जतुकानाम् उत्पत्तिः यूरोपे!
> सस्तनिवर्गे अन्तर्भूतः जतुका [वल्गुलः] इति पक्षिवर्गः यूरोपभूखण्डे उद्भूताः इति नूतनः अधिगमः। एषामुत्पत्तिः आफ्रिका, एष्या, आस्ट्रेलिया भूखण्डेषु अन्यतमे स्यादिति शास्त्रज्ञैः अनुमीयते स्म। किन्तु विभिन्नजतुकवर्गेाणां डि एन् ए संगृह्य कृते अनुसन्धाने एव यूरोपः एवोत्पत्तिस्थानमिति निर्णीतम्।
अधिगममिदं 'नेय्चर्' इति शास्त्रशोधपत्रिकायां प्रकाशितम्। विभिन्नराष्ट्रेभ्यः १३० शास्त्रज्ञाः अस्मिन् गवेषणे भागं कृतवन्तः। तेषामनुसन्धानानुसारं ६.५ कोटि संवत्सरेभ्यः पूर्वं यूरोपे आसीत् जतुकानामुद्भवः। परं इतरेषु भूखण्डेषु व्याप्यते स्म।
