OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, June 23, 2026

 फिफा विश्वचषकः।

अर्जेन्टीना विजिता।

मेसेः चरित्रोपलब्धिः। 

लियोणल् मेसी। 

टेक्सास्>  आस्ट्रियां विरुध्य अर्जन्टीनायाः स्वेदप्रवाहिते प्रतिद्वन्द्वे एकपक्षीयेन लक्ष्यकन्दुकद्वयेन अर्जेन्टीना 'नोकौट्' चक्रं प्राविशत्। लियोणल् मेसेः पादाभ्यामेव लक्ष्यद्वयमपि प्रासूत। अनेन मेसिवर्यः विश्वचषके १८ लक्ष्यकन्दुकानि सम्पाद्य नूतनं अनन्यप्रथमप्राप्तित्वम् अलभत। मिरोस्लोव क्लोस इत्यस्य उपलब्धिरेव मेसिना भग्ना। 

  आस्ट्रियादलस्य अनन्यसाधारणं प्रतिरोधं छेत्तुम् अर्जेन्टीनया बहुस्वेदः प्रवाहितः। क्रीडायाः ३५ तमे निमेषे आसीत् प्रथमलक्ष्यकन्दुकम्। द्वितीयाय द्वितीयार्धस्य दुर्घटनास्थगितपरिहारकालस्य [injury time] अन्तिमनिमिषं यावत् प्रतीक्षते स्म।