नवदिल्ली - नाषणल् हेराल्ड् इति वार्तापत्रिकासंबन्धविषये भारतीयसंसदः सभाद्वयमपि स्तंभितम्। सभाकार्यक्रमाः स्थगिताः चl
विषयम् उन्नीतुं लोकसभाध्यक्षा सुमित्रा महाजनः राज्यसभाध्यक्षःहमीद् अन्सारी च बहुवारम् कोण्ग्रस्दलाङ्गान् आमन्त्रयत् तथापि तदनङ्गीकृत्य एव ते सभास्तम्भनं कृतवन्तः।एतद्विषये केन्द्रसर्वकारेण प्रतीकारः क्रियते इति कोण्ग्रस् दलस्य आरोपः।
OUR YouTube Channel 1. SampratiVartah |
marquee
Wednesday, December 9, 2015
नाषणल् हेराल्ड् विषये संसद्स्तंभनम्।
मुम्बईनगरप्रान्तप्रदेशे अग्नि बाधा - द्वौ मृतौ।
मुम्बई - पश्चिमनगरस्य समीपे कान्तिवलीनाम्नि प्रान्तप्रदेशे संवृत्तायामग्निबाधायां द्वौ मृतौ।बहवः आहताः।शताधिकानि कुटीराणि भस्मसात्कृतानि।
कान्तिवलिप्रदेशस्य पूर्वस्यां दिशि अक्कुर्लिमार्गे दामुनगर् प्रविश्यायां ह्यः मध्याह्ने १२.३० वादने अग्निबाधा सञ्जाता।मार्गः कृश इति कारणेन रक्षाप्रवर्तनं दुष्करमभवत्।अस्मिन् सन्दर्भे अनिलकोशानां स्फोटनानि दुरनतस्य तीव्रतामवर्धत।
१६ अग्निशमनयन्त्राणां साहाय्येन आरक्षकाः द्रुतकर्मसेना च रक्षाप्रवर्तनम् अकुर्वन्।
नाटकाचार्यः एस् रामानुजम् अन्तर्यातः।
तञ्चावूर् - दक्षिणभारतस्य नाटकवेदिकाभ्यः नूतनं दिशाबोधं दत्वा नाटकसङ्कल्पने आमूलाग्रं नवपरिवर्तनम् आनीय नाटकरामानुजम् इति विख्यातः आचार्यः एस् रामानुजं कालयवनिकाम् अन्तर्दधौ।८० वयस्क आसीत्।प्राचीन-आधुनिकनाटकानि सहितं मलयालं हिन्दी आङ्गलं तमिल् भाषासु ५० परं नाटकानां निदेशनं अनेन कृतम्।२००८ तमे वर्षे केन्द्र संगीत नाटक अकादम्याः अनुदानं २००२तमे केरलसंगीतनाटकअकादम्याः अनुदानं च अस्मै दत्तमस्ति।
१९३५तमे तमिल्नाटुराज्ये तञ्चावूर् समीपे नाङ्कुनेरी प्रदेशे लब्धजन्मा अयम् आङ्गलभाषायाम् आचार्यबिरुदं देशीयनाटकविद्यालयात् डिप्लोमा बिरुदं च सम्पाद्य गान्धिग्राम् ग्रामीण सर्वकलाशालायां शिक्षकः अभवत्।ततः तृश्शिवपेरूर् नाटकविद्यालये सहनिर्देशको भूत्वा अनन्तरं तञ्चावूर् तमिल् विश्वविद्यालये नाटकविभागस्य अध्यक्ष अभूत्।तञ्चावूरे तप्पाट्टसदृशानां पारम्पर्यकलारूपाणां पुनरुज्जीवनाय अक्षीणम् अयतत।कैरलीनाटकाचार्यस्य जि शङ्करप्पिल्लामहोदयस्य सहप्रवर्तकः चासीदयम्।
केरले विश्वविद्यालयेषु अनध्यापकनियुक्तिः पि एस् सि द्वारा।
