एष्यन् गयिंस्
गतदिनमपि पदकसम्पन्नं- भारताय पदकचतुष्कम्। 
रजतं प्राप्तः भारतगणः।
नगोया> एष्यन् गयिंस् क्रीडायां भारतेन गतदिने चत्वारि पदकानि सम्पादितानि - रजतद्वयं, कांस्यद्वयं च। आहत्य षट् पदकानि सम्प्राप्य पदकसूचिकायां १२ स्थानमावहति भारतम्।
पुरुषविभागस्य १० मीटर् एयर् रैफिल् भुषुण्डिप्रयोगे रूद्राक्षपाटीलः, हिमांशु धिल्लः, पार्थ राकेश माने इत्येतयोः संघः भारताय रजतं सम्प्राप। वैयक्तिक स्पर्धायां १० मीटर् एयर् रैफिल् भुषुण्डिप्रयोगे हिमांशु धिल्लः रजतपदकं प्राप्तवान्। रूद्राक्षपाटीलः अस्मिन् विभागस्य कांस्यपदकं संप्राप्तवान् च।