OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, September 29, 2022

 'पोपुलर् फ्रन्ट्' निरुद्धम्। 

नवदिल्ली> पोपुलर् फ्रन्ट् नामकं संम्घटनम् अष्ट अनुबन्धसंघटनानि च केन्द्रसर्वकारेण निरुद्धानि। ५ वर्षाणि यावत्  'नियमविरुद्धप्रवर्तननिरोधनियम्' [यू ए पि ए] अनुसृत्य एव निरोधः।  

  इस्लामिक् स्टेट् नामक आगोलभीकरसंघटनेन सह संबन्धः, राष्ट्रस्य सुरक्षाम्  अखण्डतां परमाधिकारं च विरुध्य प्रवर्तनानि, आतङ्कवादप्रवर्तनानि, तदर्थमार्थिकसमाहरणं, इत्यादीन् अपराधान् गणयित्वा एव निरोधः कृतः।

Wednesday, September 28, 2022

 जाप्पानस्य भूतपूर्वप्रधानमन्त्रिणे भारतस्य श्रद्धाञ्जलिः। 

टोकियो> जुलाई  अष्टमदिनाङ्के निहतस्य जापानस्य भूतपूर्वप्रधानमन्त्रिणः षिन्सो आबे वर्यस्य कृते आयोजिते  अन्त्योपचारकर्मणि भारताय प्रधानमन्त्री नरेन्द्रमोदी श्रद्धाञ्जलिं समार्पयत्। भारतप्रधानमन्त्रिणं समेत्य उपचत्वारिंशत् राष्ट्रनेतॄणां सान्निध्ये आसन् कुजवासरे  अन्त्योपचारकर्माणि सम्पन्नानि। 

  जापाने निप्पोण् बुडोक्काण्  सभागारे आसन् कर्माणि  प्रवृत्तानि। तदन्तरे मोदिवर्यः जापानस्य प्रधानमन्त्रिणा फुमियो किषिदा इत्यनेन सह मिलित्वा भारतस्य अनुशोचनं निवेदितवान्। भारतस्य आत्ममित्रमासीत् आबे वर्य इति मोदिना अनुस्मृतम्।

 विविधराष्ट्रेषु चीनेन आरक्षकालयः गुप्तरूपेण विन्यस्तः।


बैजिङ्> चीनेन विविधराष्ट्रेषु स्वस्य आरक्षकालयः गुप्तरूपेण संस्थापितः। विषयमिदं 'इन्वेस्टिगेट् जेर्णलिसं रिपोर्टिक' द्वारा प्रतिवेदितम्। चीनस्य नूतनपदक्षेपः मनवाधिकार सेवकानां मध्ये आशङ्कां प्रसारितः इत्यपि आवेदितमस्ति। पदक्षेपः विरुद्ध्य जायमानप्रक्रमान् प्रति रोद्धुमुद्दिश्य भवति चीनस्य अयं हीनपदक्षेपः इति प्रतिवेद्यते। चीनस्य 'पब्लिक् सेक्यूरिट्टी ब्यूरो संस्थया संबन्धितः भवति कानडदेशो संस्थापितः आरक्षका लयः। अस्मिन् 'ग्रेट्टर् टोरन्टो' मण्डले त्रयः आरक्षकालयाः वर्तन्ते। 

आविश्वं २१ राष्ट्रेषु चीनेन अनया रीत्या आरक्षकालयाः उद्घाटिताः। युक्रैन् फ्रान्स् स्पेयिन् जर्मनि यू के इत्येतेषु राष्ट्रेषु अपि आरक्षकालयस्य स्थापनाय प्रयत्नं कुर्वन्नस्ति। तत्र कर्म-परिशीलन-केन्द्राणि इति व्याजरूपेण भवति प्रवर्तनम्।