अनन्तपुरी - केरलराज्ये सर्वेषु विश्वविद्यालयेषु अनध्यापकानां नियुक्तिं केरल पब्लिक् सर्वीस् कम्मीषन् (KPSC)संस्थाद्वारा कर्तुमुद्दिष्टं प्रमाणपत्रं(Bill) केरलनियमसभया अङ्गीकृतम् उत्तीर्णं च।इदानीम् अध्यापकनियुक्तिः यू जि सि व्यवस्थाः अनुसृत्य अनध्यापकनियुक्तिः विश्वविद्यालयैः निश्चितं व्यवस्थानुसारं च क्रियते।प्रमाणपत्रस्य विधिप्राप्त्यनन्तरं पि एस् सि द्वारा परीक्षां सञ्चाल्य विरच्यमानायाः श्रेणीपट्टिकायाः एव अनध्यापकसेवकानां नियुक्तिः भविष्यति।
भीकराक्रमणे ६ सि आर् पि एफ् भटाः आहताः।
श्रीनगरं - सि आर् पि एफ् भटानां वाहनव्यूहं प्रति संवृत्ते भीकराक्रमणे ६ सेनांगाः क्षताः अभवन्।श्रीनगरात् ५० कि मी दूरे अज्ञाताः भीकराः शतघ्निनिभिः आक्रमणं कृतवन्तः।वाहनव्यूहः जम्मूतः श्रीनगरं प्रति सञ्चरन्नासीत्।
आहताः भटाः अनन्तनागस्थम् आतुरालयं प्रवेशिताः।भीकरान् गृहीतुम् अन्वेषणम् आरब्धम्।
मुम्बईनगरप्रान्तप्रदेशे अग्नि बाधा - द्वौ मृतौ।
मुम्बई - पश्चिमनगरस्य समीपे कान्तिवलीनाम्नि प्रान्तप्रदेशे संवृत्तायामग्निबाधायां द्वौ मृतौ।बहवः आहताः।शताधिकानि कुटीराणि भस्मसात्कृतानि।
कान्तिवलिप्रदेशस्य पूर्वस्यां दिशि अक्कुर्लिमार्गे दामुनगर् प्रविश्यायां ह्यः मध्याह्ने १२.३० वादने अग्निबाधा सञ्जाता।मार्गः कृश इति कारणेन रक्षाप्रवर्तनं दुष्करमभवत्।अस्मिन् सन्दर्भे अनिलकोशानां स्फोटनानि दुरनतस्य तीव्रतामवर्धत।
१६ अग्निशमनयन्त्राणां साहाय्येन आरक्षकाः द्रुतकर्मसेना च रक्षाप्रवर्तनम् अकुर्वन्।
ऐ एस् संस्थां नाशयिष्यति - ओबामा।
वाशिङ्टण् - इस्लामिक् स्टेट्(ऐ एस्) इति भीकरसंस्थायाः उन्मूलनाशं करिष्यतीति अमेरिक्काध्यक्षस्य ओबामावर्यस्य शपथः।कालिफोर्णियाप्रदेशे संवृत्तायाः संघहत्यायाः अनन्तरमेव ओबामावर्येण स्वमतं कठिनीकृतम्।
'वैट् हौस'स्थात् कार्यालयात् राष्ट्रम् अभिसंबोधयन् भीकरतायाः भीषणिः यथार्थमिति स अंगीकृतवान्।किन्तु भीकरताविरुद्धप्रयत्ने भागभागं कृतवतां राष्ट्राणां साहाय्येन अमेरिक्का विजयं प्राप्स्यति इति ओबामा उक्तवान्।
एष़ुत्तच्छन् पुरस्कारः डो. पुतुश्शेरी रामचन्द्राय।
अनन्तपुरी - केरलसर्वकारस्य परमोन्नतः साहित्यपुरस्कारः एष़ुत्तच्छन् पुरस्कारः प्रमुखभाषानिरूपकाय डो. पुतुश्शेरी रामचन्द्राय लभते।सम्माने १.५लक्षं रूप्यकाणि प्रशंसापत्रं फलकं च अन्तर्भवन्ति।
