OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, August 31, 2025

 नेहरु ट्रोफी नौकाक्रीडा - 'वीयपुरं चुण्टन्' किरीटं प्राप। 

वि बी सी कैनकरी नामिका नौका प्रथमस्थानं प्राप्नोति। 

आलप्पुष़ा> नौकाक्रीडास्पर्धासु अन्ताराष्ट्रप्रशस्तिमापन्ने  नेहरु ट्रोफी जलोत्सवे चुण्टन् नामकनौकानां स्पर्धायां 'विल्लेज् बोट् क्लब् कैनकरी' [VBC Kainakari] इति नौकसंघटनेन नीयमाना वीयपुरं नामिका नौका अन्तिमस्पर्धायां विजयकिरीटम् अधरत्। 

  ४ मिनेट् २१. ०८४ सेकन्ड् समयं स्वीकृत्य १. ११० कि मी दूरं वीयपुरं चुण्टन् तरणमकरोत्। 'मैक्रो सेकन्ड्' समयस्य व्यत्यये आसीत् इतराः चुण्टन् नौकाः अन्तिमाग्रं स्पृष्टवत्यः। २१ चुण्टन् नौकाः अस्मिन् वर्षे स्पर्धायां भागमकुर्वन्।

 केरलस्य दीर्घतमस्य सुरङ्गमार्गस्य निर्माणोद्घाटनम् अद्य। 

भारते तृतीयः दीर्घतमसुरङ्गमार्गः।


कोष़िक्कोट्>  कोष़िक्कोट्तः वयनाटं प्रति गमनागमनं सुगमं कर्तुं युगलसुरङ्गमार्गस्य निर्माणोद्घाटनं रविवासरे सायं मुख्यमन्त्री पिणरायि विजयः करिष्यति। कोष़िक्कोट् जनपदस्थे आनक्कां पोयिल् स्थाने कल्लाटि स्थानात् वयनाटस्थं मेप्पाटि स्थानपर्यन्तं ८. ११ किलोमीटर् दीर्घः मार्गः अस्ति एषः। वर्तमानीनस्य तामरश्शेरि कन्दरमार्गसमस्यानां शाश्वतपरिहारः अनेन मार्गेण शक्यते। 

 २१३४ कोटि रूप्यकाणां व्ययं प्रतीक्षमाणः अयं मार्गः भारतस्य दीर्घतमसुरङ्गमार्गेषु तृतीयस्थानं वक्ष्यति।

 ट्रम्पशुल्काः नीतिरहिताः इति यू एस् न्यायालयः। 

न्यूयोर्क्> यू एस् राष्ट्रस्य आर्थिकावस्थां प्रबलीकर्तुमिति अभिमानेन विदेशराष्ट्राणामुपरि राष्ट्रपतिना डोनाल्ड ट्रम्पेन विधत्ताः शुल्काः बहवः नीतियुक्ताः नेति वाषिङ्टणस्थेन 'फेडरल् सर्कीट् अप्पील्' न्यायालयेन आदिष्टम्। अन्ताराष्ट्र आकस्मिक आर्थिकाधिकारम् [IEEPA] उपयुज्य ट्रम्पेन विहिताः शुल्काः नियमविरूद्धाः इति शनिवासरे न्यायालयेन आदिष्टम्। 

  किन्तु वर्तमानीनशुल्कान् ओक्टोबर् १४तम दिनाङ्कपर्यन्तम् अनुवर्तितुं न्यायालयः अनुज्ञामदात्। उपरिन्यायालयं पुनरवलोकनयाचिकां समर्पयितुमेवायं कालः। विधिः पक्षपाताधिष्ठित इति ट्रम्पेन प्रस्तुतम्।

 राष्ट्रिय गीतासङ्गोष्ठी अद्य कालट्याम्। 

कालटी> श्रीमद् भगवद्गीतादर्शनस्य प्रचाराय गीतास्वाध्यायसमित्याः नेतृत्वे अद्य राष्ट्रिय गीतासङ्गोष्ठी सञ्चाल्यते। अन्ताराष्ट्र गीतासंगोष्ठ्याः २५ तमवार्षिकस्य अंशतया एव  गीतायनमिति कृतनामधेया इयं  कालट्यां श्रीशारदा सैनिकविद्यालये प्रचाल्यते। 

प्रभाते १० वादने राष्ट्रीय स्वयं सेवकसंघस्य सहकार्यवाहः कृष्णगोपालः संगोष्ठीसम्मेलनस्य  उद्घाटनं करोति। केरल साङ्केतिकविश्वविद्यालयस्य कुलपतिः डो के शिवप्रसादः अध्यक्षः भविष्यति। भारतीय विचारकेन्द्रस्य निदेशकः आर् सञ्जयः आमुखभाषणं करिष्यति। 

  ततः 'भगवद्गीता विकसितभारतं च' इत्यस्मिन् विषये डो के एस् राधाकृष्णः, 'भगवद्गीता परिवर्तमानः कालश्च' इत्यस्मिन् विषये नीतिज्ञः शङ्कु टि दासः, अनन्तरं डो माली रामनाथः, ब्रह्मचारी सुधीर चैतन्यः च भाषणं करिष्यन्ति।

Latest News

 'काफा' पादकन्दुके भारतस्य शुभारम्भः।

हिसोर्> ताजिकिस्थानराष्ट्रे सम्पद्यमानायाः 'काफा' (Central Asian Football Association) इत्यस्य 'नेषन्स् चषक'स्पर्धापरम्परायाः प्रथमे प्रतिद्वन्द्वे भारतगणस्य विजयः। आतिथेयगणं ताजिकिस्थानं २-१ इति लक्ष्यकन्दुकक्रमेण पराजयत। नूतनपरिशीलकस्य खालिद जमीलस्य शिक्षणे प्रथमप्रतिद्वन्द्वः आसीदयम्। 

 स्पर्धायाः प्रथमार्धे भारतगणस्य प्रतिरोधक्रीडकौ अन्वर अली, सन्देश् जिङ्गन् च भारताय एकैकं लक्ष्यकन्दुकं प्राप्तवन्तौ।

Saturday, August 30, 2025

 भारतीय-प्रौद्योगिकीय-संस्थाने   द्वादशदिनात्मका संस्कृत-शिक्षक-प्रशिक्षण-कार्यशाला सम्पन्ना।

-नेवलकिशेरः

“राष्ट्रियपुनरुत्थानस्य दिशि सार्थकः प्रयासः”

रूडकि> संस्कृतभारती -जनपद-रूडकिण्याः प्रेरणया भारतीयप्रौद्योगिकीयसंस्थानस्य (IIT) रूडकिण्याः व्यवस्थापन-अध्ययन-विभागस्य (DOMS) संस्कृतक्लबस्य च संयुक्त-तत्त्वावधाने आयोजिते द्वादशदि नात्मिका संस्कृत-शिक्षक-प्रशिक्षण-कार्यशाला अद्य सफलतया समापनं जातम्।


   18 अगस्तात् 29 अगस्त् 2025 पर्यन्तं प्रचलितायाम् अस्मिन् कार्यशालायाम् 82 प्रतिभागिनः पंजीकरणं कृतवन्तः, तेषु 75 जनाः नियमिततया प्रशिक्षणं प्राप्नुवन्। अस्य कार्यशालायाः प्रमुखोद्देश्यः आसीत्—विद्यालय-शिक्षकान् संवादात्मक-व्यावहारिक-शैल्यां संस्कृत-शिक्षणस्य प्रशिक्षणं दातुं, येन छात्रेषु संस्कृतभाषायाः भारतीयज्ञानपरम्परायाः च विषये रुचिः गौरवबोधः च जाग्रियताम्।


कार्यशालायाः संरक्षक-स्वरूपेण माननीयः निदेशकः IIT रूडकिण्याः डॉ. कमलकिशोरः पन्तः, उत्तराखण्ड-संस्कृत-शिक्षा-निदेशकः डॉ. आनन्दः भारद्वाजः, संस्कृतभारती-उत्तराखण्ड-प्रान्तीयमन्त्री श्रीः गिरिशः तिवारी, संगठनमन्त्री श्रीः गौरवः च गरिमामयेन सन्निधानेन समापन-सत्रे उपस्थिताः आसन्।


मार्गदर्शक-स्वरूपेण श्रीः अनिलः गौरीशेट्टी (IIT संस्कृतक्लब), प्रोफेसरः रजत अग्रवालः (हेड् DOMS), श्रीः नवलकिशोरः पन्तः (संस्कृतभारती), डॉ. भारती शर्मा (अध्यक्षा, संस्कृतभारती रूडकिणी-जनपदः) विशेषं योगदानं दत्तवन्तः।