व्याजवार्ताः बहुलीभवन्ति। वाचकाः जाग्रता पालनीया।

 पूर्वकाले वयं वार्तामन्विष्य गच्छन्तः आसीत्। वार्ताः अधुनातनकालः अस्मत्सकाशमागच्छन्त्यः इति काले व्यत्यासः।  मुद्रणात् आरभ्य रेडियो, दूरदर्शनादिमाध्यमान् पृष्ठतः कृत्वा अन्तर्जालमाध्यमस्य प्रसक्तिः वर्धिते अस्मिन् सन्दर्भे व्याजवार्तानां वर्धितसानिध्यस्य कारणं  सामाजिकमाध्यमाः इति आविश्वे समायोजितानि अध्ययनानि दृढीकुर्वन्ति। नूतनसूचनाप्रौद्योगिकविद्या अतिशीघ्रम् अधःस्थितजनमध्येषु व्याप्ता। किन्तु परिवर्तनानुसारं नियन्त्रणानि आनेतुं तथा नियमान्  च दापयितुं सर्वकाराः अशक्ताः जाताः इत्येतत् अलीकवार्तायाः त्वरितप्रसरणस्य हेतुरभवत्। कोविड् महामारिणा ग्रसिते २०२२ संवत्सरे व्याजवार्तायाः गणनासु २१४ % वर्धना समभवत् इत्येव राष्ट्रिय- अपराध - अभिलेख - वार्ताविभागस्य गणना सूचयति। २०२० संवत्सरे भारते १५२७ प्रकरणानि प्रतिवेदितानि। २०१९ संवत्सरे ४८६ तथा २०१८ संवत्सरे २८० प्रकरणानि च प्रतिवेदितानि।

Tuesday, September 27, 2022

नासायाः क्षुद्रगोलप्रतिरोधदौत्यं समारब्धम्।


न्यूयोर्क्> भूमिम् अभिमुखीकृत्य समागतानां क्षुद्रगोलानां प्रतिरोधाय नासया सज्जीकृता डार्ट् नाम सुविधा अद्य प्रवृत्तिपथमारूढा। भूमिं घट्टयितुम् आगतान् क्षुद्रगोलान् अनया सुविधया गतिभ्रंशं क्रियते। अद्य भारतसमयं ४:४४ वादने असीत् अस्याः प्रथमदैत्यम्। भूमेः ११ दशलक्षं किलोमीट्टर् दूरे आसीत् उभयोः घट्टनम्। डर्ट्टस्य घट्टनेन क्षुद्रगोलस्य गतिभ्रंशः अभवत्। पादकन्दुकक्रीडाक्षेत्र-समुच्चयस्य समं विस्तृतम् आसीत् अस्य क्षुद्रगोलः इति आवेद्यते। जोण् होकिन् विश्वविद्यालयस्य अप्लैड् फिसिक्स् लबोरट्टरि भवति अस्य सुविधायाः नियन्ता।

Monday, September 26, 2022

 भारत-आस्ट्रेलिया क्रिकेट् परम्परा - भारतस्य विजयः। 

हैदराबादः> भारत-आस्ट्रेलियादलयोर्मध्ये सम्पन्नायाः टि-२० क्रिकेट् परम्परायाः तृतीये तथा च अन्तिमे प्रतिद्वन्द्वे अपि भारतस्य  उज्वलविजयः। अनेन २-१ इति रीत्या  भारतेन परम्परा स्वायत्तीकृता। भारतीयक्रीडकः सूर्यकुमार यादवः श्रेष्ठक्रीडकरूपेण चितः। परम्परायाः श्रेष्ठक्रीडकरूपेण अक्सर् पटेलः अपि चितः। 

  अन्तिमस्पर्धायां प्रथमं आस्ट्रेलिया दलेन २० क्षेपणचक्रैः सप्त ताडकानां विनष्टे १८६ धावनाङ्काः प्राप्ताः। प्रत्युत्तरक्रीडायां भारतेन १९. ५ क्षेपणचक्रैः चतुर्णां ताडकानां विनष्टे १८७ धावनाङ्काः प्राप्ताः।

