एष्यन् गयिंस् कबडिक्रीडा- भारताय सुवर्णयुगलम्।
कबडिक्रीडायां सुवर्णं प्राप्तवन्तौ पुरुष-महिलाविभागौ।
नगोया> एष्यन् गयिंस् कायिकमहोत्सवे शनिवासरे भारतं सुवर्णपदकद्वयेन अभिषिक्तम्। कायिकक्रीडासु भारतस्य श्रेष्ठाधिकरणम् [masterpiece] इति प्रख्यातायां कबडिक्रीडायां राष्ट्रम् अजय्यमिति एकवारमपि प्रमाणीभूतम्। क्रीडायाः पुरुषमहिलाविभागयोरपि सुवर्णप्राप्त्या भारतस्य अपराजितत्वं प्रशोभितम्।
पुरुषविभागे इरानं ३९-३७ इति प्राप्ताङ्कैः पराजापयत। अस्मिन्नधिकरणे भारतस्य नवमः सुवर्णोपलब्धिर्भवति ऐषमः। महिलाविभागे अपि इरानमेव पराजित्य भारतस्य सुवर्णप्राप्तिः। ३७-३४ इति प्राप्ताङ्कैः आसीत् विजयः।
भारतमिदानीं पदकसूचिकायां दशमस्थानमावहति। ४ सुवर्णानि, ११ रजतानि, १३ कांस्यानि च लब्धानि।