OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 26, 2026

 भारतस्य अर्धाधिकः भूभागः अनावृष्ट्या प्रभावितः; कृषिउत्पादनं न्यूनं भविष्यति, मूल्यानि वर्धिष्यन्ते।

        अनावृष्टिसङ्कटः-> दक्षिण-पश्चिम-मानसून-वायोः निवर्त्तनेन सह भारतस्य ५२.५ प्रतिशतं भूभागः अनावृष्ट्याः (शुष्कतायाः) प्रभावे अस्ति। 'आई.आई.टी. गान्धीनगर' संस्थायाः भारत-शुष्कता-सूचकाङ्कस्य प्रतिवेदननुसारम् एषा स्थितिः तीव्रतया वर्धमाना अस्ति।

       २०२६-२७ वर्षस्य भीषणता: 'आई.आई.टी. बोम्बे' संस्थायाः शोधकर्तृणाम् अनुसारम् २०२६-२७ वर्षे २०१५-१६ वर्षस्य अपेक्षा अपि अतिभीषणा अनावृष्टिः सम्भविष्यति। अस्मिन् वर्षे वर्षायाः अनिरन्तरता, दीर्घकालात्मकः शुष्कसमयः च अस्य मुख्यं कारणम् अस्ति।

एल् निनो (El Niño) प्रभावः ->  विश्व- ऋतुविज्ञानीय-सङ्गठनेन (WMO) पूर्वसूचना दत्ता यत् प्रशान्त-महासागरे 'एल नीनो' प्रभावः पूर्णतया सक्रियः अभवत्। एषा स्थितिः २०२७ तमस्य वर्षस्य कुम्भमासं यावत् निरन्तरं स्थास्यति।

  •  दुष्परिणामः-> अनेन कारणेन देशस्य कृषिउत्पादने महती हानिः भविष्यति, फलतः खाद्यान्नानां मूल्यानि अत्यधिकं वर्धिष्यन्ते।
    https://proud.mybhaarat.com