कविः भाषागवेषकः अद्ध्यापकः निरूपकः इत्यादिमण्डलेषु प्रसिद्धो भवति डो पुतुश्शेरी।मलयालसाहित्याय तस्य समग्रयोगदानमधिकृत्य एवायं पुरस्कारः।
Tuesday, December 8, 2015
लोक् पाल् बिल् दिल्ली मन्त्रिसभया अङ्गीकृतः।
नवदिल्ली- अलीकान् प्रतिरोद्धुं केजरिवालस्य दलेन उन्नीतः आशयः भवति एतत् । दिल्ली गवर्णर् केन्द्र सर्वकारः च अङ्गीकरणीयः । तदनन्तरमेव नियमस्य साधुता भविष्यति। यूनः अनेन प्रभावितः च। नियमपत्रिकायाः प्राबल्यः भविष्यति चेत् ओंबुड्स्मानस्य अधिकार परिधिः इतोपि वर्धमानः भवेत् ।
Monday, December 7, 2015
नवदिल्ली - भारतस्य प्रधानमन्त्रिणं नरेन्द्रमोदिनं जीवापायं कर्तुं पाकिस्तानस्थेन लष्कर् ई तोयिबा इत्यातङ्कवादिसंघेन आसूत्रिता पद्धतिः रहस्यान्वेषणसंस्थया भञ्जिता।
भारते भीकराक्रमणसाध्यता अस्तीति प्रधानमन्त्री तेषां मुख्यलक्ष्यम् इति च गुप्तचरदलेन पूर्वमेव प्रस्तुतमासीत्।ततःपरं दिल्ली आरक्षकसंघस्य गुप्तचरदलस्य च संयुक्तान्वेषणस्य अन्ते भीकराणां पद्धतिः पराजिता अभवत्।
उच्चतमन्यायालयेन विधेः शासनं संधारयिष्यते
चेन्नै नगरे पुनः वृष्टिः
चाडनगरे विस्फोटघटनायां २७ जनाः मृताः
चेनै विमानपत्तनम् इदानीं राष्ट्रियान्तारष्ट्रिविमानसेवाभ्यः पूर्णतया सक्रियतया सन्नद्धम्।
भारतपाकिस्तानयोः रचनात्मकसम्बन्धानां विकासार्थं सहमतिः प्रकाशमागता।
पञ्जाबे पवित्रग्रन्थस्यावमानकर्ता मुख्याभियुक्तो ह्यः हरियाणाराज्ये जीन्दनगरे निगृहीतः।
विदेशमन्त्री सुषमास्वराजमहाभागा निगदति यद्भारतं खलु समन्वितनेपालस्य समर्थकं द्रुतं च राजनीतिकसङ्कटसमाधानमीहते।
भूतपूर्वराष्ट्रपतेः कलामस्य स्थावरदूरवाण्याः शुल्कः न दत्तः- BSNL सूचना प्रेषितः।
अनन्तपुरी केरलस्य राजभवने उषितः अब्दुल् कलामः तस्मिन् काले उपयोक्तुं 2724800 सङ्ख्यकः स्थावर दूरवाणीम् स्वीकृतवन्त: तस्य निधनानन्तरं शुल्कः कोपि न दत्तः इत्यनेन स्थावरदूरवाण्या: शुल्कः 1026 रुप्यकाणि एव अभवत्। अत एव BSNL कर्मचारिभिः सूचना प्रेषिता। एतादृश घटना अस्तीति एतावत्पर्यन्तं BSNL अधिकारिणः न उक्तवन्तःइति रजभवनात् वदति। तथापि शुल्क: दातुं विलम्बम् विना यत् करणीयं तत् करिष्ये इत्यपि राजभवनात् अवदत्।
Comment - His Mother Bharataamba is Crying today.