आतुरालये अग्निबाधा। भिषग्वरः तस्य अपत्ये च मृताः।

हैद्राबाद्> आन्ध्राप्रदेशे रेनिगुण्डायां आतुरालये जातायां अग्निबाधायां भिषग्वरः तस्य पुत्रः पुत्री च मृताः। चिट्टूर् जिल्लायां नूतनतया निर्मिते कार्तिकेय नाम आतुरालये एव अपघातः जातः। आतुरालयस्य भिषग्वरः डो. रविशङ्कर् रेड्डी, पुत्रः सिद्धर्थ् रेड्डी(१२), पुत्री कार्तिका(६) च मृताः। रात्रौअपघातसमये सकुटुम्बं निद्रायाम् आसीत्। घूमावृते प्रकोष्ठे दृष्टिविघ्नेन अग्नौ पतिताः इति अग्निशमनसेनायाः अधिकारिभिः आवेदितम्। वैद्युतेः लघुपरिपथः (short circuit) एव अपघातकारणमिति अनुमीयते।

Saturday, September 24, 2022

 त्वरितहट्टतालः नीतिविरुद्धः - केरलस्य उच्चन्यायालयः। 

कोच्ची> पूर्वविज्ञापनं विना त्वरितगत्या आयोज्यमानः 'हर्ताल्' नामक प्रतिषेधः नीतिविरुद्धः इति केरल उच्चन्यायालयैन परामृष्टः। एतादृशाः हट्टतालाः सर्वथा प्रतिरोद्धव्याः इति न्यायमूर्तिः ए के जयशङ्करन् नम्पियारः, न्यायमूर्तिः सि पि मुहम्मद नियासः इत्येतयोः नीतिपीठेन निर्दिष्टम्। गतदिने  पोपुलर् फ्रन्ट् ओफ् इन्डिया नामक संघटनेन आयोजिते त्वरित हट्टताले आकेरलं व्यापकाः अक्रमदुर्घटनाः जाताः। दशसहस्रशः यात्रिकाः कार्येतरव्यापरणीयाः जनाश्च अत्यधिकं दुर्घटमनुभूतवन्तः। सामाजिकवाहनानि अभिव्याप्य अनेकानि यानानि हट्टतालानुकूलिभिः  भञ्जितानि। के एस् आर् टि सि संस्थायाः यानानां ५० लक्षं रूप्यकाणां नष्टं जातमिति गणना अस्ति। 

  २०१९ तमस्य उच्चन्यायालयादेशमनुसृत्य हट्टतालानुष्ठानाय सप्तदिनेभ्यः पूर्वमेव विज्ञप्तिपत्रं समर्पणीयमित्यस्ति। तस्य उल्लंघनमेव राज्ये सञ्जातमित्यतः नीतिपीठेन स्वमेधया अपराधप्रकरणं पञ्जीकृतमासीत्।

 भारते इंदप्रथमतया २१ कि.मि . दीर्घायतः समुद्रान्तर्गतरेल् सुरङ्गमार्गः निर्मीयते। 


नवदिल्ली> मुम्बै-अहम्मदाबाद् अतिवेगरेल्संपथस्य कृते२१ कि. मि. दीर्घायतः समुद्रान्तर्गतरेल् सुरङ्गमार्गाय राष्ट्रिय- अतिवेगलेहमार्ग - निगमेन (NHSRCL) संविदा आमन्त्रिता। सुरङ्गस्य सप्त किलोमीट्टर् भागः समुद्रान्तर्भागो भविष्यति। महाराष्ट्रेषु नूतनसर्वकारस्य शासनपदारोहणानन्तरमेव संपथार्थं निर्माणप्रवर्तने शीघ्रतां प्राप्तः।

Friday, September 23, 2022

 कानडाराज्ये भारतविरुद्धप्रवर्तनानि वर्धन्ते।

भारतीय छात्रैः जाग्रता पालनीया इति भारतसर्वकारः।

नवदिल्ली> कानडाराज्ये इदानीं भारतविरुद्धप्रवर्तनानि विद्वेषाक्रमणानि च वर्धन्ते। इतः पर्यन्तं कानटा सर्वकारेण कोऽपि प्रक्रमाः न स्वीकृताः। अतः भारतीयैः जाग्रता पालनीया इति भारतस्य विदेशकार्यमन्त्रालयेन संसूचितम्। बहिः गमनसमये भारतायोगस्य अन्तर्जालपुटे नाम पञ्जीकरणम् आवश्यकम् इति मन्त्रालयेन निर्दिष्टम्।