संस्कृतभारती-कार्यकारिण्याः सदस्याः—श्रीमती श्रद्धा हिन्दू (मन्त्री), आचार्यः विष्णुः गौडः (शिक्षणप्रमुखः), श्रीः पुरुषोत्तमः (पत्राचारप्रमुखः), श्रीः राहुलः जखमोला (सम्पर्कप्रमुखः), डॉ. विजयत्यागी, डॉ. रामेश्वरः (खण्ड-सहसंयोजकौ) च सक्रियं दायित्वं निर्वहतः।


अस्मिन् कार्ये समाजस्य, प्रशासनस्य, शिक्षणसंस्थानानां च सहयोगः अप्रतिमः आसीत्। विशेषतया माध्यमिक-उत्तरमाध्यमिक-विद्यालयप्रधानाचार्यः, शोधछात्राः, समाजसंस्थाः—राष्ट्रस्वयंसेवकसङ्घः, संस्कारभारती, राष्ट्रसेविका-समिति, अरुणिमा ए थिङ्किङ्ग् वेव्, भारतविकासपरिषदः इत्यादयः महत्त्वपूर्णं योगदानं दत्तवन्तः।

“संस्कृतभारती-रूडकिणी-जनपदस्य एषः प्रयासः राष्ट्रीयपुनरुत्थानस्य दिशि सार्थकः पदः।”

 एष्याचषक होक्की।

विजयेन भारतस्य प्रारम्भः। 

राजगिरिः> बिहारस्थायां राजगिर्यां आरब्धायाम् एष्याचषक यष्टिक्रीडावीरस्पर्धायां भारतस्य प्रथमा क्रीडा विजयेन परिसमाप्ता। 'पूल् ए' सरण्यां भारतं चीनं पराजयत। नायकस्य हर्मन् प्रीत सिंहस्य अनुस्यूतत्रयलक्ष्येण [hat trick] भारतं विजयं प्राप। भारतेन ४ लक्ष्यकन्दुकेषु प्राप्तेषु चीनेन त्रीणि लक्ष्यकन्दुकानि सम्प्राप्तानि।

 भारते ५. ९९ कोटिरूप्यकाणां निक्षेपाय जापानम्। 

नरेन्द्रमोदी जापानं प्राप्तवान्। 

टोक्यो> १५ तम सांवत्सरीये शिखरसम्मेलने भागं कर्तुं भारतप्रधामन्त्री नरेन्द्रमोदी गतदिने  जापानं सम्प्राप्तवान्। जापानस्य प्रधामन्त्री षिगेरु इषिबा इत्यनेन सह मेलनं सम्पन्नम्। 

  आगामिदशकाभ्यन्तरे जापानदेशात् १० लक्षं कोटि येन् मितस्य [५. ९९ लक्षं कोटि रूप्यकाणि।] निजीयनिक्षेपं भारते विधातुं मोदिनः सन्दर्शनेन अशक्यत इति सूच्यते। आर्थिकभागभागित्वं, आर्थिकसुरक्षा, विसापत्रं, पारिस्थितिकसुस्थिरता, साङ्केतिकविद्या, स्वास्थ्यं, राष्ट्रसुरक्षा इत्यादिषु मण्डलेषु दशवर्षाणि यावत् तन्त्रपरं भागभागित्वं प्रबलीकर्तुं उभयोः राष्ट्रयोर्मध्ये निर्णयः अभवत्।

Friday, August 29, 2025

 कीवे रष्यायाः घोरमाक्रमणं - १५ जनाः हताः।

कीव्> युक्रैनस्य राजधान्यां कीव् नगरे गुरुवासरे प्रत्युषसि रष्यया विधत्ते घोरे आक्रमणे त्रीन् बालकान् अभिव्याप्य १५ जनाः मृत्युमुपगताः। ४८ जनाः व्रणिताः। 

  अमेरिकाराष्ट्रेण शान्तिचर्चासु क्रियमाणासु आसीत् इदमाक्रमणम्। ५९८ आत्मघातिड्रोण् यन्त्राणि, ३१ बालिस्टिक्-क्रूस् आग्नेयास्त्राणि उपयुज्य २० स्थानेषु  आसीदाक्रमणम्।

 मनोभारं न्यूनीकर्तुं शिक्षकाणां कृते ध्यानपाठाः। 

कण्णूर्> "त्रीणि दिनानि चलदूरवाण्याम् अपसृतमात्रायामेव मनोभारः अर्धमात्रं न्यूनीकृतः। तृतीयदिने मौनभञ्जनेन नूतनजन्मलाभ इव" - कथनमिदं केरलस्य उच्चतरविद्यालयीयशिक्षकाणाम्। राज्यशिक्षाविभागेन आयोज्यमानं 'Mindfulness' नामकं परिशीलनं अध्यापकानां मध्ये सविशेषेण अनुभूयते। 

  "यदि छात्राणां कृते उपदेशानुशासनादिकं ]counseling] प्रदीयेत् तर्हि तेषु सहानुभूतिः आवश्यकी। अध्यापकेषु मनोभारः अस्ति चेत् तन्न जायेत। अतः प्रथमं अध्यापकानां मनोभारं न्यूनीक्रियेत। तदर्थं परिशीलनं ददाति।" - सार्वजनीनशिक्षाविभागस्य मुख्यकार्यदर्शी [Principal Secretary] के वासुकी महाभागा अवदत्। चलदूरवाणीः दूरं परित्यज्य दिनद्वयं सम्पूर्णमौनं भजित्वा  शाकाहारमात्राः भूत्वा दिनत्रयात्मकं ध्यानमेव परिशीलनस्य सारः। श्वासनियन्त्रणेन मौनेन च एकाग्रताचित्ताः भूत्वा अन्तर्दशनाय प्रेरणमेव हृदयपरिपूर्णतायाः [Mindfulness] मार्गः। 

  २०० उच्चतरशिक्षकाणां कृते अनन्तपुर्यां प्रथमस्तरे परिशीलनं विधास्यति। शतं शिक्षकाणां परिशीलनं सम्पन्नम्।

 दक्षिणकोरियायां कक्ष्यासु पेशलचलदूरवाण्याः [Smart mobile phone] निरोधः। 

सोल्> कक्ष्याप्रकोष्ठेषु चलदूरवाण्यः, समानानि  वैद्युतोपकरणानि [इलक्ट्रोणिक्] इत्यादीनामुपयोगः दक्षिणकोरियायां निरुद्धः। एतदर्थं विधेयकं बुधवासरे लोकसभया अनुमोदितम्। 

 'स्मार्ट्' चलदूरवाण्यानाम् उपयोगः छात्राणाम् अध्ययने प्रतिकूलतया व्यवहरतीति गवेषणैः प्रत्यभिज्ञातम्। २०२६ मार्चमासे आरभ्यमाणात् अध्ययनवर्षादारभ्य निरोधः प्रबलं भविष्यति। 

   फिन्लान्ड्, फ्रान्सः, नेतर्लान्ड्, चीनः इत्यादिषु राष्ट्रेषु विद्यालयीयछात्राणां पेशलचलदूरवाण्युपयोगाय निरोधः उत नियन्त्रणम् अस्ति।

 कुलशेखरपत्तनं विक्षेपिणीविक्षेपकेन्द्रम्

प्रथमविक्षेपः आगामिवर्षे।

निर्माणं पुरोगम्यमानं कुलशेखरपत्तनं विक्षेपकेन्द्रम्। 

चेन्नई> तमिलनाटे तूत्तुक्कुटी नगरोपान्ते कुलशेखरपट्टणम् इत्यत्र प्रचाल्यमानस्य विक्षेपिणी (Rocket) विक्षेपणकेन्द्रस्य निर्माणं २०२६ डिसम्बरमासे सम्पूर्णं भविष्यतीति भारतीय बहिराकाश संशोधनसंस्थायाः [ISRO] अध्यक्षः डो वि नारायणः न्यवेदयत्। नवम्बरमासे इतः प्रथमविक्षेपिणीं विक्षिप्तुं शक्नुयादिति तेन प्रोक्तम्। 

