मनोगतम् [०२.२४]- ७७-उपाख्यानम् ‘मनकीबात’, प्रसा.तिथि: - ३०-मे’२०२१
[भाषान्तरम् – डॉ.श्रुतिकान्तपाण्डेय-गवीशद्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]
*****
मम प्रियाः देशवासिनः, नमस्कारः। वयं पश्यामः यत् केन प्रकारेण देशः पूर्ण-शक्त्या COVID-एकोनविशं विरुद्ध्य युध्यति। विगतेषु शत-वर्षेषु इयं हि बृहत्तमा महामारी अस्ति, तथा च अस्याः प्रवर्तमानायाः महामार्याः अवधौ भारतेन अनेकाः प्राकृतिकाः आपदः ससाहसं सम्मुखीकृताः। अस्मिन्नवधौ ‘अम्फान्’-नामा सामुद्रिक-झञ्झावातः समापतितः, ‘निसर्ग’- इति चक्रवातः आगतः, अनेकेषु राज्येषु जलपूरः समापन्नः, कदाचित् लघवः कुत्रचिच्च बृहन्तः अनेके भूकम्पाः दुरापन्नाः, भू-स्खलनानि च सञ्जातानि । नाति