Sunday, December 6, 2015
दिल्ल्यां लष्कर् आक्रमणात् भीतिः- आरक्षकाः
आतङ्कवादे बालकानां नियुक्तिः।
Saturday, December 5, 2015
इटुक्की
- प्रशिक्षणस्य सुगमसंचालनाय 101 जनानां स्वागतसंघं रूपीकृत्य कार्याणि
कुर्वन्त: सन्ति। धनसमाहरणस्य उद्घाटनं श्री कुम्मनं राजशेखरमहोदयेन
कृतम्।प्रशिक्षणस्य प्रचरणाय दीपावली कुटुम्बसंगमे कुमारी सरस्वत्याः
संस्कृतपरिचयः इति कार्यक्रम: जात: । प्रशिक्षणपूर्वशिबिराणि स्थानत्रये
आयोजितमस्ति। जनपदे विद्यमान अद्ध्यापका: वैद्याः ,संस्कृतेन जीवनं
कुर्वन्तः इतरमेखलासु विद्यमानाः अपि स्वकीयं कार्यमिति मत्वा प्रशिक्षणस्य
साहाय्यं कुर्वन्तः सन्ति।Friday, December 4, 2015
संस्कृताध्यापक-फ़ेडरेशनस्य साफ़ल्य:
Thursday, December 3, 2015
न्यूदिल्ली -चीना-भारतराज्ययोः परस्पर सहवर्तर्तित्वं राज्ययोः अधिकविकास स्यात् इति व्योमसेना मेधाविनः प्रतिवचनं। द्वयोः राज्ययोः तात्पर्याणि तु समाना च। चैनराज्येभ्यः सह युद्धं अभिप्राय भेदः सीमा तर्कादीनां परिहारादयः प्राप्तव्यानि। सैनिकतले साम्पत्तिकस्थरे च सहवर्तित्वं चेत् औन्नत्यं भविष्यति इति च सः उक्तवान् ।
चेन्नै नगरे अतिवृष्टिः ,197 जनाः मृताः
चेन्नै - विमानपत्तनस्य धावनपथे जलोपप्लवः, रविवासर पर्यन्तं भिधानम्। अस्मिन् शताब्दस्य महतीवृष्टि: इत्यभिधया उक्तः वृष्ट्या आनगरं प्रलयेन आप्लावितः। जनानां जीवन: स्थंभितः।सहस्राधिकान् दुर्घटनायाः वैपुल्यं ज्ञात्वा अन्यत्र प्रेषिताः विद्युत् बन्ध: प्रातः पुन:स्थापितः। जङ्गमदूरवाण्यः अधुनापि प्रवर्तनरहिताः। वारद्वयं यावत् वृष्ट्या मृतानां सङ्ख्या 197 अभवत्। मुख्यमन्त्रिणा जयललितया प्रलयबाधितप्रदेशेषु व्योमनिरीक्षणं क्रियते।Wednesday, December 2, 2015
Tuesday, December 1, 2015
वनसंरक्षणमुद्दिश्य पथसञ्चलनम्
Monday, November 30, 2015
-
|
नवदिल्ली -चेन्नै मेट्रो रेल् पद्धत्याः कृते १,०६९ कोटि रूप्यकाणि तथा अहम्मदाबाद् मेट्रो रेल् पद्धत्याः कृते ४,४१० कोटि रूप्यकाणि जापान् लोण् दास्यति इति केन्द्र धनकार्यमन्त्रालयेन सूचितम् |
'वै फ़ै'विद्यायाः 100 गुणित वेगवान् लै-फ़ै
परीक्षणम् विजयं प्राप्तः
Sunday, November 29, 2015
Saturday, November 28, 2015
Thursday, November 26, 2015
बन्द् पूर्वमेव केरले निरोधितः आसीत् ।
सर्वकारीयकर्मकराणां विरामदिनानि न्यूनीकुर्यात् - वेतनपरिष्करण -कम्मीशन्
कोच्ची : सर्वकारीयकर्मकराणां विरामदिनानि न्यूनी कृत्य कर्मदिनानि वर्धनीयानि इति वेतनपरिष्करण कम्मीशनस्य अध्यक्षः जस्त्तिस् . रामचन्द्रन् नायर् महोदयः अवदत्।
प्रवर्तिदिनेषु सङ्घटना प्रवर्त्तनानि निषिद्धानि भवन्तु । सर्वकारीय कर्मकाराणां कार्यक्षमतावर्धनमुद्धिश्य अयं निदेशः। दलीय प्रवर्तनाय विरामदिनानि अथवा अवकाश दिनानि उपयोक्तव्यानि । अध्यापकाः दलीय प्रवर्तनात् विरक्ताः भवन्तु इति च सः अवदत्
