"चिरपुरातनमपि नित्यनूतनम् संस्कृतम्" — प्रो. के. उण्णिकृष्णन्
तृप्पूणित्तुरा> तृप्पूणित्तुरा-शासकीय-संस्कृतमहाविद्यालये 'आई.क्यू.ए.सी' (IQAC) विभागेन आयोजितस्य संस्कृतसप्ताहस्य प्रदर्शिन्याश्च समापनोत्सवः सम्पन्नः। कार्यक्रमस्य मुख्यभाषणं कुर्वन् बालुश्शेरि-आदर्शसंस्कृतमहाविद्यालयस्य प्राचार्यः प्रो. के. उन्णीकृष्णन् महोदयः अवदत् यत् — "'चिरपुरातनमपि नित्यनूतनम्' अस्ति संस्कृतम्। भाषायाः प्रामाणिकाध्ययनेन सह आधुनिक-प्रौद्योगिकी-युगे अस्याः अतिजीवनाय आवश्यकानि प्रौद्योगिकज्ञानान्यपि छात्राः अध्यापकाश्च स्वायत्तीकुर्युः।"
कार्यक्रमस्य उद्घाटनं कुर्वन् माननीयः विधायकः (MLA) दीपक जोय् महोदयः अवदत् — "संस्कृतम् एका प्राचीना भाषा चेदपि आधुनिकयुगेऽपि अस्याः महती प्रासङ्गिकता अस्ति। महाविद्यालयस्य विकासाय शासकीयस्तरे सम्भाव्यं सर्वं साहाय्यं विधास्यते।"
मुख्यअतिथिः नगरसभाध्यक्षः (municipal chairman) पी. एल्. बाबु महोदयः अवदत् — "संस्कृतम् अस्माकं देशस्य सांस्कृतिकी भाषा अस्ति। अस्याः संरक्षणं प्रचारणञ्च अस्माकं सर्वेषाम् उत्तरदायित्वं वर्तते।"
अस्मिन् अवसरे राष्ट्रपतिपुरस्कारविजेता डा. जी. गङ्गाधरन् नायर् महोदयः स्पर्धायां विजेतृभ्यः छात्रेभ्यः पुरस्कारान् अयच्छत्। प्रो. इ. एन्. ईश्वरन्, प्राध्यापिका प्रो. सरिता माहेश्वरन्, श्रीमती सावित्री नरसिंहराव्, कुमारी अञ्जली, डा. सौम्या एन्. के. च अस्मिन् कार्यक्रमे अभाषयन्। तदनन्तरं छात्राणां विविधाः सांस्कृतिक-कलाकार्यक्रमाः आयोजिताः अभवन्।

