आबन्धं सम्पूर्णं तारपुञ्जः नासया जेयिंस् जाले वाननिरीक्षिण्या आलेखितं चित्रं प्रकाशिम्।
OUR YouTube Channel 1. SampratiVartah |
marquee
Thursday, July 14, 2022
Wednesday, July 13, 2022
राशिमूल्यशोषणं जूण्मासे ७. ०१प्रतिशतम्।
मुम्बई> भारते उपभोक्तृमूल्यसूचिकामाधारीकृत्य राशिवर्धनं २०२२ जूण् मासे ७. ०१प्रतिशतम् अभवत्। २०२१ जूण् मासे एतत् ६. २६ आसीत्।
मेय् मासे पेट्रोलियम् इन्धनानां मूल्ये केन्द्रसर्वकारः अपचितिमकारयत्। किन्तु तस्य प्रयोजनम् इतःपर्यन्तं न लब्धमिति आर्थिकविचक्षणैः अनुमीयते।
Tuesday, July 12, 2022
नूतनसंसद्सभामन्दिरस्योपरिस्थम् अतिबृहत्तमं राष्ट्रचिह्नं प्रधानमन्त्रिणा नरेन्द्रमोदिना अनाच्छादितम्।
नवदिल्ली> नूतनसंसद्सभामन्दिरस्य छ्दे स्थापितस्य राष्ट्रचिह्नस्य अनाच्छादनं प्रधानमन्त्रिणा नरेन्द्रमोदिना कृतम्। कांस्येन निर्मितस्य राष्ट्रचिह्नस्य प्रतिरूपस्य (model) ९५०० किलोमितः भारः तथा ६.५ मीट्टर् औनत्यं च अस्ति। राष्ट्रचिह्नस्य आश्रयरूपेण ६५०० किलो भारमिता सुविधा एव सज्जीकृता इति सर्वकारमण्डलैः आवेदितम्।
Monday, July 11, 2022
बि एस् एन् एल् संस्थायाः ४-जि शब्ददृश्यरङ्गावली न लब्धा।
राष्ट्रे ५-जि शब्ददृश्यरङ्गावल्याः (spectrum) सोत्सव विक्रयणं समीपकाले भविष्यति। सन्दर्भे अस्मिन् सर्वकाराधीनसेवनदात्रा बि एस् एन् एल् इत्यनेन ४-जि सेवाः समारब्धुं न शक्यन्ते। बि एस् एन् एल् संस्थायाः तथा एम् टि एन् एल् इत्यस्य च कृते सर्वकारेण निश्चितपरिमाणयुक्तां शब्ददृश्यरङ्गावलीं दातुं निश्चिता अस्ति। किन्तु मन्त्रिपरिषदः अङ्गीकारलब्ध्यनन्तरमेव तरङ्गावली प्रदानप्रक्रमाः पूर्तिकर्तुं शक्यते इति भारतसञ्चारनिगमविभागेन उच्यते। ९००/१८०० मेगाहेर्ट्स् शब्ददृश्यतरङ्गावलीं दातुं पर्यालोच्यते इति मन्त्रालयेन निगदितम्।
Sunday, July 10, 2022
भारतराष्ट्रे अधिकतया जन्तुवर्गान् प्रत्यभिज्ञातेषु राज्येषु केरलं प्रथमश्रेण्याम्।
केरलम्> २०२१ संवत्सरे भारते अधिकतया जन्तुवर्गान् प्रत्यभिज्ञातेषु राज्येषु केरलं प्रथमस्थानमावहत्। भारतीय-प्राणिविज्ञान- सर्वेषणमण्डलस्य वार्षिकप्रतिवेदनमनुसृत्य नूतनाः ३६ प्राणिनः केरलदेशात् प्रत्यभिज्ञाताः। गतवर्षे भारते आहत्य ४०६ नूतनभेदाः वर्गीकृताः। केरलदेशात् त्रिविधाः भुजङ्गाः, पञ्चविधाः गोधिकाः सप्तविधाः मण्डूकाः च तेषु अन्तर्भवन्ति। एतदतिरिच्य चित्रपतगाः ,कीटकाः, प्राचिकाः (Dragonfly) वरटाः च पट्टिकायाम् अन्तर्भवन्ति।
संस्कृतं हृदयभाषा भवति - डो के पि सुधीरा।