  कुलशेखरपुरे विक्षेपस्थलस्य भूमिपूजायां भागं कृत्वा वार्ताहरान् भाषमाणः आसीत् इस्रो अध्यक्षः। अतीतवर्षे फेब्रुवरिमासे कुलशेखरपुरं विक्षेपकेन्द्राय प्रधानमन्त्री नरेन्द्रमोदी शिलान्यासं कृतवानासीत्। तिरुच्चेन्तूर्, शान्तन्कुलम् अंशयोः २३०० एकरमितं स्थाने अस्ति नूतनं विक्षेपकेन्द्रम्।

Thursday, August 28, 2025

 आकेरलम् अतिवृष्टिः।

वयनाट् कन्दरमार्गे मृत्प्रपातः; गमनागमनं स्थगितम्। 

वयनाट् कन्दरमार्गं प्रति मृत्पातस्य दृश्यम्। 

तामरश्शेरी> केरले द्वित्रेभ्यः दिनेभ्यः पूर्वमारब्धा वृष्टिः अद्य सर्वत्र कठिना जाता। वयनाट् जनपदस्थे तामरश्शेरी कन्दरमार्गे बुधवासरे मृत्प्रपातेन गमनागमनं पूर्णतया अवरुद्धमासीत्। रात्रावपि अनुस्यूततया अनुवर्तितेन तीव्रप्रयत्नेन गुरुवासरे नियन्त्रितरीत्या गमनागमनं पुनरारब्धम्। किन्तु पुनः जातायां कठिनवृष्ट्यां पुनरपि पङ्कोपेतमृदा सह शिलाखण्डाः मार्गमपतन्। शिलाखण्डान् अपनीय मार्गं गमनागमनयोग्यं कर्तुम् इदानीमपि प्रयासः प्रचाल्यते। 

  मध्योत्तरजनपदेषु अद्य ओरञ्ज् जागरूकता उद्घोषिता। इतरेषु जनपदेषु पीतजाग्रत्ता प्रख्यापिता। शनिवासरपर्यन्तं वृष्टिरनुवर्तिष्यते इति पर्यावरणविभागेन सूच्यते।

Latest News


 प्रधानमन्त्रिणः जापान चीन सन्दर्शनानि श्वः आरभ्यन्ते। 


नवदिल्ली>
आगोलसमूहैः आकांङ्क्षया अवलोक्यमानं जापान चीन सन्दर्शनं शुक्रवासरे आरभ्यते। डोनाल्ड ट्रम्पेन क्रियमाणे शुल्कयुद्धे भारत-रूस-चीनानां नूतनं शाक्तिकपक्षं प्राधान्यमर्हति।

  शुक्रवासरे प्रतिष्ठन् मोदिवर्यः २९, ३० दिनाङ्कयोः जापाने सन्द्रक्ष्यति। तत्रत्यं प्रधानमन्त्रिणा षिगेरु इषिबा इत्यनेन सह १५तमे सांवत्सरीये उच्चशिखरोपवेशने भागं करिष्यति। मोदिनः अष्टमं जापानसन्दर्शनं तथा इषिबेन सह प्रथमं सांवत्सरीयम् उच्चशिखरोपवेशनं चेति विदेशकार्यसचिवः विक्रम मिस्री प्रोक्तवान्। राष्ट्ररक्षा, वाणिज्यं, साम्पदिकं, साङ्केतिकं, नागरिकसम्बन्धः इत्यादिविषयेषु परस्परभागभागित्वं उभयोरपि राष्ट्रनेत्रोः चर्चाविषयाः भविष्यन्ति। 

  आगस्ट् ३१ तमे दिनाङ्के नरेन्द्रमोदी चीनराष्ट्रं प्राप्स्यति। तद्दिने अपरेद्युः च सम्पत्स्यमानाः चर्चाः विश्वराष्ट्रैः साकाङ्क्षम् ससूक्ष्मम्  अवलोक्यन्ते। चीनस्थे टियान् जिन् इत्यत्र सम्पत्स्यमाने 'षाङ् हाय् सहयोगसंघस्य [SCO] उच्चशिखरे मोदिवर्यः भागं करिष्यति। चीनस्य राष्ट्रपतिः षि जिन् पिङेन आतिथ्यं वक्ष्यमाणे सम्मेलने रष्यायाः राष्ट्रपतिः व्लादिमिर् पुतिनः, मध्येष्या, दक्षिणेष्या, मध्यपूर्वीय एष्या, दक्षिणपूर्वीय एष्या इत्येतेषां प्रान्तराष्ट्राणां नेतारोSपि भागं करिष्यन्ति।

 शत्रुप्रपाटनाय भारतस्य 'हिमगिरिः' 'उदयगिरिः' च। 

'स्टल्त् युद्धमहानौके राष्ट्राय समर्पिते।

विशाखपत्तनं> नौसेनां प्रवृद्धवीर्यां कुर्वत्यौ द्वे स्टेल्त् [Stealth] युद्धमहानौके राष्ट्राय समर्पिते। ७५% यावत् तद्देशीयनिर्मिते ऐ एन् एस् हिमगिरिः , ऐ एन् एस् उदयगिरिः इत्येते गूढात्मिके महानौके राष्ट्रस्य पूर्वसमुद्रद्वारा जायमानां  शत्रुभीषां निवारयितुं पूर्वीयक्षेत्रे जागरूकतां निर्वक्ष्यतः। राष्ट्रसमर्पणकार्यक्रमे रक्षामन्त्री राजनाथ सिंहः अध्यक्ष आसीत्। 

ऐ एन् एस् हिमगिरिः 

ऐ एन् एस् हिमगिरिः। 

 + ६६७० टण् मितं  भारयुक्ता अस्ति। 

+ अत्याधुनिकानि गूढसंविधानानि सन्ति।

+ ब्रह्मोस् अग्निबाणाः, बराक् 8 इति व्योमप्रतिरोधसंविधानं, अन्तर्वाहिनिविरुद्ध अग्निक्षेपणीवाहिन्यः [Rocket launchers], Torpedo tubes इत्यादीनि सन्ति। 

ऐ एन् एस् उदयगिरिः 

ऐ एन् एस् उदयगिरिः। 

+ ६७०० टण् मितं भारः।

+ शत्रूणां रडार्, इन्फ्रारेड चेष्टाः प्रतार्य अग्रे गन्तुं नूतनाः छलरूपरेखाः [Stealth design]।

+ ब्रह्मोस् सूपर्सोणिक् आग्नेयास्त्राणि, बराक् 8  आग्नेयास्त्राणि च उपयोक्तुं शक्यते।

Latest news

 भारतस्य प्रलयसूचना 

पाकिस्थानं द्विलक्षं नागरिकान् अपानयत्।

लाहोरः> उत्तरभारते दिनानि यावत् अनुवर्तमानया अतिवृष्ट्या सिन्धू, चेनाब्, सत्लज्, रवि नद्यः आप्लुतोदकाः इत्यतः भारतं पाकिस्थाने जलोपप्लसंभावनामधिकृत्य तद्राष्ट्राय पूर्वसूचनामदात्। अतः पाकिस्थानं लक्षद्वयं जनान् सुरक्षितस्थानानि प्रति  अपानयत्। 

  पाकिस्थानेनैवेदं वृत्तान्तं निगदितम्।नयतन्त्रमार्गेण आसीत्  पाकिस्थानाय भारतस्य जलोपप्लवमधिकृत्य जाग्रत्तानिर्देशः। पहलगामभीकराक्रमणस्य अनन्तरं राष्ट्रद्वयस्य प्रथमः नयतन्त्रव्यवहारः आसीदयम्।

 पौढीगढवालजनपदे  पदोन्नतिसम्बद्धतया  राजकीयशिक्षकसंघस्य प्रतिषेधः।

  वार्ताहर:- कुलदीपमैन्दोला।

  राजकीयशिक्षकसंघः उत्तराखण्डस्य पौढीगढवालजनपदस्य शिक्षा-विभागस्य जिला-मुख्यालये एकदिवसीय-धर्णा-प्रदर्शनं कृतवान्। स्वसेवाकालस्य पदोन्नतेः कृते आसीत् प्रतिषेधः। पञ्चदशशाखाभ्य: सर्वे अध्यक्षाः, मन्त्रिणश्च अन्ये सदस्याश्च भागं स्वीकृतवन्तः। ततः पूर्वमेव सर्वे शिक्षकाः स्वस्वविद्यालयेषु खण्ड-शिक्षाकार्यालये पदोन्नतेः कृते "चौकडाउन" इति धर्णाप्रदर्शनं च अकुर्वन्।

