OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 26, 2026

 यु एन् मध्ये नेतन्याहुं प्रति अपहासः। 

इस्रयेलस्य सैनिकप्रक्रमान् साधूकृत्य नेतन्याहुः। 

यु एन् मध्ये प्रतिनिधयः नेतन्याहुं बहिष्कृत्य सभां त्यजति। 

न्यूयोर्क्> इरानं, हमासः, हिस्बुल्ला इत्येत्येतेषां विरुध्य कृतान् सैनिकप्रक्रमान् इस्रयेलस्य प्रधानमन्त्री बञ्चमिन् नेतन्याहुः संयुक्तराष्ट्रसभायाः ८१ तम सामान्यसभासम्मेलने साधूचकार। इरानस्य आणवायुधविकासस्य प्रतिरोध एव इस्रयेलस्य तथा अमेरिकायाः च लक्ष्यमिति तेन सूचितम्। 

 यदा नेतन्याहुः प्रभाषणाय वेदिकां प्राप्तवान् तदा प्रतिनिधिषु बह्वंशः प्रभाषणं निरस्य सभायाः निष्चक्राम। अपस्वराणि, प्रतिषेधवाक्यानि च उद्घोषयन्तः सन्तः प्रतिनिधयः सभां बहिष्कृतवन्तः। बहिष्कृतवन्तः नेतन्याहुना "धार्मिकभीरवः" इति प्रभाषणमध्ये  विशिष्टाः।