केरले राज्यस्तरीयसंस्कृताध्यापिकासंगमः सम्पन्नः।
कोष़िक्कोट्> संस्कृतभाषा न केवलं भारतस्य सांस्कृतिकभाषा किन्तु जनानां हृदयभाषा भवतीति प्रशस्ता साहित्यकारी विद्यावचस्पतिः के पि सुधीरा अवोचत्। छात्राणां हृदयस्पर्शरूपेण संस्कृतम् अध्यापयितुम् अध्यापिकाः प्रभवाः इत्यपि तया उक्तम्। केरलसंस्कृताध्यापकफेडरेषन् संघटनेन आयोजितं षष्ठं राज्यस्तरीयं संस्कृताध्यापिकासंगमं - मातृकं २०२२ नामकं - उद्घाटनं कुर्वती भाषमाणा आसीत् सा।
कोष़िक्कोट् नगरे सम्पन्ने सम्मेलने पद्मश्री पुरस्कारलब्धा मीनाक्षी गुरुः समादृता। कोष़िक्कोट् विश्वविद्यालयस्य संस्कृत विभागाध्यक्षा प्रो के के गीताकुमारी । आकाशवाण्याः कलाकारी गीतादेवी वासुदेवः आशंसां कृतवती।
सम्मेलनेSस्मिन् संघटनस्य राज्यस्तरीयाध्यक्षः नीलमन शङ्करः अध्यक्ष आसीत्। कार्यदर्शिप्रमुखः सि पि सलनचन्द्रः संघटनासन्देशमकरोत्।के एस् टि एफ् [पि] विभागस्य अध्यक्षः एन् एन् रामः,सि पि शैलजा, के विन्ध्या, के विजयलक्ष्मी, बिन्सी , पि रेवती इत्येते प्रभाषणमकुर्वन्। सम्मेलनस्य अंशतया शीतल् एस् कुमारेण अवतारिता अष्टपदी अपि आसीत्।
श्रीलङ्कायाम् आभ्यन्तरकलापः अतिरूक्षः जातः। प्रधानमन्त्रिणा रनिल् विक्रमसिंगेन त्यागपत्रं समर्पितम्।
कोलम्बो>श्रीलङ्कायाः प्रधानमन्त्रिणा रनिल् विक्रमसिंगेन त्यागपत्रं समर्पितम्। राष्ट्रे आभ्यन्तरकलापे रूक्षे जाते सन्दर्भे एव प्रधानमन्त्रिणः त्यागपत्रसमर्पणम्। सर्वकारस्य अनुवर्तनदृढीकरणं तथा राष्ट्रे जनानां सुरक्षितत्वं च परिगणय्य अधिकारस्य परित्यागं ख्यापयामि इति विक्रमसिंगेन ट्वीट् कृतम्। दलनेतॄणाम् प्रार्थनामनुसृत्य संयुक्तदलीयसर्वकारः रूपीकरिष्यति इति विक्रमसिंगेन प्रोक्तम्।
Saturday, July 9, 2022
लडाक् सीम्नि विमानं डाययित्वा चीनः प्रकोपयति।
नवदिल्ली> भारतसीम्नि संघर्षं जनयितुं चीनेन परिश्रमः कृतः इति भारतसर्वकारः। जूण् मासस्य अन्तिमे पादे भारतचीनयोः सीम्नि नियन्त्रणरेखायाः समीपे चीनेन विमानः डायितः। भारतीयव्योमसेनया सन्दर्भोचितपूर्वोपायप्रक्रमाः स्वीकृताः इति सर्वकारमण्डलैः आवेदितम्। मासानाम् आभ्यन्तरे प्रथमतया एव चीनस्प एतादृशं व्योमसीमालङ्घनम् इति सर्वकारमण्डलैः आवेदितम्।
तमिल्नाडे विषूचिका प्रसरति। केरलेषु अपि अतिजाग्रतानिर्देशः।