Thursday, September 22, 2022

 युद्धस्य प्रथम श्रेण्याम् रक्षितारक्षिदलानि अपि। पूर्वसूचनया पुतिनः।

लण्डन्> पाश्चात्यसेनां विरुद्ध्य अतिदृढां पूर्वसूचनां दत्वा रष्यस्य राष्ट्रपतिः व्लादिमिर् पुतिनः। आणवायुधभीषा अनुवर्तते चेत् अस्माकं जनानां संरक्षणार्थं लभ्यान् सर्वान् मार्गान् उपयोक्ष्यामः। एतत् वृथावचनं नास्ति। प्रत्याक्रमणं कर्तुं रष्यस्य सकाशं बहूनि आयुधानि सन्ति इति स्मर्तव्यम्। अण्वायुधं प्रयोक्ष्यति इति रष्यस्य भीषा केवलं भयदोहनाय (black mail) भवति इति प्रतिवेदनस्य प्रत्युत्तररुपेणैव पुतिनेन एवम् उक्तम्।

विद्वेषभाषणानि रोद्धुम् पर्याप्तः नियमः आवश्यकः - सर्वोच्चन्यायालयः।


नवदिल्ली> विद्वेषभाषणानि रोद्धुम् इदानीं पर्याप्तः नियमः नास्ति इति उक्त्वा दत्तायां याचिकायाम् आसीत् न्यायालयस्य निरीक्षणम्। एतदर्थं नियमनिर्माणं केन्द्रसर्वकारेण केन कारणेन न क्रियते इति न्यायालयेन अपृच्छत्। विद्वेषभाषकेभ्यः वार्तावाहिन्यः वेदिकां सज्जीक्रियन्ते इत्यपि सर्वोच्चन्यायालयेन परामृष्टम्।  विद्वेषभाषणानि प्रतिरोद्धुं केन्द्रनियममन्त्रालयेन कृतायाम् अनुशंसायां  केन्द्रसर्वकाराय स्वाभिमतं ज्ञापयितुम्  आदेशः दत्तः।

Wednesday, September 21, 2022

 केरले शुनकेषु 'राबिस्' विषबाधा वर्धते। 

कोट्टयं> केरलराज्ये शुनकेषु उन्मत्तकारणस्य राबिस् नामक विषाणोः व्यापनमानं वर्धते। शुनकेभ्यः सञ्चितेषु स्रवेषु  विविधपरीक्षणशालासु परिशोधनासु कृतासु प्रतिशतं पञ्चाशत् स्रवप्रतिरूपेषु विषाणुबाधा दृष्टा। 

  २०१६ तमे वर्षे विषाणुव्यापनमानं १६% आसीत्। २०२१ तमे एतत् ५६% इति वर्धितमिति वरिष्ठः पशुशास्त्रगवेषकः वैद्यश्च सि के षाजुवर्यः अवदत्। कोट्टयं जनपदे संवत्सरेSस्मिन् अद्यावधि ७२ शुनकानां स्रवाः परिशोधिताः। तेषु ३४ स्रवेषु भ्रान्तिकारणः विषाणुः दृढीकृतः। 

  केरलस्य विविधस्थानेषु अलर्कभीतिः वर्धमाना अस्ति।

द्रव्यभाण्डस्य नौकावरोपणसन्दर्भे भीमाकारा महानौका समुद्रे अमज्जत्। 


तुर्की> नौकाश्रये द्रव्यभाण्डस्य नौकावरोपणसन्दर्भे ईजिप्तस्य भारवाहकनौका समुद्रे अमज्जत्। तुर्की राष्ट्रे एव घटनेयं संवृत्ता। सी ईगिल् नाम भारवाहकनौका एव द्रव्यावरोपणावसरे अपघाते पतिता। महानौकायाः बृहत्पेटिकाः बहिः अवरोपणावसरे एव महानौका समुद्रे निमग्ना। बहुनि द्रव्याणि जले विनष्टानि।२५ बृहत्पेटिकाः (container ) विनष्टाः। जीवापायः नास्ति इति प्रतिवेदनमस्ति।