Wednesday, November 25, 2015
मद्यनिरोधनाय बीहारराज्यम्।
राज्ये सम्पूर्णमद्यनिरोधनाय पूर्वमेव महिलासहिताः जनाः निवेदनं कृतवन्तः आसन्।
कोच्ची - देशीयस्वातन्त्र्यदिने गणतन्त्रदिने च सर्वकारसेवकानां कृते युक्तियुक्तं कारणं विना विरामः न दातव्यः इति केरलस्य उच्चन्यायालयेन आदिष्टम्।देशीयदिनाचरणकार्यक्रमेषु सेवकानां भागभागित्वं निश्चयेन भवितव्यमिति मुख्यन्यायाधिपः अशोक् भूषणः न्याया. ए एम् षफीखः इत्येतौ न्यायाधीशौ आज्ञप्तवन्तौ।
Tuesday, November 24, 2015
८८ वयस्कःमहापात्रवर्यः ओडियाभाषायाम् आङ्गलेयभाषायां च २७ पुस्तकानि रचितवान्। साहित्यमण्डले समग्रयोगदानं पुरस्कृत्य १९९९ तमे वर्षे पद्मश्रीपुरस्कारेण एषः महोदयः सम्मानितः।
Monday, November 23, 2015
क्वालालम्पूर् - भारतम् किञ्चन युवकानां राष्ट्रं भवति, अत्र सर्वेभ्यः तुल्यः अधिकारः नीतिश्च इति प्रधानमन्त्री नरेन्द्रमोदिवर्य:। सर्वकार-जनयो: मध्ये व्यवहारे परिवर्तनम् आगच्छति। सर्वकारीय व्यवहारान् अतीव ललितं कर्तुं प्रयत्नः प्रचलति। नानात्वात् शक्तिं स्वीकृत्य भारतं सर्वथा एकतायां बद्धं भवति। आसियन उच्चकोटिसम्मेलने भागं स्वीकृत्य भारतसमाजम् सम्बुध्य भाषमाणः आसीत् सः। विश्वे महती आर्थिकी शक्ति: भविष्यति भारतम्। विश्वे निपुणानाम् ऐ. टि. विभागज्ञानाम् उत्पत्तिः अधिकतया भारतात् एव संभवति । भारतीयानि उत्पन्नानि लोक विपण्यां आगच्छन्ति सन्ति। एवं उत्तम कार्याणि आधिकानि जायमानानि सन्ति। भारतस्य बृहत्तमः वाणिज्यसहकारी भवति मलेष्या। सः सम्बन्धः सर्वदा वर्धनीयः। मलेष्यायाः विकसने तमिल् जनानां सम्भावना आपि महत्तमा इति मोदिवर्येण उक्तम्।
Sunday, November 22, 2015
हिंसाशीलानि न्यूनीकर्तुं विद्यालयेषु सङ्गीताध्ययनं अनिवार्यं करणीयम् - इळयराज:
मद्यशाला उत्कोचविषये सि बि ऐ अन्वेषणम् उचितमिति उच्चन्यायालयः।
Saturday, November 21, 2015
मालिदेशे भीकराक्रमणम् - १७० जनाः बन्धनस्थाः।
बङ्गलुरु - बङ्गलुरु विस्फोटनविषये अपराधिनः तटियन्टविट नसीर् इत्यस्य न्यायवादिनः बाङ्लूर् ऐ एन् ए न्यायालयः पूर्वसूचनाम् अकरोत्।विषये अन्तर्भूतान् साक्षिणः स्वाधीनतां कुर्वन्ति इत्यारोपणे एव नीतिपीठस्य रूक्षविमर्शः।
नसीरस्य मित्रं सन्देशवाहकः च पेरुम्पावूर् स्वदेशीयः षहनासः गतसप्ताहे आरक्षकैः गृहीतः आसीत्।तस्य सकाशात् साक्षिणः दूरवाणीसंख्या , सङ्केतः इत्यादयः परिगृहीताः।साक्षिणः संरक्षणीयाः इति कर्णाटकसर्वकारः न्यवेदयत्।
Friday, November 20, 2015
१०मरणानि,कृषिनाशः।
चिट्टूर् - बंगाल् अन्तस्समुद्रे संजातेन न्यूनमर्देन आन्ध्राप्रदेशस्य चिट्टूर् नेल्लूर् कटप्प जनपदेषु महती वृष्टिः। १० जनाः आहताः। केदाराः जलोपप्लवे नाशमुपगताः। वीथी- रेल् गतागतानि पूर्णतया स्तम्भितानि। विद्यालयानां कृते दिनद्वयविरामःविज्ञापितः।