एडप्पाल्> विषूचिका (cholera) प्रसरं अनुवर्त्यमाने तमिल्नाडु राज्ये स्वास्थ्य- आपत्कालीनावस्था प्रख्यापिता। केरलेषु अपि अतिजाग्रतानिर्देशो दत्तः। तमिल्नाडुराज्यस्य समीपप्रदेशेषु तिरुवनन्तपुरं, इडुक्कि, कोल्लं जनपदेषु आहत्य कण्णूर्, कोषिक्कोट्, कासरगोड् जनपथेषु च अतिजाग्रतां पालयितुम् अधिकारिणः निर्दिष्टाः। 'अतिसाररोगप्रतिरोधस्य शक्तीकरणं, रोगं स्थिरीकरोति चेत् अतिनियन्त्रणानि स्वीकर्तुं च जिल्ला चिकित्साधिकारिणं प्रति निर्देशः दत्तः। ओ आर् एस् पानीयं, दस्ता गुलिका (zinc tablet) इत्यादीनि सुलभं कर्तुं तथा तेषां वितरणाय स्वास्थ्यकेन्द्रेषु कोणः (corner) सज्जीकर्तुं च निश्चितः।
अमरनाथमन्दिरसमीपे मेघविस्फोटनम्। पञ्चदश जनाः मृताः। चत्वारिंशत् जनाः अप्रत्यक्षाः जाताः।
जम्मूकाश्मीर्> जम्मूकाश्मीरे अमरनाथमन्दिरसमीपे मेघविस्फोटनमभवत्। ह्यः सायङ्काले सार्घपञ्चवादने जाते दुरन्ते पञ्चदश जनाः मृताः। चत्वारिंशदधिकजनाः अप्रत्यक्षाः जाताः इति प्रतिवेदनं सूचयति। मरणसंख्या वर्धेत इति सूचना अस्ति। व्रणितान् तीर्थाटकाः व्योममार्गेण आतुरालयं प्रति नीताः। राष्ट्रिय-राज्य दुरन्तनिवारण सेनयोः नेतृत्वे रक्षाप्रवर्तनानि प्रचलन्ति।
जापानस्य भूतपूर्वः प्रधानमन्त्री भुषुण्डिप्रयोगेण हतः।
टोक्यो> जापानस्य भूतपूर्वः प्रधानमन्त्री षिन्सो आबे वर्यः [६७] भुषुण्डिप्रयोगेण मारितः। पश्चिमनगरे नारानामके निर्वाचनप्रचारणस्य अंशतया भाषमाणे तस्य पश्चाद्भागतः आसीत् आक्रमणम्। व्योममार्गेण झटित्येव आतुरालयं प्रवेशितः अपि प्राणरक्षा न साधिता। घातक इति सन्दिह्यमानः तेट्सुया यामागामि नामकः घटनास्थानादेव भुषुण्डिना सह निगृहीतः।
जापाने अधिकाधिककालं प्रधानमन्त्रिपदमारूढवान् षिन्सो आबे राष्ट्रस्य आर्थिकमण्डलविकासाय निर्णायकं स्थानमावहत्। भारतस्य आत्ममित्रस्य दुरन्ते प्रधानमन्त्री नरेन्द्रमोदी अनुशोचनं प्राकाशयत्। आदरसूचकेन एकदिवसीयं दुःखाचरणं प्रख्यापितम्।
Friday, July 8, 2022
पूर्वकालानुभवाः सन्ति। पोर्चुगलः दावाग्निं प्रतिरोद्धुं सज्जते।
अतितापेन जायमानं दावाग्निं प्रतिरोद्धुं पोर्चुगलः सज्जते। प्रतिरोधप्रक्रमार्थं सर्वकारसंघटनस्य व्यवहारसंरक्षणसमित्या (civil protection agency) कर्मकराः नियुक्ताः। राष्ट्रस्य त्रिषु भागेषु एकभागः वनप्रदेशः भवति। तत्र दावाग्निसाध्यता अस्ति। अतः आराष्ट्रं जागरूकतानिर्देशः प्रदत्तः अस्ति। कार्यक्रमेषु प्रस्फोटकादीनां उपयोगः निरुध्यते। राष्ट्रे अर्धाधिके दावाग्नयः अनवधानताकारणेन एव जाताः इति अध्ययनानि सूचयन्ति। अतः एव अधिके सुरक्षाप्रक्रमाः राष्ट्रेण स्वीकृताः।
बोरिस् जोण्सणः त्यागपत्रं समर्पितवान्।