शिक्षकाः अवदन् यत् अन्येषु विभागेषु सर्वेषु पदेषु सर्वकारेण पदोन्नतयः क्रियन्ते, परन्तु शिक्षा-विभागे सहायकाध्यापकपदात् प्रवक्तृपदपर्यन्तं, प्रवक्तृपदात् प्रधानाचार्यपदपर्यन्तं च दीर्घसमयात् पदोन्नतयः न सम्पादिताः। अपि च आयोगेन प्रधानाचार्यपदस्य प्रत्यक्ष-भर्तीः सर्वकारेण प्रकाशिताः। अस्माकं सर्वेषां सेवासक्तशिक्षकाणाम् अपेक्षा अस्ति यत् सर्वकारः पूर्वं प्रचलितनियमावल्याः अनुसारं नूतनभर्त्याः स्थाने विभागीयपदोन्नतयः शीघ्रं कुर्यात्। For Latest News

Wednesday, August 27, 2025

 केरले श्रावणोत्सवाय शुभारम्भः। 

कोच्ची> आविश्वं केरलीयानां देशीयोत्सव‌ः 'ओणोत्सवः' इत्यभिधेयः श्रावणोत्सवः ह्यः तृप्पूणित्तुरा राजनगर्यां हस्तोत्सवेन समारब्धः। आगामिनी दश दिनानि आह्लादस्य समभावनायाः च दिनानि भवन्ति।

 जम्मु-काश्मीरे हिमाचले च आकस्मिकप्रलयः।

जम्मु-काश्मीरे आकस्मिकप्रलयः। 

षट् तीर्थाटकान् अभिव्याप्य १६ जनाः मृताः।

श्रीनगरं> कठोरवृष्टिकारणतः जम्मु-काश्मीरे हिमाचलप्रदेशस्य मणालि प्रदेशे च बहुनाशः। प्रलयदुष्प्रभावे जम्मु-काश्मीरे १३ जनाः मृत्युमुपगताः। दिनत्रयेण अनुवर्तमानया कठोरवृष्ट्या रियासि जनपदे वैष्णोदेवीमन्दिरस्य समीपे जाते मृत्स्खलने षट् तीर्थाटकाः विनष्टप्राणाः अभवन्। १४ जनाः क्षताः च। 

  हिमाचलप्रदेशे कुलु मणालि इत्यादिप्रेदेशेष्वपि महानाशः दुरापन्नः। बियास् नदी आप्लुतोदका वर्तते। चण्डिगढ-मणाली राष्ट्रियमार्गे बहुषु स्थानेषु मार्गाः च्युताः जाताः।

LetestNews

 भारतस्योपरि ट्रम्पस्य अधिकशुल्कः अद्य प्रबलं भविष्यति। 

वाषिङ्टणः> रष्यायाः तैलेन्धनं क्रीणाति इति कारणात् यू एस् राष्ट्रपतिना डोणाल्ड ट्रम्पेन निश्चितः २५% अधिकः दण्डशुल्कः अद्य प्रबलं भविष्यति। वर्तमानीयेन २५% शुल्केन सह अस्य दण्डशुल्कस्य योगेन भारतात् अमेरिकाम् आयातवस्तूनां शुल्कः ५०% भविष्यति।

  यू एस् प्रशासनेन सोमवासरे  एतदधिकृत्य संगृहीतविज्ञप्तिः प्रकाशिता। एतदनुसृत्य बुधवासरे यू एस् समयानुसारं  अर्धरात्रे १२.०१ वादनात्परं [भारतीयसमयः अहनि नववादनम्] अमेरिकीयविपणीं प्राप्तवतां तथा सम्भारशालाभ्यः विपणीं  प्रस्थितानां भारतसामानानां च दण्डशुल्कः बाधकः भवेत्। पूर्वनिश्चितः आयातकरः आगस्ट् सप्तमदिनाङ्के प्रवृत्तिपथमागतः आसीत्।

Tuesday, August 26, 2025

 अमेरिकायाः अधिकशुल्कः।

भारतं निर्बन्धाधीनं न भविष्यति - प्रधानमन्त्री। 

नरेन्द्रमोदी अहम्मदाबादे वीथीप्रदर्शने। 

अहम्मदाबादः>  यावदधिकः निर्बन्धः जायते चेदपि लघुस्तरीयसंरंभकाणां कृषकाणां गोपालकानां च अहिताय किमपि न करिष्यतीति प्रधानमन्त्री नरेन्द्रमोदी प्रोक्तवान्। अहम्मदाबादे गुजरात् राज्याय ५४०० कोटि रूप्यकाणां परियोजनानां समर्पणं शिलान्यासं च कृत्वा,  सम्मेलने भाष्यमाणे "ते बहुधा प्रेरणां विधास्यन्ति चेदपि भारतस्य तात्पर्यसंरक्षणाय दुर्गः इव स्थास्यामि" - मोदिवर्यः ट्रम्पस्य अमेरिकायाः वा नाम अनुक्त्वा  प्रस्तुतवान्।

 गासायाम् आतुरालये आक्रमणं

वार्ताहरान् अभिव्याप्य २० मरणानि। 

डेयर् अल् बला> दक्षिणगासायां बृहत्तमम् आतुरालयं 'नासर्' इत्यभिधानं लक्ष्यीकृत्य सोमवासरे इस्रयेलः ड्रोण् तथा बोम्बान् उपयुज्य आक्रमणमकरोत्। पञ्च वार्ताहरानभिव्याप्य २० जनाः मृताः। 

  अमेरिकायाः वार्ताकारकः 'ए पि' इत्यस्मै प्रवर्तमाना स्वतन्त्रदृश्यमाध्यमप्रवर्तका [Freelance visual journalist] मरियं डग्गा [३३], 'अल् जसीरा' इत्यस्य छायाग्राहकः मुहम्मद सलामः, रोयिटेर्स् पत्रिकायाः छायाग्राहकः हुस्साम अल् मस्री इत्येते मृतेषु प्रमुखाः वार्ताहराः। युद्धमारब्धात् २०२३  ओक्टोबर् सप्तमदिनाङ्कात् आरभ्य गासाजनानां दुरितान् विश्वसमक्षम् आनीतेषु वार्ताहरेषु मुख्या आसीत् मरियं डग्गा।

Monday, August 25, 2025

 जर्मनीतः ६ अन्तर्वाहिनीः  क्रेतुमुद्यमः। 

७०,००० कोटीनामनुज्ञा।

नवदिल्ली> 'प्रोजेक्ट् इन्डिया - ७५' अभियानस्य अंशतया जर्मनीतः ७०,००० कोटिरूप्यकाणां व्ययेन  नूतनपरम्पराविभागे अन्तर्भूताः षट् अन्तर्वाहिनीः क्रेतुं सन्धिकरणाय केन्द्रप्रशासनस्य अनुज्ञा। रक्षामन्त्रालयस्य 'मसगोण् डोक् षिप् बिल्डेर्स् लिमिटेड' [Mazagone Dock Ship Builders Ltd] इत्यस्य कृते एव अनुज्ञा दत्ता। अष्टमासाभ्यन्तरे चर्चां पूर्तीकर्तुं रक्षामन्त्रालयेन उद्दिश्यते।

 भारतस्य सम्पूर्ण व्योमप्रतिरोधकवचं सफलम्। 

भुवनेश्वरं> व्योमभीषां प्रतिरोद्धुं भारतस्य संयोजितव्योमप्रतिरोधसंविधानपरीक्षणं विजयकरमभवत्। राष्ट्रस्य रक्षागवेषण-विकसन-संघटनेन साक्षात्कृतमस्ति 'समग्र व्योमप्रतिरोधकवचं [Integrated Air Defense Weapon System] । तस्य परीक्षणं ओडीषातटे चान्दिपुरे फलप्राप्त्या सम्पन्नम्। 

  आकाशमार्गेण गम्यमानं मनुष्यरहितविमानद्वयं एकं 'मल्टी कोप्टर् ड्रोण्' इत्येतच्च आकाशे विभिन्नोच्चेषु विभिन्न लक्ष्येषु च बभञ्ज। स्वतन्त्रतादिने प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घोषितस्य संयोजितव्योमप्रतिरोध कवचस्य सुदर्शनचक्राभिधेयस्य साक्षात्कारांशतया आसीदिदं परीक्षणम्।

