OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, September 24, 2026

 कलासूर्यः अस्तं गतः। 

 सूर्य कृष्णमूर्तिः दिवंगतः। 


अनन्तपुरी> भारतीयश्रेष्ठकलानां प्रचारकः, सांस्कृतिक- नाटकप्रवर्तकः च सूर्य कृष्णमूर्तिः बुधवासरे सायं दिवंगतः। ७५ वयस्कः सः वार्धक्यसहजेन रोगोण नगरस्थे निजीयातुरालये परिचर्यायामासीत्। केरल संगीत नाटक अकाडमी संस्थायाः पूर्वीयाध्यक्षः आसीत्। 

  ऐ एस् आर् ओ [इस्रो] संस्थायां शास्त्रज्ञरूपेण वृत्तिं कुर्वति सति वृत्तिमुपेक्ष्य कलाप्रवर्तनाय स्वजीवनं समर्पितवान्। अनन्तपुरीं केन्द्रीकृत्य सूर्या स्टेज् आन्ड् फिलिं सोसैटी [Surya Stage and Film Society] इति संस्थां संस्थाप्य आकेरलं  'सूर्यकलोत्सवः' [Surya Festival] नाम्ना कला-सांस्कृतिकसंघाटनेन राष्ट्रस्य विदेशानां च श्रेष्ठकलानां प्रस्तुतिः अस्य नेतृत्वे कारिता। कैरल्यां प्रथमतया दीपशब्दविन्यासानां समन्वयेन कलाप्रदर्शनं Theater of Freedom नामकं रङ्गकलां च आयोजितम्।  अनेन नटराज कृष्णमूर्तिनामकः अयं 'सूर्य कृष्ण मूर्तिरिति प्रथितोSभवत्। राष्ट्रस्य अन्ततः बाह्यतश्च प्रशस्ताः बहवः कलाकाराः सांस्कृतिकनायकाश्च सूर्यवेदिकाम् अलङ्कृतवन्तः।

  चलच्चित्र-नाटकादीनां विभिन्नानां देशीयराज्यसंस्थानां अध्यक्षपदमूढवान् कृष्णमूर्तिः बहुषु संस्थासु समितिषु च सदस्यः अप्यासीत्। केरलं, तमिलनाट्,पोण्टिच्चेरि सर्वकाराणां परमोच्चबहुमतीः लब्धवानयं २००३ तमे वर्षे 'लिंका बुक्स्' इत्यस्य Man of the year पुरस्कारेण सम्मानितः आसीत्। 

  अस्य भौतिकशरीरं स्वगृहे 'सूर्यचैतन्ये' सामाजिकदर्शनाय संस्थापयिष्यति। ततः अद्य सायं पञ्चवादने 'शान्तिकवाट'नामके श्मशाने अन्त्येष्टिकर्माणि विधास्यन्ते।