लण्टन् > ब्रिट्टनस्य प्रधानमन्त्री बोरिस् जोण्सणः पदमत्यजत्। तेन नेतृत्वं क्रियमाणात् 'कण्सर्वेटीव् पार्टी' इत्यस्मात् क्लेशे वर्धिते नेतृस्थानं त्यक्तुं सः निर्बन्धितः आसीत्। नूतननेतुः निर्वाचनं तावत् प्रधानमन्त्रिपदे अनुवर्ते इति गतदिने तेन स्पष्टीकृतम्। नूतननेतुः निर्वाचनाय संघटनस्य वरिष्ठनेतृजनानाम् उपवेशनं सोमवासरे भविष्यतीति जोण्सणः अवोचत्।
लैङ्गिकारोपणविधेयं क्रिस्टफर् पिञ्चर् नामकस्य Deputy chief whip स्थाननियुक्तिरेव जोण्सणस्य क्लेशपरम्परायाः प्रारम्भः। पिञ्चरस्य स्थानारोहणात्परं बहवः मन्त्रिणः स्वस्थानानि त्यक्त्वा प्रतिषेधं प्रकटितवन्तः। एवं ४० नेतारः मन्त्रिणश्च प्रशासनात् संघटनाच्च त्यागपत्रे समर्पिते बोरिस् जोण्सणस्य स्थानत्यागश्च अनिवार्यः अभवत्।
Thursday, July 7, 2022
पि टि उषा, इलयराजाप्रभृतयः चत्वारः राज्यसभां प्रति नामनिर्दिष्टाः।
नवदिल्ली> ओलिम्पिक्स् स्पर्धात्री पि टि उषा, प्रसिद्धः सङ्गीतनिदेशकः इलयराजा, चलच्चित्रनिदेशकः के वि विजयेन्द्रप्रसादः, सामाजिकप्रवर्तकः वीरेन्द्र हेग्डे इत्यते राष्ट्रपतिना राज्यसभासदस्यरूपेण नियुक्ताः। चत्वार अपि दक्षिणभारतीयाः भवन्ति।
नूतनान् राज्यसभासदस्यानपि प्रधानमन्त्री नरेन्द्रमोदी अभिनन्दितवान्। विविधमण्डलेषु स्वप्रतिभां प्रकाशितवतां १२ महापुरुषाणां नामानि निर्दिष्टानि भवन्ति।
हज्ज् कर्माणि अद्य आरभन्ते।
मक्का> इस्लामधर्मीयानां हज्ज् पुण्यकर्माणि गुरुवासरे आरभन्ते। तीर्थाटकाः सर्वे मध्याह्नात् पूर्वं मिना अधित्यकायां शिबिरेषु प्राप्य प्रार्थनानिमग्नाः भविष्यन्ति।
शुक्रवासरे प्रभातनमस्कारानन्तरं अरफासंगमाय अरफाङ्कणं प्राप्स्यन्ति। मिनायां मध्याह्ननमस्कारादारभ्य [लुहर्] प्रभातनमस्कारपर्यन्तं [सुब्हि] पञ्चकालिकनमस्कारक्रियाः भविष्यन्ति।
Wednesday, July 6, 2022
प्रमुखः गान्धितत्वानुयायी गोपिनाथन् नायर् दिवंगतः।
अनन्तपुरी> 'गान्धिमार्ग'श्रृङ्खलायाः अन्तिमवलयस्थेषु अन्यतमः तथा च केरलस्य शान्तिदूतः इति प्रसिद्धः पि गोपिनाथन् नायर् वर्यः दिवंगतः। अनन्तपुर्यां नेय्याट्टिन्करास्थे निजीयातुरालये मङ्गलवासरे रात्रौ आसीत् शतवयस्कस्य तस्य अन्त्यः। अन्त्यकर्माणि बुधवासरे सायं सम्पन्नानि।
महात्मागान्धिनः जीवन-प्रवर्तनमूल्यैः समाकृष्टः गोपिनाथन् नायर् वर्यः स्वस्य जीवने कर्मपथे च गान्धितत्वानि स्वायत्तीकृत्य तदनुसारं स्वजीवितमपि आविष्कृतवान्। अत एव पद्मश्रीपुरस्कारेण सः समादृतः। तस्य वियोगे प्रमुखाः सांस्कृतिकनायकाः राजनैतिकवर्याश्च श्रद्धाञ्जलिं समर्पितवन्तः।
Tuesday, July 5, 2022
नाटकनिदेशकः पीटर् ब्रूकः दिवंगतः।