 न्योमा - भारतस्य उच्चतरः सैनिकव्योमनिलयः। 

समुद्रवितानात् १३,७०० पादमिते वर्तमानः नयोमा सैनिकव्योमनिलयः। 

अभिमाननिलयस्य उद्घाटनम् ओक्टोबरमासे। 

नवदिल्ली> हिमालयसानुनि भारतव्योमसेनायै निर्मितः उत्कृष्टः विमानावतरणनिलयः [Advanced landing ground] उद्घाटनाय सज्जः वर्तते। चीनसीमायाः समीपे न्योमा इत्यत्र निर्मितं निलयम् ओक्टोबरमासे प्रधानमन्त्री नरेन्द्रमोदी उद्घाटयिष्यति। अनेन विश्वस्मिन् उच्चतरः चतुर्थः सेनाविमाननिलयः भविष्यति एषः। 

  समुद्रवितानात् १३,७०० पादमितम् उच्चस्थितः अयं निलयः चीनसीमायाः ३० किलोमीटर्, ले इत्यस्मात् २०० किलोमीटर् च दूरे वर्तते। Border Roads Organization संस्थया २०२३ सेप्टम्बर् मासे अस्य निर्माणमारब्धम्। 'रफाल्' युद्धविमानमभिव्याप्य सर्वाणां युद्धविमानानाम् उड्डयनम् अवतरणं च अत्र साध्यमस्ति। यस्मिन् आकस्मिकसन्दर्भे अपि सैनिकान् आयुधानि च जवेन  प्रापयितुं शक्यते। 

  शीतकाले अत्र तापमानं त्रिंशत् डिग्री न्यूनं [- ३० डिग्री] भवति। २१८ कोटि रूप्यकाणि एवास्य निर्माणव्ययः।

Sunday, August 24, 2025

 आचार्यशिवशङ्करमिश्रः महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य कुलगुरुपदभारम् ग्रहीतवान्।


-डॉ. दिनेशचौबे, उज्जयिनी।

  उज्जयिनीस्थस्य महर्षिपाणिनि-संस्कृतवैदिक-विश्वविद्यालयस्य नवनियुक्तः कुलगुरुः (कुलपति:) प्रोफेसरः शिवशङ्करमिश्रमहोदय: आचार्यवर्यः गुरुवासरे विश्वविद्यालयपरिसरे अष्टमः कुलगुरुरूपेण विधिवत् कार्यभारम् अधिगतवान्।

   पदभारग्रहणात् पूर्वं तेन श्रीमहाकालेश्वरस्य आशिषः प्राप्तः। अनन्तरं विश्वविद्यालयपरिसरे स्थितस्य भगवान् श्रीपाणिनीश्वरमहादेवस्य पूजनम्, अभिषेकं, हवनं च कृत्वा   कार्यभारं गृहीतम्। आचार्यमिश्रेण संस्कृतभाषायाः प्रसाराय, भारतीयज्ञानपरम्परायाश्च संरक्षण–विश्वव्यापकत्वाय पुनः स्वसंकल्पः उद्घोषितः।

 ओण् लैन् द्यूतनिरोधनियमः क्रियासमर्थः जातः।

बह्व्यः संस्थाः प्रवर्तननिवृत्ताः [Uninstalled] बभूवुः। 

नवदिल्ली>  केन्द्रसर्वकारेण प्रस्तुतं अन्तर्जालीयद्यूतक्रीडा-पणव्यवहारनिरोधविधेयकं राष्ट्रपतिना च अङ्गीकृत्य शुक्रवासरे नियमः अभवत्। नियमे क्रियासमर्थे जाते प्रमुखाः ओण् लैन् द्यूतक्रीडावेदिकाः पिहिताः जाताः। 

 भारतक्रिकट् दलस्य आर्थिकप्रोत्साहक [sponsor] रूपेण वर्तमाना  ड्रीम् ११, मै ११ सर्किल्, विन्सो, सुपी, पोकर् बासी इत्याद्याः संस्थाः तासां प्रवर्तनानि समापयन्त।

 उत्तरखण्डे मेघविस्फोटनम् - एको मृतः। 

दह्रादूणः> उत्तरखण्डे चमोलि जिल्लायां तराली इत्यत्र शुक्रवासरे रात्रौ दुरापन्ने मेघविस्फोटनोपेताकस्मिकप्रलये एकः मृतः। बहवः तिरोभूताः। 

  बहूनि वाहनानि प्रलयावशिष्टैः मग्नानि जातानि। तरालीस्था विपणिः  च प्रायेण विनष्टा अभवत्।

 वीथिश्वानकप्रकरणे सर्वोच्चन्यायालयस्य परिष्करणम्। 

वाक्सिनीकृत्य वन्ध्यीकृत्य मोचनीयाः।

नवदिल्ली> राष्ट्रराजधान्याम् अटनं कुर्वतः  वीथिशुनकान्   गृहीत्वा  नगरात् बहिः अभयकेन्द्रं नेतव्याः इति सर्वोच्चन्यायालयस्य द्व्यङ्गनीतिपीठस्य आदेशः त्र्यङ्गनीतिपीठेन परिष्कृतः। 

  यदि श्वानाः  न दोषकारिणः तान् वन्ध्यीकृत्य रोगप्रतिरोधसूचीप्रयोगं [Vaccination] च कृत्वा यतः निगृहीताः तत्रैव मोक्तव्याः इति परिष्कृतादेशः न्यायालयेन विधत्तः। सोन्मादविषा‌ः अक्रमभावयुक्ताः च शुनकाः अभयकेन्द्रे एव वस्तव्याः। 

  वीथिश्वानेभ्यः  वीथ्यां भोज्यवस्तूनि न दातव्यानीति न्यायालयेन कर्कशेन निर्दिष्टम्। प्रत्येकं नगरविभागे [ward] शुनकानां संख्यानुसारं  भोज्यप्रदानाय सविशेषं स्थानं कल्पनीयम्। प्रकरणमिदं अष्टसप्ताहानन्तरं परिगणिष्यते।

Saturday, August 23, 2025

 उपराष्ट्रपतिनिर्वाचनम्।

स्पर्धामञ्चे सि पी राधाकृष्णः सुदर्शन रेड्डी च।

नवदिल्ली> उपराष्ट्रपतिनिर्वाचनाय समर्पितानां नामाङ्कनपत्राणां सूक्ष्मपरिशोधना सम्पूर्णा। आहत्य ४६ पत्रिकाः समर्पिताः। तासु एन् डि ए स्थानाशिनः सि पि राधाकृष्णस्य ऐ एन् डि ऐ ए स्थानाशिनः सुदर्शन रेड्डेः नामाङ्कनपत्रिकाः वरणाधिकारिणा स्वीकृताः। अन्याः सर्वाः निरस्ताः। 

  नामाङ्कनपत्रिकाः प्रत्याहर्तुं आगस्ट् २५ दिनाङ्कं यावत् कालः अस्ति। निर्वाचनं सेप्टम्बर् नवमदिनाङ्के  सम्पत्स्यते।

 श्रीलङ्कायाः भूतपूर्वराष्ट्रपतिः

विक्रमसिङ्गे निगृहीतः। 

>> निग्रहणं सर्वकारद्रव्यस्य दुर्विनियोगेन।

>> निगृहीतः प्रथमः भूतपूर्वराष्ट्रपतिः। 

निगृहीतः रनिल विक्रमसिङ्गे कारागारं नीयते। 

कोलम्बो> अधिकारे वर्तिते सर्वकारस्य आर्थिकसम्पत् दुर्विनियोगं कृतवान् इत्यारोप्य श्रीलङ्कायाः भूतपूर्वराष्ट्रपतिः रनिल् 

विक्रमसिङ्गे [७६] गतदिने आरक्षकैः निगृहीतः। प्रकरणेSस्मिन् परिप्रश्नार्थं सः कोलम्बोस्थेन 'सि ऐ डि' विभागेन आहूत आसीत्। परिपृच्छानन्तरं निग्रहणं कृतमिति आरक्षकाधिकारिणा निगदितम्। विक्रमसिङ्गेवर्यः २६ दिनाङ्कपर्यन्तं कारागारं प्रेषितः। श्रीलङ्कायां आरक्षकनिग्रहणे वर्तमानः प्रथमः भूतपूर्वराष्ट्रपतिः भवति विक्रमसिङ्गे। 