Tuesday, September 20, 2022

 गर्वेण अपहृतम् हीरकं प्रत्यर्पयतु; एलिजाबेथ् राज्ञ्याः अन्त्येष्ट्यानन्तरं दक्षिण आफ्रिकादेशस्य जनाः ब्रिटेनदेशेन कृतानां सर्वेषां हानिनां क्षतिपूर्तिं याचन्ते स्म।

लण्डन्> दक्षिण- आफ्रिकादेशेन एलिजाबेथ् राज्ञ्याः अन्त्येष्ट्यानन्तरं स्वदेशात् बहिः तस्करीकृत्य नीतं बहुमूल्यं हीरकं प्रत्यानेतुं ब्रिटेनदेशाय आग्रहः कृतः। विश्वस्य बृहत्तमस्य हीरकस्य, आफ्रिकादेशस्य महान् तारकस्य प्रत्यागमनस्य आग्रहः कृतः। अस्य उपनाम कलालिनान् हीरकः इति अस्ति। १०६ ग्राम् भारयुक्तम् अयं हीरकः विश्वस्य बृहत्तमः भवति। अद्यत्वे एतत् रत्नम् आङ्ग्लवंशस्य भागः अस्ति। द्वितीयस्य बृहत्तमस्य खण्डस्य भारः ६३.५ ग्राम् अस्ति। आफ्रिकादेशस्य द्वितीयतारकम् इति प्रसिद्धम् अयं ब्रिटिशमुकुटे अलङ्कृतः आसीत् । शेष ७ खण्डाः स्वर्गीयराज्ञ्याः एलिजाबेथस्य स्वामित्वे आसन् इति प्रतिवेदनमस्ति।

Monday, September 19, 2022

 एलिसबत् राज्ञ्याः अन्त्येष्टिक्रियाः अद्य ।

भारतात् राष्ट्रपतिः लण्टनं प्राप्नोत्। 

लण्टन्> दशदिनात्मकस्य दुःखाचरणस्य अनन्तरं दिवंगतायाः एलिसबत् राज्ञ्याः भौतिकशरीरम् अद्य लण्टनस्थे 'वेस्ट् मिन्स्टर् आबी' नामकस्थाने मृद्विलयं प्राप्नोति। प्रभाते ११ इति  प्रादेशिकसमये [भारतस्य अपराह्ने ३. ३०] परम्परागतरीतिमनुसृत्य  अन्त्येष्टिक्रियाः आरप्स्यन्ते। ब्रिट्टनस्य राजपरिवाराङ्गाः ५०० लोकनेतारश्चाभिव्याप्य उपद्विसहस्रं जनाः कार्यक्रमेSस्मिन् भागभाजः भविष्यन्ति। 

  कार्यक्रमे भागं गृहीतुं भारतस्य राष्ट्रपतिः द्रौपदी मुर्मू महाभागा ह्यः  लण्टनं प्राप्तवती। लङ्गास्टर् हौस् इत्यत्र स्थापिते अनुशोचग्रन्थे हस्ताक्षरं कृतवती। अनन्तरं वेस्ट् मिन्स्टर् आबीं प्राप्य राज्ञ्यै श्रद्धाञ्जलिं समर्पितवती। 

  लण्टनस्थे विन्स्टर् राजमन्दिरस्थे जोर्ज् षष्ठस्मारके देवालये भवति तस्याः अन्त्यविश्रान्तिस्थानम्।

Sunday, September 18, 2022

 चित्रकैः मानवैः मिथः संघर्षः भवेत् इति निर्णयः। दिवा नक्तं च पूर्णनिरीक्षणम्।

कोष़िक्कोट्> भारते सप्तदशकानन्तरं चित्रकाणां आगमनावसरे  विशेषवार्तया सह वन्यजीविवैज्ञानिकाः आशङ्कामापि प्रकटयन्ति। २००६ तमे संवत्सरे केन्द्रसर्वकारेण एतद्विषये चर्चा पुनरारब्धा तदा केचन वैज्ञनिकाः विरुद्धाभिप्रायान् प्रकटितवन्तः आसन्। डौण् टु एर्त् इत्यस्य गणनानुसारं कुनोयिल् शतचतुरस्रकिलोमीट्टर् विस्तृत्यन्तरे नव चित्रकाः भविष्यन्ति। एतत् तेषां अतिजीवनाय विघातः भविष्यति इति निर्णयः अस्ति। एषः विषयः वन्यजीविवैज्ञानिकः  डो. ईसा अपि अभिप्रैति।