लण्टन्> विश्वप्रसिद्धः ब्रिट्टनीयनाटकनिदेशकः पीटर् ब्रूकः [९७] दिवंगतः। षेक्स्पियरस्य रचनाः आरभ्य भारतीयाः पुराणेतिहासकथाः पर्यन्तं नाटकरूपेण वेदिकामानीतवान् प्रतिभासम्पन्नः आसीदयम्। पारम्पर्यगङ्गसज्जीकरणादिभ्यः बहिः प्राप्तवान् ब्रूक् वर्यः असाधारणानि स्थानान्यपि नाटकावतरणाय वेदिकामकरोत्। व्यायामकेन्द्राणि, खननस्थानानि, विद्यालयाः इत्यादयः तस्य नाटकावतरणस्थानानि आसन्।
भारतस्य इतिहासग्रन्थः महाभारतं नवहोरापर्यन्तं दैर्घ्ययुक्तेन नाटकरूपेण वेदिकामानीय पीटर् ब्रूकः लोकप्रसिद्धः अभवत्। आगोलनाटकमण्डले प्रसिद्धान् अभिनेतॄन् वेदिकामेकां संयोज्य आसीत् महाभारतस्य रङ्गाविष्कारः। तत्र द्रौपदीरूपेण भारतीया मल्लिका साराभायी, भीमः, भीष्मः, कर्णः, कुन्ती इत्येतान् आफ्रिकाभूखण्डात्, द्रोणाचार्यं गान्धारीं च एष्याखण्डात् च इत्येवं महाभारतनाटकस्य २१ कथापात्राणि १६ राष्ट्रेभ्यः प्रगत्भान् नटान् अधिगम्य सः वेदिकामानीतवान्।
Monday, July 4, 2022
नमस्या - श्रीमद्भ्यः स्वप्रभानन्दस्वामिपादेभ्यः समादरणम्।
कोट्टयं मण्डले अरुणापुरं श्रीरामकृष्णमठे विख्तातसंस्कृतविद्वद्वरेण्याः पूजनीयस्वप्रभानन्दस्वामिपादाः तेषां शिष्यगणैः समादृताः| नमस्या नाम्ना एवायं कार्यक्रमः समायोजितः| अस्मिन् कार्यक्रमे राज्यसभासदस्यः श्री जोस् के माणि महाभागः आध्यक्ष्यमवहत् | विधानसभासदस्यः श्री माणि सि काप्पन् महोदयः कार्यक्रमस्य उद्घाटनमकरोत्| पूर्वराज्यपालः श्री कुम्मनं राजशेखरन् वर्यः मुख्यातिथिश्चासीत्| मठाध्यक्षः श्रीमत् स्वामि वीतसंगानन्द वर्यः आशंसाभाषणमकरोत्| एवं अनेके सन्यासिवर्याः स्वप्रभानन्दस्वामिनां शिष्याः तद्देशीयाः जनाश्च कार्यक्रमे
जम्मूकाश्मीरे अमरनाथ् तीर्थाटकसंघस्योपरि आक्रमणं कर्तुं प्रयतमानौ द्वौ भीकरौ निगृहीतौ।
श्रीनगरम्> अमरनाथ् तीर्थयात्रासंघस्योपरि आक्रमणं कर्तुं आसूत्रणं कृतवन्तौ द्वौ भीकरौ देशवासिनां साहाय्येन रक्षिपुरुषैः निगृहीतौ। तालिब् हुसैन्, फैसल् अहम्मद् धर् च भवति तयोः नामनि। तौ लष्कर् त्वय्ब नाम भीकरसंधैः साकं भीकरप्रवर्तने निमग्नौ भवतः। रजौरि देशे दक्षिणकाश्मीरे च बहुषु तीव्रवादसम्बन्धिप्रकरणेषु रक्षिपुरुषैः निग्रहणार्थं अन्वेषयन्तौ आसीत् एतौ।
Sunday, July 3, 2022
जङ्गमदूरवाणीं दूरे क्षिप्त्वा जीवनं नयतु इति जङ्गमदूरवाण्याः आविष्कर्ता मार्ट्टिन् कूप्परः।
