अखिलभारतीया ओण्लाइन्-संस्कृतज्ञान-प्रतियोगिता २०२६
पञ्जीकरणप्रक्रिया प्रारब्धा
![]() |
| कृत्रिमबुद्धिमत्तया रचितं चित्रम् |
स्व. डॉ. वाचस्पति-मैठाणी-महोदयस्य ७७तम-जयंती-अवसरे सप्तमी अखिलभारतीया ओण्लाइन्-संस्कृतज्ञान-प्रतियोगिता २०२६ पञ्जीकरणप्रक्रिया प्रारब्धा
• व्हाट्सएप-माध्यमेन तथा जालपुटेन (Website) पञ्जीकरणस्य सुविधा।
• पञ्चवर्षीयबालकात् आरभ्य वरिष्ठनागरिकपर्यन्तं सर्वे प्रतिभागिनः भवितुमर्हन्ति।
• देशविदेशस्थिताः संस्कृतप्रेमिणोऽपि प्रतियोगितायां सहभागित्वं कर्तुं शक्नुवन्ति।
राष्ट्रपतिपुरस्कारसम्मानितः शिक्षाविद्, उत्तराखण्डराज्यस्य पूर्वसंस्कृतशिक्षानिदेशकः, “संस्कृतपुरुषः” इति ख्यातः स्वर्गीयः डॉ. वाचस्पति-मैठाणी-महोदयः अस्य वर्षस्य अगस्तमासस्य २८ तमे दिने ७७तमां जयन्तीं प्राप्स्यति। तस्याः पावनस्मृतौ सप्तमी अखिलभारतीय-ऑनलाइन-संस्कृतज्ञान-प्रतियोगिता–२०२६ इत्यस्याः पञ्जीकरणप्रक्रिया सम्प्रति प्रारब्धा अस्ति।
प्रतियोगितायाः राष्ट्रियसंयोजकः श्री कैलाशपति-मैठाणी-महोदयः अवदत् यत् संस्कृतभाषायाः, भारतीयसंस्कृतेः, सनातनमूल्यानां तथा नैतिकसंस्काराणां संरक्षणसंवर्धनार्थं आयोजितायां अस्यां प्रतियोगितायां सर्वे संस्कृतप्रेमिणः सहभागित्वं कर्तुं शक्नुवन्ति। गतवर्षेषु वरिष्ठनागरिकैः तथा प्रवासीभारतीयैः प्रदर्शितमुत्साहं दृष्ट्वा अस्मिन् वर्षेऽपि तेषां विशेषसहभागिता सुनिश्चितीक्रियते।
तस्य कथनानुसारं प्रतियोगितायां विभिन्नवयोवर्गानुसारं विविधाः स्पर्धाः आयोज्यन्ते—
५–९ वर्षपर्यन्तानां बालकानां कृते बालसंस्कार-माङ्गलिकश्लोकगानम्,
१०–१६ वर्षपर्यन्तानां कृते संस्कृतदेशभक्तिगीतगानम्,
१७–२५ वर्षपर्यन्तानां कृते प्रेरणादायिकलघुकथावाचनम्,
२६–५० वर्षपर्यन्तानां कृते भर्तृहरि-नीतिशतक-श्लोकगानम्,
५१ वर्षाधिकवयस्कानां कृते स्तोत्रगानम्,
९–१८ वर्षपर्यन्तानां कृते संस्कृतगीतनृत्यम्,
तथा कक्षा ३ तः १२ पर्यन्तं पठमानानां विद्यार्थिनां कृते ऑनलाइन-संस्कृतसामान्यज्ञान-प्रतियोगिता च आयोजिता भविष्यति।
प्रतिभागिभिः स्वकीयाः चलचित्ररूपेण (Video) प्रस्तुतयः २०२६ वर्षस्य जुलाईमासस्य ३१ तिथेः पूर्वं सम्बन्धित-व्हाट्सएप-समूहेषु प्रेषणीयाः।
श्रीमैठाणी-महोदयेन उक्तं यत् निर्णायकमण्डलस्य मूल्याङ्कनस्य अतिरिक्तं स्मृतिमञ्चस्य फेसबुकपृष्ठे प्राप्तदर्शकसंख्याया (Views) आधारेण अपि प्रतिभागिभ्यः अधिकतमं २० अङ्काः प्राप्तुं अवसरः भविष्यति। संस्कृतसामान्यज्ञान-प्रतियोगिता २०२६ अगस्तमासस्य २७ तमे दिने गूगल-क्विज्-माध्यमेन ऑनलाइन-पद्धत्या भविष्यति। प्रतियोगिताफलानि च २०२६ अगस्तमासस्य २८ तमे दिने, स्व. डॉ. वाचस्पति-मैठाणी-महोदयस्य ७७तम-जयंती-अवसरे घोष्यन्ते।
प्रतियोगितायां प्रथम-द्वितीय-तृतीय-स्थानप्राप्तेभ्यः पुरस्काराः, स्मृतिचिह्नानि च प्रदास्यन्ते, सर्वेभ्यः प्रतिभागिभ्यः प्रमाणपत्राणि अपि प्रदीयन्ते।
प्रतियोगितासम्बद्धाः सर्वे पञ्जीकरणसंपर्कसूत्राणि तथा विस्तृतविवरणानि स्मृतिमञ्चस्य जालपुटे उपलब्धानि सन्ति— https://drmaithani28.wixsite.com/drmaithani
अभिलषन्तः प्रतिभागिनः ९४१२०५३१२९ इति व्हाट्सएप-सङ्ख्यां प्रति “हरि ओम्” इति सन्देशं प्रेष्यापि सम्पूर्णां सेचनां प्राप्तुं शक्नुवन्ति।