  २०२२ जूलाय् आरभ्य २०२४ सेप्टम्बरपर्यन्तं श्रीलङ्कायाः राष्ट्रपतिः आसीत् विक्रमसिङ्गे। षट्वारं राष्ट्रस्य प्रधानमन्त्री च आसीत् सः। तस्य पत्नी प्रोफेसर मैत्री इत्यस्याः  बिरुदस्वीकरणकार्यक्रमे भागं कर्तुं विक्रमसिङ्गे वर्यस्य   इङ्गलण्टगमनं सर्वकारव्ययेन आसीत् इत्येव  तस्य उपरि आरोपितः अपराधः।

Latestest news

 केरलं राष्ट्रस्य प्रथमं 'डिजिटल् विद्यावत्' राज्यमभवत्। 

केरलस्य डिजिटल् विद्यावद्राज्योद्घोषणकार्यक्रमे ७५ वयस्का नवविद्यावत्यौ शारदा काणी, विशालाक्षी च मुख्यमन्त्रिणा इतरैः मन्त्रिभिश्च सह जङ्गमदूरवाण्या 'सेल्फीं' स्वीकुरुतः। 
  

अनन्तपुरी> भारतस्य प्रथमं 'डिजिटल् विद्यावत्' राज्यम् इति बहुमतिः केरलाय लभ्यते। गुरुवासरे सायं अनन्तपुर्यां 'सेन्ट्रल् स्टेडियम्' क्रीडाङ्कणे डिजिटल् विद्यां प्राप्तवतः वरिष्ठजनान् बहुजनसञ्चयं च साक्षीकृत्य मुख्यमन्त्री पिणरायि विजयः डिजिटल् विद्याप्राप्तिघोषणां कृतवान्। तद्देशशासनविभागस्य तथा संसदीयकार्यस्य च मन्त्री एं बी राजेषः कार्यक्रमे अध्यक्ष अभवत्। 

  आराज्यं ८३,४५,८७९ गृहेषु समग्रान्वीक्षणं कृत्वा २१,८७,९६६ जनाः नूतनतया डिजिटल् शिक्षां लब्धवन्तः। तेषु १०५वयस्कः पेरुम्बावूर् निवासीयः एम् ए अब्दुल्ला मौलवी वरिष्ठतमः नवविद्यावान् अस्ति। २,५७,०४८ सन्नद्धसेवकाः राज्यस्य सम्पूर्णडिजिटल् विद्याप्राप्तये अश्रान्तपरिश्रमं कृतवन्तः।

Friday, August 22, 2025

 संसद्सभा समाप्ता। 

लोकसभायां १२ विधेयकानि अनुमोदितानि; राज्यसभायां १५। 

नवदिल्ली> २१ दिनात्मकं संसदः वर्षाकालसम्मेलनं गुरुवासरे समाप्तम्। १९ दिनेषु संसद् विपक्षदलीयानां कोलाहलेन अवरुद्धा जाता। 

 १२ विधेयकानि चर्चां विना निमेषाभ्यन्तरे लोकसभायाम्  अनुमोदितानि। राज्यसभायां १५ विधेयकानि च अनुमोदितानि।

 दयालुः न्यायाधिपः फ्रान्क् काप्रियो दिवंगतः।

न्याधीशः फ्रान्क् कार्पियो। 

न्यूयोर्क्> स्वसमक्षमागतानि प्रकरणानि सौम्येन मनुष्यत्वपूर्णेन च व्यवहारेण विधिं प्रस्तूय, आविश्वं जनानां मनसि चिरप्रतिष्ठाम् अवाप्तः यू एस् राष्ट्रस्य न्यायाधीशः  फ्रान्क् काप्रियो वर्यः (८८) दिवंगतः। 'विश्वस्य सर्वश्रेष्ठः न्यायाधिप‌ः' इति आराधकवृन्दानां सः प्रियविशिष्टः आसीत्। 

  अमेरिकायां रोड् ऐलन्ड् इत्यत्र Municipal Court of Providence न्यायालयस्य मुख्यन्यायाधिपः आसीत् काप्रियोवर्यः। अपराधिनः  प्रति स्वतःसिद्धेन नर्मभाषणेन सः संवादमकरोत्। निर्धनानामवस्थां विज्ञाय द्रव्यदण्डः अपाकृतः। तस्य कारुण्यभावस्य पुरतः बहवः न्यायसभायामेव मानसान्तरं प्राप्य पश्चात्तापविवशाः बभूवुः। आसन्नमरणः सः 'इन्स्टग्राम्' माध्यमद्वारा "भवतां प्रार्थनायां मामपि अन्तर्भावयन्तु" इत्येव जनान् प्रति तस्य प्रार्थना। ३४ लक्षं जनाः इन्स्टग्रामे तस्य अनुगामिनः वर्तन्ते।

 अतिजीवति, शुण्डारहितः कलभः!

शुण्डाहीनः कलभः स्वपरिवारस्य संरक्षणे।

कोच्ची> अतिजीवनस्य आख्यानं विरचयन्  चतुर्वयस्कः गजपोतः वनान्तरे विचरति। केरले तृशूर् जनपदस्थे आतिरप्पल्लि काननक्षेत्रे अस्ति शुण्डाहीनस्य  कलभसुवीरस्य परिवारेण सह विहारः। 

  २०२३जनुवरिमासे आसीत् शुण्डाविहीनः गज बालकस्य वृत्तान्तः बाह्यलोकं प्राप्तः। यदा अयं बालगजः  स्वमात्रोपेतेन गजसंघेन सह आतिरप्पल्ली समीपे वनोपान्ते सञ्चरति तदा वन्यजीविछायाचित्रकारस्य जिनेष् चन्द्रस्य दृष्टिपथे  पतितः।  तदा सः द्विवयस्कः इति सूचितम्। शुण्डा नास्तीत्यतः कलभस्य जीवने तद्विषये अभिज्ञाः आशङ्कां प्रकटितवन्तः आसन्। यतः शुण्डा एव गजानां मुख्यजीवनोपाधिः। श्वसने, जलपाने, आहारसंग्रहणे इत्यादिषु शुण्डाहीनस्य गजपोतस्य सुस्थितिः दुर्घटे भवेत्। 

गजपोतः परिवारेण सह वनोपान्ते सञ्चरति। 

  परन्तु संवत्सरद्वयात्परं स गजपोतः पुनरपि वेट्टिलप्पारा नामके स्थाने आनमल वीथ्यां मात्रा सह प्राप्तवान्। संवत्सरचतुष्टयेन सः जीवन्नस्तीति अद्भुतावहः इति वनपालकाधिकारिभिः अभिज्ञैः च प्रोक्तम्। धेनव इव वदनेनैव जलं पीत्वा, न्यूनोन्नतेभ्यः वृक्षेभ्यः पत्राणि गृहीत्वा भक्षयन् सः अतिजीवनस्य मार्गे अग्रे सरति।

Latest News

 एष्या चषक होक्की - 

हर्मन् प्रीतः भारतस्य नायकः। 


नवदिल्ली> एष्या चषक यष्टिक्रीडापरम्परायै भारतदलम् उद्घोषितम्। हर्मन् प्रीत सिंहः दलं नेष्यति।

  बिहारस्थे राजगिरौ २९ तमे दिनाङ्के वीरतास्पर्धाः आरप्स्यन्ते। विजेतृदलं विश्वचषकाय स्पर्धितुम् अर्हतां प्राप्स्यति। भारतेन सह जापानं,चीनः, कसाखिस्थानम् इत्येतानि दलान्यपि 'पूल् ए' इत्यस्मिन् संघे अन्तर्भवन्ति।

Thursday, August 21, 2025

 प्रज्ञानन्दः पुरः सरति।


सेन्ट् लूयिस्> अमेरिकायां अनुवर्तमाने 'सिन्क्यू फील्ड्' चतुरङ्गप्रतिद्वन्दे भारतस्य आर् प्रज्ञानन्दः अग्रे सरति। 

   द्वितीयचक्रे अमेरिकायाः फाबियो करुवाना इत्येनं प्रज्ञानन्दः समस्थितिं बबन्ध।  अनेन तस्मै १.५ अङ्कः लब्धः। प्रथमचक्रे सः विश्ववीरं भारतस्यैव डि गुकेशं पराजितवानासीत्।

 ओण् लैन् द्यूतनिरोधविधेयकं लोकसभया अनुमोदितम्। 

नवदिल्ली> भाग्यताप्रमाणपत्राणि (Lottery) अभिव्याप्य सर्वाः  अन्तर्जालीयद्यूतक्रीडाः, पणव्यवहारान् च निरोद्धुमुद्दिश्य केन्द्रसर्वकारेण प्रस्तुतं विधेयकं लोकसभायाम् अनुमोदितम्। विपक्षदलीयसदस्यानां प्रतिषेधकोलाहलानामाभ्यन्तरे चर्चां विना आसीत् अनुमोदनम्। 