करतले स्थापयित्वा सर्वत्र नेतुं शक्या काचन दूरवाणी इत्यमुम् आशयं प्रवृत्तिपथमानीतवान् यः भवति सः मार्ट्टिन् कूप्परः जङ्गमदूरवाण्यां अहोरात्रं समयं यापयितॄन् नूतनवंशपरम्परान् प्रति एवं वदति - जङ्गमदूरवाणीं दूरे क्षिप्त्वा जीवनं नयतु इति। बि बि सि माध्यमस्य कार्यक्रमे भागं स्वीकुर्वन् भाषमाणावसरे एव जङ्गमदूरवाण्याः सह अधिकसमयं यापयितृभ्यः नूतनवंशपरम्पराभ्यः तस्य उपदेशः। सः तस्य समयस्य प्रतिशतं पञ्चोनसमयमेव जङ्गमदूरवाण्याः उपयोगं कुरुते इति सः व्यजिज्ञपत्। दूरवाण्यां अधिकसमयं यापयन्तः जनाः अल्पसमयम् एव जीवन्ति इति सः अवदत्। आप् आनि नाम आप् मोणिहिङ् संस्थायाः गणनामनुसृत्य जनाः प्रतिदिनं सामान्यतः ४.८ होराः यावत् जङ्गमदूरवाण्यां समयं यापयन्ति। इमां गणनामनुसृत्य प्रतिसप्ताहं ३३.६ होराः तथा प्रतिमासं १४४ होराः भविष्यति। एवं चेत् संवत्सरे मासमेकं दूरवाण्यां यापयन्ति ।
भारते उपराष्ट्रपतिनिर्वाचनम् ओगस्त् षष्ठे दिनाङ्के।
नवदिल्ली> भारते उपराष्ट्रपतिनिर्वाचनम् ओगस्त् षष्ठे दिनाङ्के भविष्यति। तद्दिने एव फलप्रख्यापनमपि सम्पत्स्यति। इदानीन्तनोपराष्ट्रपतेः वेङ्कय्यनायिडोः कार्यकालः आगस्तमासस्य दशमे दिनाङ्के परिसमाप्यते।
जूलाय् पञ्चमे दिनाङ्के विज्ञापनं भविष्यति। १९ दिनाङ्कपर्यन्तं नामाङ्कनपत्रिकां समर्पयितुमवसरः। राज्यसभां प्रति चिताः २३३ सदस्याः, नामनिर्देिष्टाः १२ सदस्याः, लोकसभायां ५४३ सदस्याः इत्येते मतदानाय अर्हाः भवन्ति।
दक्षिणभारते वर्षाकालः शक्तोSभवत्।
अनन्तपुरी> केरलं, लक्षद्वीपः, कर्णाटकराज्येषु वर्षाकालः शक्तः जातः। रविवासरतः मङ्गलवासरपर्यन्तं मेघगर्जनैः सह शक्ता वर्षा भविष्यतीति पर्यावरणविभागेन निगदितम्।
केरले १३ जनपदेषु पीतजागरूकता उद्घोषिता। केरल-कर्णाटक-लक्षद्वीपतीरसागरे मत्स्यबन्धनं न कर्तव्यमिति दुरन्तनिवारणविभागः न्यगादीत्।
जनावासकेन्द्रं प्रति अग्निशस्त्राक्रमणं- युक्रैने मरणानि २१।
कीव्> युक्रेनस्थे ओडेसाप्रदेशे जनावासकेन्द्रं प्रति गतदिने रूसेन कृतेन अग्निशस्त्रप्रयोगेण मरणानि २१ अभवन्। उपचत्वारिंशत् जनाः व्रणिताः जाताः। आक्रमणमिदं रूस् राष्ट्रस्य प्रशासनभीकरतां प्रकाशयतीति युक्रेनस्य राष्ट्रपतिः व्लादिमिर् सेलन्स्की आरोपितवान्।
ओडेसाप्रदेशस्थे सेर्हिकानामके स्थाने सहस्रपर्यन्तं सामान्यजनाः अधिवसन्तं नवश्रेणीयुतम् आवाससमुच्चयं प्रति गतदिने उषसि एकवादने आसीत् आक्रमणम्। त्रीणि अग्निशस्त्राणि निपतितानि। भवनसमुच्चयस्य कश्चिदंशः पूर्णतया विशीर्णः। तत्र आयुधाः सैनिकोपकरणानि वा न सम्भृतानीति सेलन्स्किवर्येण उक्तम्।
