OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, June 26, 2026

 वेनस्वलायां बृहद्भूकम्पः। 

१६४ मरणानि, उपसहस्रं आहताः।

बहूनि भवनानि भग्नानि। 

वेनस्वलायां दुरापन्नस्य भूकम्पस्य दृश्यम्।

कारक्कास> दक्षिणामेरिकीयराष्ट्रे वेनस्वलायां गुरुवासरे उषसि जाते महति युगलभूकम्पे बृहन्नाशः अभवत्। प्राथमिकवृत्तान्तमनुसृत्य १६४ जनाः मृताः। उपशतं जनाः आहताः जाताः। 

 एकनिमिषाभ्यन्तरे भूकम्पद्वयं दुरापन्नम्। प्रथमकम्पनस्य ७. १ अङ्कितम्। ३९ क्षणानन्तरं जातः भूकम्पः मापिन्या ७. ५ अङ्कितम्। कारक्कासप्रान्तात् १६८ कि मी दूरे आसीत् प्रभवकेन्द्रम्। सपादशतकाभ्यन्तरे जातः महान् भूकम्पः अस्ति एषः इति यू एस् भौमगवेषणसंस्थया निगदितम्। 

  वेनस्वलाम् अतिरिच्य कोलम्बिया, करीबियद्वीपाः, अरूबा इत्येषु राष्ट्रेष्वपि भूकम्पस्य दुष्प्रभावः जातः।