 शिशुनां सैन्दर्यसंरक्षकसुवासकानां मानकः नास्ति । 

जोण्सण् आन्ट् जोण्सणस्य सुवासकनिर्माणानुज्ञा विनष्टा।



जोण्सण् आन्ट् जोण्सणस्य महाराष्ट्र राज्ये विद्यमानस्य सुवासकनिर्माणासंस्थयाः अनुज्ञा विनष्टा अभवत्।  शिशूनां सुवासकानां निर्दिष्ट मानकः नास्ति इति महाराष्ट्रस्य  फुड् अन्ट् ड्रग्स् अड्मिनिस्ट्रेषन्  द्वारा एव अनुज्ञा निवृत्ता।

 एषः युद्धाय कालः नास्तीति पुतिनं प्रति मोदी।

समर्खण्डः> एषः युद्धाय अनुयुक्तः कालः नास्तीति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी रष्यायाः राष्ट्रपतिनं व्लादिमर् पुतिनं समस्मारयत्। गतदिने उस्बक्किस्थानस्य समर्खण्डे सम्पन्ने एस् सि ओ संघटनस्य उच्चशिबिरे आसीत् उभयोरपि राष्ट्रनेत्रोः सम्मुखोपवेशनम्। शान्तेः मार्गः एव अस्मिन् काले स्वीकरणीय इति मोदिवर्यः स्मारितवान्। 

  युक्रैने रूसस्य अधिनिवेशाक्रमणानन्तरं प्रथमतया एव पुतिन-मोदी अभिमुखचर्चा सम्पन्ना।

Saturday, September 17, 2022

 

रोजर् फेरडरः निवर्तते। 

> विश्वविख्यातः टेन्निस् क्रीडकः रोजर् फेडररः क्रीडायाः निवर्तते। आगामिनि सप्ताहे सम्पत्स्यमाना 'लेवर् चषक' स्पर्धा स्वस्य अन्तिमा क्रीडा भविष्यतीति तेन निगदितम्। ग्रान्ड्स्लाम् क्रीडायामपि सः परं न क्रीडिष्यति। 

  ४१ वयस्कः रोजर् फेडररः १९९८ संवत्सरादारभ्य इतःपर्यन्तं १०३ किरीटानि प्राप्तवान्। आस्त्रेलियन् ओपण्, फ्रञ्च् ओपण्, विम्बिण्डण्, यु एस् ओपण् एतानि समेत्य २० ग्रान्डस्लामकिरीटानि च तेन प्राप्तानि। तस्य क्रीडामण्डले तस्मिन् १२५१ स्पर्धासु विजयं प्राप्तासु केवलं २७५ क्रीडासु पराजयमनुभूतवान्। 

  स्विट्सर्लान्ट् देशीयः फेडर‌रः जनप्रियः क्रीडकः इति प्रथां प्राप्य एव क्रीडाङ्कणात् विरमति।

Friday, September 16, 2022

यूबर् जालके सुरक्षाच्युतिः। जालकृतिः भञ्जिता इति दृढीकृता।

सान्फ्रान्सिस्को> यूबर् जालकृतिः भञ्जिता इति दृढीकृता। सैबर् सुरक्षासमस्याः अभिमुखीक्रियन्ते। विषयेऽस्मिन् अन्वेषणं प्रचलति इति यूबर् इत्यनेन ट्वीट्ट् कृतम्। यूबर् विधानेषु पूर्णप्रवेशः नियन्त्रणं च भञ्जकेन स्वायत्तीकृतमिति यूबर् अभियन्तृणा आवेदितम्।

