OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, June 22, 2026

 फिफा विश्वचषकः।

जर्मनी, स्पेयिनदलयोः विजयः। 

लामिन् यमालः। 

यू एस्> विश्वचषकपादकन्दुकस्पर्धायाम्  अनुस्यूततया द्वितीय जयेन जर्मनीदलं षडङ्कैः 'नोक् औट्' (knock out) नामकमनन्तरचक्रं प्राविशत्। ऐवरीकोस्ट् दलम् एकं विरुध्य लक्ष्यकन्दुकद्वयेन पराजित्य अस्ति जर्मनेः द्वितीयचक्रप्रवेशः। 

  ह्यः रात्रौ सम्पन्ने अन्यस्मिन् प्रतिद्वन्द्वे स्पेयिनदलं सौदी अरेबियायाः उपरि एकपक्षीयैः चतुर्भिः लक्ष्यकन्दुकैः उज्वलं विजयं सम्प्राप। स्पेयिनस्य युवक्रीडकः लामिन् यमालः लक्ष्यकन्दुकवर्षस्य प्रारम्भं कृतवान्। ततः मैक्कल् ओयर् सबालः लक्ष्यद्वयं सम्पाद्य स्पेयिनस्य अधीशत्वम् उद्घोषितवान्। इतरं लक्ष्यकन्दुकं प्रतिद्वन्द्विनः स्वयंकृतानर्थमस्ति।