  राज्यसभया अपि अनुमोद्य नियमरूपेण परिवर्तनेन ओण् लैन्द्वारा वर्तमानानि 'फान्टसि स्पोर्ट्स्, पोक्कर्, रम्मी, इतर कार्ड् पत्रक्रीडाः, ओण् लैन् भाग्यायत्तप्रमाणपत्राणि' इत्यादीनि निरुद्धानि भवेयुः।  एतादृशद्यूतानि अधिकृत्य आर्थिकव्यवहाराणां वर्षत्रयस्य कारागारदण्डः एककोटिरूप्यकाणां द्रव्यदण्डः वा उभयमपि वा लप्स्यते।

 उपराष्ट्रपति निर्वाचनम्। 

न्याया. सुदर्शन रेड्डिः विपक्षीयस्थानाशी। 

न्यायाधीश सुदर्शन रेड्डिः। 

नवदिल्ली> सर्वोच्चन्यायालयस्य भूतपूर्वः न्यायाधीशः सुदर्शन रेड्डिः विपक्षदलीयानां संयुक्तोपराष्ट्रपतिस्थानाशी भविष्यति। कोण्ग्रस् अध्यक्षस्य मल्लिकार्जुन खार्गेवर्यस्य वसत्यां सम्पन्ने विपक्षदलीयनेतॄणाम् उपवेशने आसीदयं निर्णयः। 

  आन्ध्रप्रदेशस्य उच्चन्यायालयस्य न्यायाधिपः, गुहावती उच्चन्यायालयस्य मुख्यन्यायाधिपः, सर्वोच्चन्यायालयस्य न्यायाधिपः इत्येतेषु पदेषु विराजितस्य सुदर्शन रेड्डिवर्यस्य १६ संवत्सराणां सेवाकालः अस्ति। तेलङ्कानीयः अयं   गोवायाः प्रथमः लोकायुक्तश्च आसीत्।

  प्रशासनपक्षस्य स्थानाशिरूपेण राज्यपालः सि पि राधाकृष्णः पूर्वं चित आसीत्। जगदीप धन्करस्य स्थानत्यागादेव उपराष्ट्रपतिनिर्वाचनम् अनिवार्यमभवत्।

 एष्याचषकक्रिकट् 

भारतदलम् उद्घोषितम्। 

+ सूर्यकुमारयादवः नायकः।

+ सञ्जु सांसणः अन्तः।

+ शुभमान गिलः उपनायकः।

+ श्रेयस् अय्यरः, यशस्वी, मुहम्मद सिराजः बहिः। 

नायकः सूर्यकुमार यादवः।

मुम्बई> 'एष्या कप् टि-२०' क्रिकट् स्पर्धायाः भारतक्रीडादलम् उद्घोषितम्। सूर्यकुमार यादवः  नायकः भविष्यति। निकषदलस्य नायकः शुभमान गिलः अत्र  उपनायकः अस्ति। भारतदलस्य द्वारकपालकः सञ्जु सांसणाय दले स्थानं लब्धम्। केरलीयः सञ्जुः प्रारम्भकेन परिगण्यते इति मुख्यसंग्राहकः अजित अगार्करः दलप्रख्यापनाय आकारिते  वार्ताहरमेलने प्रोक्तवान्।

  ऐ पि एल् परम्परायां श्रेष्ठक्रीडया विराजितवन्तः श्रेयस् अय्यरः, यशस्वी जयस्वाल्, मुहम्मद सिराजः, वाषिङ्टण सुन्दरः, इत्येतेभ्यः दले स्थानं न लब्धम्। 

  सेप्टम्बर् अष्टमदिनाङ्कतः यू ए ई राष्ट्रे स्पर्धाः सम्पत्स्यन्ते। भारतं ए संघे क्रीडिष्यति। पाकिस्थानं, यू ए ई , ओमान् इत्येतानि दलानि अपि अस्मिन् संघे वर्तन्ते। सेप्टम्बर् दशमदिनाङ्के यू ए ई दलेन सह भारतस्य प्रथमा प्रतियोगिता सम्पत्स्यते।

Wednesday, August 20, 2025

 यात्राशुल्कः सर्वोच्चन्यायालयेनापि निरस्तः। 

यातायाते सुगमे यात्राशुल्कः पुनस्थापनीयः।

राष्ट्रियमार्गे ५४४ मध्ये जातः यानसम्मर्दः। 

नवदिल्ली> केरले राष्ट्रियमार्गः - ५४४ मध्ये तृश्शिवपेरूर् जनपदस्थे पालियेक्करा स्थाने वर्तमाने यात्रशुल्कसंग्रहणकेन्द्रे एकमासं यावत् शुल्कसंग्रहणं निरस्यमिति उच्चन्यायालयस्य आदेशः सर्वोच्चन्यायालयेनापि साधूकृतः। मासान् यावत् राजमार्गे तत्र तत्र पुनर्निर्माणप्रवर्तनैः यात्रक्लेशः कठिनतरः आसीत्। इदानीमपि बहुत्र मार्गस्य शोच्यावस्थया यानस्थगनं होराः अनुवर्तते। तस्य आधारे सामान्यजनहितार्थं केरलस्य उच्चन्यायालयेन यात्राशुल्कसंग्रहणं निरुद्धम्। 

  एनमादेशं विरुध्य राष्ट्रियमार्गाधिकारिणा [National High way Authority of India - NHAI] निर्माणसंस्थया च  समर्पिता पुनरालोचनाप्रार्थना गतदिने सर्वोच्चन्यायालयेन निरस्ता। नीतिपीठेन स्पष्टीकृतं यत्  यदा यातायातः सुगमः क्लेशरहितः च भविष्यति तदा यात्राशुल्काय अर्हता भविष्यन्ति।

 'जि एस् टि' परिष्कारः आर्थिकाभिवृद्धये कारणं भविष्यति। 

मुम्बई> प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वतन्त्रतादिने उद्घोषितः पण्यसेवाकरपरिष्कारः राष्ट्रस्य आर्थिकाभिवृद्धये हेतुः भविष्यतीति गवेषकाः। करपरिष्कारः २.४ कोटिरूप्यकाणाम् अधिकोपभोगं विधास्यतीति प्रतीक्षते। 

  दीपावलिमनुबन्ध्य करपरिष्करणं प्रबलं भविष्यतीति प्रधानमन्त्रिणा स्पष्टीकृतमासीत्। राष्ट्रे उत्सवकालः आरभ्यते इत्यतः उपभोगः वर्धिष्यते।

 शुभांशुः मोदिनं मिलितवान्। 

चर्चायां गगनयानयोजना अपि। 

नवदिल्ली>  अन्ताराष्ट्रबहिराकाशनिलये स्वदौत्यं पूर्तीकृत्य भारतं प्रत्यागतवान् शुभांशु शुक्लः प्रधानमन्त्रिणं नरेन्द्रमोदिनं मिलितवान्। प्रधानमन्त्री शुभांशुं समालिंग्य स्वीकृतवान्। 

  गगनयानदौत्यमधिकृत्य उभावपि चर्चितवन्तौ इति परं मोदिवर्यः 'एक्स्' समाजमाध्यमे लिखितवान्।

Tuesday, August 19, 2025

  ऐ.ऐ.टी. रुड़की संस्थायां द्वादश-दिवसीय-शिक्षक-प्रशिक्षण-कार्यशालायाः शुभारम्भः।

भारतीयप्रौद्योगिकीसंस्थानस्य (IIT) रुड़की-स्थितस्य व्यवस्थापन-अध्ययन-विभागेन (DOMS), संस्कृतक्लब् रुड़की संस्कृतभारती-जनपद-रुड़की- संस्थभिः च संयुक्तरूपेण सोमवासरे द्विदश-दिवसीया शिक्षक-प्रशिक्षण-कार्यशाला आरब्धा। अस्याः कार्यशालायाः विषयः अस्ति – “राष्ट्रीय-पुनर्जागरणाय एकः सार्थकः प्रयासः”।


 ऐ ऐ टी-रुड़की-निदेशकः डॉ॰ कमलकिशोरः पन्तः उत्तराखण्डस्य संस्कृत-शिक्षा-निदेशकः डॉ॰ आनन्दभारद्वाजः अन्ये च  संरक्षक-रूपेण च अस्मिन् प्रशिक्षण-कार्यक्रमे वर्तन्ते।