 नरेन्द्रमोदी उस्बस्किस्थाने। 

नवदिल्ली> षाङ्हाय् सहयोगसंघटनस्य २२तमे उच्चसम्मेलने भागं गृहीतुं प्रधानमन्त्री नरेन्द्रमोदी उस्बस्किस्थानं प्राप्तवान्।तत्रस्थे समर्खण्डे सम्पद्यमाने सम्मेलने चीनः,रष्या, इरानः इत्येतेषां  राष्ट्रपतयः पाकिस्थानस्य  प्रधानमन्त्री च भागं कुर्वन्ति। 

  चीन-रष्ययोः  राष्ट्रपतिभ्यां सह नरेन्द्रमोदी पृथक् पृथक्  चर्चां करिष्यतीति विदेशकार्यमन्त्रालयेन निगदितम्। 

  पूर्वोक्तानि राष्ट्राणि समेत्य ताजिकिस्थानं, उस्बकिस्थानम् इत्यादिनि १५ राष्ट्राणि एस् सि ओ नामके अस्मिन् सहयोगसंघटने सन्ति।

Thursday, September 15, 2022

 गुजरातसमुद्रे उन्मादकवस्तुभिः सह पाकिस्थानीयाः ग्रहीताः। 

अहम्मदाबादः> २०० कोटिरूप्यकाणां मूल्यपरिमितैः ४० किलोपरिमितैः उन्मादकवस्तुभिः सहितमेकं पाकिस्थानीयं जलयानं भारतीयतटरक्षासेनया गुजरातीयारक्षकविभागस्य आतङ्कवादविरुद्धविभागेन च सह निगृहीतम्। तत्रस्थाः षट् पाकिस्थाननागरिकाः च निगृहीताः। 

  कच्चिल् जक्कावु महानौकापत्तनस्य समीपं भारतसमुद्रसीमायाः ६ कि मी अन्तराले आसीत् पाकिस्थानस्य नौका निगृहीता। पञ्चाबे कारागारबद्धः कश्चन विदेशीयः एवास्य कुकर्मणः सूत्रधार इति ए टि एस् अधिकारिभिः उक्तम्।

कोविडस्य नूतनविभेदः अमेरिक्कादेशे ब्रिट्टणे च प्रसरति ।

लण्डन्> कोविडस्य नूतनविभेदः अमेरिक्कादेशे बिट्टणे च प्रसरति इति प्रतिवेदनम्। कोविडस्य ओमिक्रोण् विभेदस्य उपविभेदः बि.ए.४.६ एव अधिकतया प्रसरति। ब्रिट्टणे आगस्त१४ दिनाङ्कादारभ्य लब्धासु गणनासु बि ए ४.६ विभेदस्य व्यापनं  ३.३% प्रतिदर्शेषु संदृष्टः। सि डि सि पि इत्यस्य गणनानुसारं अमेरिक्कासु नूतनोपभेदस्य व्यापनं ९% भवति। विश्वस्मिन् अन्येषु राष्ट्रेषु अपि एषः विभेदः संदृष्टः इति प्रतिवेदनमस्ति।

Wednesday, September 14, 2022

 'होट् स्प्रिङ्' क्षेत्रे सैनिकप्रतिनिवर्तनं सम्पूर्णम्। 

नवदिल्ली> पूर्वलडाकस्य गोग्र-होट्स्प्रिङ् क्षेत्रात् चीनभारतयोः सैन्यानां प्रतिनिवर्तनं सम्पूर्णमभवत्। अल्पकालिकतया निर्मितानि शिबिराणि विभागद्वयेनापि विदारितानि। 

  १६ वारं सम्पन्नैः कमान्डर् स्तरीयोपवेशनैः एव सैनिकनिवर्तनं सार्थकमभवत्। १५ तमात् पट्रोलिंग् स्थानात् सेनाप्रतिनिवर्तनमारब्धमिति सेप्तबर् अष्टमे दिनाङ्के उभयेनापि राष्ट्रेण प्रख्यापितम्। २०२० मेय् ५ तमे पांगोंग् क्षेत्रे उभयोरपि राष्ट्रयोः सैनिकाः मुखामुखं साक्षात् युद्धसन्नद्धाः एव तिष्टन्तः आसन्। अधुना युद्धं विना प्रतिनिवर्तते स्वयं इत्यस्मात् सीमाविषये विवादाःशाम्येरन् इत्याशास्महे ।