ब्रिट्रनस्य प्रधानमन्त्री केयर् स्टामरः स्थानं तत्याज।
लण्टनं> ब्रिट्रनस्य प्रधानमन्त्रिपदात् लेबर् पार्टीति प्रशासनपक्षस्य नेतृस्थानाच्च केयर् स्टामरः त्यागपत्रं समर्पितवान्। २०१६ तमे वर्षे संपन्नात् 'ब्रेक्सिट्' नामकात् हितशोधनात् परं राजनैतिकास्थिरतां निपतिते ब्रिटने १० वर्षाभ्यन्तरे स्थानत्यागं कुर्वन् सप्तमः प्रधानमन्त्री भवति केयर् स्टामरः।
मेय् मासे सम्पन्ने तद्देशनिर्वाचने लेबर् पार्टी बृहत् प्रत्याघातः अभिमुखीक्रियते स्म। सेप्टंबरमासात् पूर्वं राष्ट्रस्य नूतनप्रधानमन्त्री, लेबर् पार्टेः नूतननेता च भवेदिति मन्यते।
