भारताय सुवर्णद्वारमुद्घाट्य महिलाः।
टि-२० क्रिकटक्रीडया प्रथमसुवर्णम्। 
श्रीलङ्कां पराजापितवतः भारतीयमहिलागणस्य आह्लादः।
नगोया> हर्मन् प्रीत कौर् इत्यस्याः नायकत्वे भारतीयमहिलानां समुज्वलक्रीडायां २० तमे एष्यन् गयिंस् मध्ये भारतस्य प्रथमसुवर्णप्राप्तिः। महिलानां टि-२० क्रिकटक्रीडायाः अन्तिमस्पर्धायां श्रीलङ्कां १४७ धावनाङ्कैः पराजित्य भारतं सुवर्णपदकं सम्प्राप। २०२२ तमस्य एष्यन् कायिकक्रीडायामपि श्रीलङ्कामेव पराजित्य भारतस्य एवासीत् सुवर्णप्राप्तिः। अनेन आहत्य सप्त पदकानां लाभेन भारतं पदकसूचिकायाम् अष्टमस्थाने वर्तते।
२० क्षेपणचक्रैः त्रीणि द्वारकाणि विनश्य भारतं २१६ धावनाङ्कान् सम्प्राप। स्मृति मन्थाना [७९], रिच्चा घोषः [४९*], षेफाली वर्मा इत्येताः श्रेष्ठक्रीडां क्रीडयामासुः। प्रत्युत्तरक्रीडायां श्रीलङ्का १५. ४ क्षेपणचक्रेषु ६९ धावनाङ्कान् सम्पाद्य सर्वाः बहिरानीताः।