आतङ्कवादीमुख्यः मारितः
पारीस् - फ्रान्स् राष्ट्रस्य राजधान्यां पारीसे शुक्रवासरे जातस्य आतङ्कवादाक्रमणस्य सूत्रधारः अब्देल हमीद् अबौदः मारितः । आक्रमणे द्वौ मारितौ इति अधिकारिभिः सूचितमासीत् । किन्तु अबौदः इति अधुना एव फ्रान्स् प्रधानमन्त्रिणा मान्वल वाल्स्वर्येण स्पष्टीकृतम् ।
Thursday, November 19, 2015
सन्निधाने पम्पायां च महत्य: वर्षाः।नदीतीरे यानोद्याने उपस्थितानि अय्यप्पानां वाहनानि जलोपप्लवे निमग्नानि।
Wednesday, November 18, 2015
पेषवार् - उत्तरपाकिस्ताने पेषवार् प्रविश्यायां ७३ वर्षेभ्यः पूर्वं बन्धितः सिख् धर्मीनुयायिनाम् आराधनालयः (गुरुद्वारा) विश्वासिनां कृते पुनरपि उद्घाटितः।प्रदेशवासिनः प्रादेशिकशासनञ्च धर्माधिकारिभिः सह कृतं सन्ध्यनुसारं गतदिने एव उद्घाटनम्। अत्र अनुष्ठीयमानं पर्दासम्प्रदायं (स्त्रीणाम् एकान्तवासः) प्रति प्रदेशवासिनां विरोधः १९४२ तमे वर्षे देवालयबन्धनस्य कारणमभवत्।
भक्तान् स्वीकर्तुं विपुलानि सज्जीकरणानि पम्पायां सन्निधाने च अधिकृतैः स्वीकृतानि।३६ लक्षं त्रपूंषि(Tin) 'अरवणा' (गुडपायसं) २.५लक्षं बन्धकाः(Packet) अपूपाः च पूर्वमेव संभृताः। शुचीकरणप्रवर्तनाय अमृतानन्दमयीमठात् अय्यप्पसेवासंघाच्च सन्नद्धसेवार्थिनः समागता: वर्तन्ते। निलय्कल् पन्पा सन्निधानम् इत्येतेषु स्थानेषु अहोरात्रम् अन्नदानस्य व्यवस्थापि तिरुवितांकूर देवस्वं नाम निर्वााहकसंस्थया कृता अस्ति।
Tuesday, November 17, 2015
दक्षिणभारते व्रतशुद्धेः दिनानि।
जनार्दन हेगडेवर्याय
बङ्गलूरु -केन्द्र साहित्यकेन्द्रसाहित्यअक्कादमी द्वारा बालकथासप्ततिः इति पुस्तकनिमित्तं २०१५ तम वर्षस्य बालसाहित्यपुरस्कारः जनार्दन हेगडेवर्याय प्रदत्तः । कर्णाटकस्वदेशी एषः संस्कृतभारत्या : आरम्भकर्तृषु अन्यतमः । स्वीयया सरलया सरसया संशुद्धया च शैल्या जनान् परितोषयितुं समर्थ: हेगडे वर्य: विश्वे अत्यधिकप्रचारयुक्तायाः संस्कृतमासिकायाः सम्भाषणसन्देशस्य मुख्यसम्पादक: भवति । संस्कृत पठन-पाठन-प्रचरणेषु दत्तश्रद्ध: अयं पञ्चाशदधिकानां शैक्षणिक - मनोरञ्जक पुस्तकानां कर्ता च भवति । बालकथासप्ततिः संस्कृतभारती बेङ्गलूरु द्वारा प्रकाशितम् । सप्ततीनां मनोरञ्जकबालकथानां गुच्छोऽयं संस्कृतभारत्याः प्रादेशिककेन्द्रेषु तथा प्रमुखसंस्कृतपुस्तकशालासु च समुपलभ्यन्ते । जनार्दन हेगडेवर्याय संस्कृतलोकस्य अभिवन्दनानि ।
कोल्कत्ता - पाकिस्तान् राष्ट्रस्य गुप्तचरसंघटना ऐ एस् ऐ इति संस्थया सह सम्बन्धमारोप्य एकः अपि आरक्षकैः बद्धः।दिनद्वयात् पूर्वं एतादृशविषये बद्धस्य अक्तर् खान् इत्यस्य सोदरः सफर् नामकः Special Task Force संघेन गृहीतः।बह्व्यः गुप्तरेखाः अलीकानि भारतीयरुप्यकाणि च एतयोः सका शात् संगृहीतानि इति आरक्षकैः उक्तम्।