किन्तु रूसस्य आक्रमणं जनावासं लक्ष्यीकृत्य नासीत् , प्रत्युत स्फोटकवस्तु-आयुधसम्भृतानि भवनानि लक्ष्यीकृत्य आसीदिति रूस् राष्ट्रस्य प्रवक्ता दिमित्री एस् पेस्कोव् इत्यनेन निगदितम्।
Saturday, July 2, 2022
अपूर्वम् आमिषाहारिसस्यं पश्चिमहिमालये इदंप्रथमतया प्रत्यभिज्ञातम्।
नवदिल्ली> अपूर्वम् आमिषाहारिसस्यं पश्चिमहिमालये प्रथमतया गवेषकैः प्रत्यभिज्ञातम्। युट्रिकुलेरिया फर्सिलेट्टा (Utricularia Furcellata) इति शास्त्रनाम्नि विख्यातम् आमिषाहारिसस्यमेव प्रत्यभिज्ञातम् इति अधिकारिभिः आवेदितम्। चमोलि जिल्लायां मण्डल् अधित्यकायाम् उत्तराखण्डस्य गवेषकसंघैः एव सस्यं प्रत्यभिज्ञातम्। न केवलम् उत्तराखण्डेषु,पश्चिमहिमालयेषु अन्यत्र कुत्रापि इतः पूर्वं सस्यमिदं न सन्दृष्टमिति वनपालमुख्येन सज्जीव् चतुर्वेदिना निगदितम्।
Friday, July 1, 2022
अद्य आरभ्य एकवारोपयोगपलास्तिकानां निरोधः।
अनन्तपुरी> केन्द्र - राज्य सर्वकारयोः निरोधादेशप्रकारेण एकवारमुपयुज्यमानानां निश्चितानां पलास्तिकोत्पन्नानां निरोधः अद्य आरभ्य प्राबल्ये भविष्यति। एषां पलास्तिकवस्तूनाम् उत्पादन-विपणन- उपयोगादयः दण्डार्हाः भविष्यन्ति।
प्रारम्भस्तरे १०,००० रूप्यकाणि आरभ्य ५०,००० रूप्यकाणि पर्यन्तं द्रव्यदण्डः लप्स्यते। केन्द्रसर्वकारेण निरुद्धान् उत्पन्नान् अतिरिच्य २०२० तमे वर्षे केरलस्य परिस्थितिविभागस्य आदेशानुसारेण निरोधिताः उत्पन्नाः च दण्ड्यविभागेषु अन्तर्भवन्ति।
एकनाथषिन्दे महाराष्ट्रस्य मुख्यमन्त्री।
मुम्बई> महाराष्ट्रे ११ दिनानि यावत् अनुवर्तमानानां राजनैतिकनाटकानां अल्पकालिकपरिसमाप्तिः। शिवसेनादलस्य विमतनेता एकनाथषिन्दे महाराष्ट्रस्य २०तम मुख्यमन्त्रिरूपेण शपथवाचनं कृतवान्। भूतपूर्वः मुख्यमन्त्री देवेन्द्र फड्नविसः उपमुख्यमन्त्री भविष्यति।
राजभवने ह्यः सायं सार्धसप्तवादने आसीत् शपथवाचनम्। नूतनः सर्वकारः शनिवासरे विधानसभातले विश्वासमतसम्पादनाय विधेयः भविष्यति।
Thursday, June 30, 2022
महाराष्ट्रं - उद्धवताक्करे त्यागपत्रं समार्पितवान्।
मुम्बई> बहुदिनानि यावत् अनुवर्तमानस्य राजनैतिकानिश्चितत्वस्य अन्ते महाराष्ट्रस्य मुख्यमन्त्री उद्धवताक्करे पदं त्यक्तवान्। शिवसेनादलस्य विमतानां पृच्छानुसारं विधानसभायां गुरुवासरे विश्वासमतप्रक्रिया करणीया इति राज्यपालस्य निर्देशं प्रति सर्वोच्चन्यायालयस्य प्रतिकूलविधिं समादृत्य एव सः त्यागपत्रं समार्पितवान्।
