्रियपरीक्षणाभिकरणं च प्राकाशयताम्। मिथ्यावार्तायाः प्रसारणे व्यापृतान् जनान् विरुद्ध्य अन्तर्जालिकापराध -विरोध्यभिकरणस्य भारतीयान्तर्जालिकापराध-समन्वयकेन्द्रस्य आरक्षकविभागस्य च साहाय्येन कठोरा वैधानिककार्यवाही विधास्यत इति राष्ट्रिय-परीक्षण- अभिकरणम् उद्घोषयत्॥

-