२०१९ इति वर्षे शिवसेना, कोण्ग्रस्,एन् सि पि प्रभृतीनां 'महा विकास् अघाडि' इति सख्यस्य नेतृरूपेण उद्धवताक्करे वर्यः महाराष्ट्रस्य मुख्यमन्त्रिपदं स्वीकृतवान्। सार्धद्वयवर्षस्य प्रशासने शिवसेनानेता एकनाथ षिन्डे इत्यस्य नेतृत्वे भूरिशः सदस्याः विमताः अभवन्। भा ज पा दलेन सह प्रशासनं रूपीकर्तुं प्रयत्नः आरब्धः। तस्यानन्तरफलमेव अयं स्थानत्यागः।
Tuesday, June 28, 2022
यश्वन्तसिंहः नामाङ्कनपत्रिकां समर्पितवान्।
नवदिल्ली> राष्ट्रपतिनिर्वाचने स्पर्धमाानः विपक्षसंघस्य स्थानाशी यश्वन्तसिंहः सोमवासरे नामाङ्कनपत्रिकां समर्पितवान्। राज्यसभायाः कार्यदर्शी पि सि मोदी एव मुख्यवरणाधिकारी।
राहुल गान्धी, शरत्पवारः, सीताराम यच्चूरी, डि राजा, अखिलेशयादवः, फरूख् अब्दुल्ला इत्यादयः १६ विपक्षदलनेतारः यश्वन्तसिंहम् अन्वगच्छन्।
राष्ट्रपतिस्थानं लक्ष्यीकृत्य एषा स्पर्धा न वैयक्तिकसंबन्धिनी किन्तु आशयसम्बन्धिनी इति पत्रिकासमर्पणानन्तरं स्थानाशिना सह वार्ताहरान् भाषमाणः राहुल गान्धी उक्तवान्।
चतुर्दिनाभ्यन्तरे ९४००० उद्योगार्थिनः आवेदनपत्राणि दत्तवन्तः। अग्निपथे उद्योगार्थिनां प्रवाहः।
नवदिल्ली> गतद्विसप्ताहे राष्ट्रे प्रतिषेधाय संघर्षाय अग्निसादनाय च कारणभूतायां अग्निपथ् परियोजनायां उद्योगार्थिनां प्रवाहः। विज्ञापनप्रकानानन्तरं चतुर्दिने अतिते आवेदनपत्रं प्रेषितानां उद्योगार्थिनां संख्या ९४००० अतीता। व्योमसेनाविभागे ५६९६० आवेदनपत्राणि लब्धानि इति सेनया प्रोक्तम्। जूण् मासे १४ दिनाङ्के एव सेनानियुक्तिविषये ऐतिहासिकः निश्चयः केन्द्रसर्वकारेण बहिः प्रकाशितः।
Monday, June 27, 2022
बङ्गलादेशस्य दीर्घतमः सेतुः उद्घाटितः।
धाक्का> बङ्गलादेशस्य दक्षिणोत्तरक्षेत्रं राजधान्या सह संबध्यमानः सेतुः शनिवासरे प्रधानमन्त्रिण्या षैख् हसीनया उद्घाटितः। पद्मानद्याः तिरश्चीनेन निर्मितः अयं सेतुः ६. १५ किलोमीटर् दीर्घयुक्ता भवति। रेल्-वीथीयानगमनागमनाय सेतुमिमम् उपयोक्तुं शक्यते।
अस्यै परियोजनायै त्रिंशत्सहस्रं रूप्यकाणि व्ययं कृतानि। विदेशसाह्यं विना पूर्णतया गृहधनराशिव्ययेनैव सेतुरयं निर्मितः इति सविशेषता अस्ति।
त्रिमासोनाः स्तनन्धयाः चलनचित्रेषु अन्यत्र च अभिनयार्थं न उपयोक्तव्याः इति बालाघिकारसमितिः।
त्रिमासोनाः स्तनन्धयाः स्तन्यपाययनादीनां प्रतिरोधचिकित्साविधीनां च बोधानात्मकानि चलनचित्रखण्डानि विहाय अन्येषु वेदिकासु न उपयोक्तव्याः। चलनचित्रेषु, ओ टि टि वेदिकायां, सामाजिकमाध्यमजालपुटेषु च नवजातशिशुः चलनचित्रस्य चित्रीकरणार्थम् उपयुज्यते इत्यस्मिन् विषये बालाधिकारसमित्या प्रकाशितां प्रथममार्गनिर्देशपत्रे अन्तर्गतं भवति एषा व्यवस्था।










.jpg)
.jpg)