 गुजरात् महाराष्ट्र हरियानराज्येषु अतिवृष्टिः।

मुम्बई> महाराष्ट्रं, गुजरात्, हरियानम् इत्यादिषु पश्चिमोत्तरराज्येषु अतिवृष्टिरनुवर्तते। मुम्बई, पूणै प्रान्तेषु रक्तजाग्रत्ता उद्घोषिता। नगरद्वयमपि जलनिमग्नं वर्तते। यातायातसुविधा बहुक्लेशपूर्णा अस्ति। रेल् यानसेवा स्थगिता। 

 गुजरातराज्ये अपि अतिवृष्टिदुष्प्रभावः कठिनतरः। सूरट्, कच् जाम्नगरप्रदेशेषु  जलोपप्लवः अनुभूयते।

 धर्मस्थलः - मृतशरीरिणां कृते अन्वेषणम् अल्पकालिकेन समापितम्। 

आदर्शाणां परिणामानन्तरं वस्तुतान्वेषणमिति गृहमन्त्री।

बङ्गलुरु> धर्मस्थले मृतदेहावशिष्टानि अधिगन्तुं निश्चितस्थानानि खननं कृत्वा अन्वेषणम् अल्पकालिकेन समापितम्। अद्यावधि अधिगतानां शरीरावशिष्टानां रासपरिणामं लब्ध्वा अन्वेषणं पुनरारप्स्यते इति राज्यगृहमन्त्रिणा जि परमेश्वरेण निगदितम्। अनन्तरान्वेषणं कथं कार्यमिति सविशेषान्वेषणसंघेन [SIT] निर्णेतव्यमिति तेन प्रोक्तम्। 

 लब्धानां मृतशरीरावशिष्टानां डि एन् ए परिणामः अनुकूलं चेत् पुनरन्वेषणं गौरवेण विधास्यते; अन्वेषणे सर्वकारस्य व्यवहारः न भवेदिति विधानसभायां गृहमन्त्रिणा प्रस्तुतम्।

 नरेन्द्रमोदी पुतिनं दूरवाण्या सम्भाषणमकरोत्। 

व्लादिमीर पुतिनः (वामे) नरेन्द्रमोदी च।

नवदिल्ली> रूसराष्ट्रस्य राष्ट्रपतिना व्लादिमीर पुतिनेन सह भारतस्य प्रधानमन्त्री नरेन्द्रमोदी दूरवाणीद्वारा सम्भाषणमकरोत्। गतदिने अलास्कायां सम्पन्नायाः ट्रम्प-पुतिनयोः शान्तिचर्चायाः अनन्तरमासीत् इदं सम्भाषणम्। 

  अलास्काचर्चामधिकृत्य स्वस्यावलोकनं पुतिनः मोदिनमवोचदिति प्रधानमन्त्रिणः कार्यालयेन निगदितम्। चर्चायाः नयतन्त्रस्य  चाधारेण संघर्षः दूरीकरणीयः , शान्तिमवलम्ब्य चर्चा चालनीया   इति भारतस्य अभिमतं मोदिवर्यः पुनरावर्तितम्।

 गासायुद्धनिरासः 

ईजिप्त् -खत्तरराष्ट्रयोः नूतननिर्देशः हमासेन अङ्गीकृतः। 

गासा सिटी> २२ मासाधिककालं यावत् इस्रयेलं प्रति अनुवर्तमानस्य युद्धस्य निराकरणाय मध्यस्थयोः ईजिप्त् -खत्तरराष्ट्रयोः नूतननिर्देशः अङ्गीकृतः इति  हमासेन निगदितम्। ६० दिनात्मकानां भुशुण्डिप्रयोगनिरासः, वारद्वयेन बन्धितानां मुक्तिः इत्येव नूतनः निर्देशः। शाश्वताय युद्धनिरासाय चर्चां कर्तुमारभ्यमाणः निर्देश इति वार्ताप्रतिनिधिः 'ए एफ् पि' इत्यनेन निगदितम्। 

  किन्तु अस्मिन् निर्देशं प्रति इस्रयेलस्य प्रतिस्पन्दः न बहिरागतः। हमासेन बन्धितेषु २५१ जनेषु कतिपयाः पूर्वं विमोचिताः। ४९ जनाः इदानीं हमासस्य सकाशे सन्ति। एषु २७ जनाः हताः इति इस्रयेलेन कथ्यते।

Monday, August 18, 2025

 सेलन्स्की-ट्रम्पमेलनम् अद्य। 

यूरोपीयराष्ट्रनेतारोSपि भागं कुर्वन्ति। 

ब्रसल्स्> रष्या-युक्रेनयुद्धं समापयितुं युक्रनस्य राष्ट्रपतिना वोलोदिमिर् सेलन्स्किना सह यू एस् राष्ट्रपतिः डोणाल्ड ट्रम्पः कुर्वन्ती मध्यस्थचर्चा सोमवासरे वाषिङ्टणे विधास्यति। अतीते शुक्रवासरे रूसराष्ट्रपतिना व्लादिमिर् पुतिनेन सह कृता ट्रम्पस्य चर्चा पूर्णफलप्राप्तिं नागता। अतः सेलन्सिना सह चर्चा प्राधान्यमर्हति। 

  परन्तु अद्यतनचर्चायां ब्रिटनस्य प्रधानमन्त्री केय्र स्टामरः, फ्रान्सस्य राष्ट्रपतिः इम्मानुवल् मक्रोणः, जर्मनस्य 'चान्सलरः', नाटो इत्यस्य कार्यदर्शी इत्यादयः अपि भागं करिष्यन्ति। युक्रेनस्य बहून् प्रदेशान् निगृह्य युद्धं समापयितुं पुतिनस्य राजनैतिकतन्त्रं वर्तते इत्याशङ्का यूरोपीयराष्ट्रनेतृषु अस्ति। अत एव तेषां भागभागित्वमिति सूच्यते।

 शुभांशवे जन्मराष्ट्रे हृद्यं स्वीकरणम्। 

शुभांशवे दिल्ल्यां लब्धं स्वीकरणम्। मुख्यमन्त्री रेखा गुप्ता, केन्द्रमन्त्री जितेन्द्रसिंहश्च समीपम्। 

नवदिल्ली> अन्ताराष्ट्र बहिराकाशनिलये स्वस्य दौत्यं पूर्तीकृत्य पृथ्विं प्रत्यागतः संघनेता भारतीयः शुभांशु शुक्लः जन्मदेशं प्राप्तवान्। गगनयानदौत्यसंघाङ्गः केरलीयः च प्रशान्त बालकृष्णन् नायर् इत्यनेन सह दिल्ल्याम् इन्दिरा गान्धी अन्तर्देशीयविमाननिलयं सम्प्राप्ताय  शुभांशवे हृद्यं स्वीकरणं प्रदत्तम्। 

  केन्द्रमन्त्री जितेन्द्रसिंहः, दिल्ली मुख्यमन्त्री रेखा गुप्ता, ऐ एस् आर् ओ संस्थाध्यक्षः वि नारायणः, शुभांशोः पत्नी काम्ना, पुत्रः कियाषुः इत्यादयः विमाननिलये शुभांशुं स्वीकर्तुं प्राप्तवन्तः। सोमवासरे प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलनं कृत्वा जन्मस्थानं लख्नौ प्रति गमिष्यति।

 सि पि राधाकृष्णः एन् डि ए सख्यस्य उपराष्ट्रपतिस्थानाशी। 

इदानीं महाराष्ट्रे राज्यपालः। 


नवदिल्ली> महाराष्ट्रस्य राज्यपालः तथा तमिलनाटे भा ज पा नेता च सि पि राधाकृष्णः [६७] एन् डि ए सख्यस्य उपराष्ट्रपतिस्थानाशिरूपेण चितः। रविवासरे प्रधानमन्त्रिणः नरेन्द्रमोदिनः आध्यक्षे समाकारिते भाजपादलस्य संसदीयोपवेशनानन्तरं राष्ट्रियाध्यक्षः जे पि नड्डावर्यः राधाकृष्णस्य स्थानाशित्वम् उदघोषयत्। 

  तमिलनाटे तिरुपूरप्रदेशीयः सि पि राधाकृष्णः द्विवारं कोयम्पत्तूरमण्डलात् लोकसभासदस्यरूपेण चितः आसीत्। २०२३ तमे झार्खण्डस्य राज्यपाल आसीत्। २००४ तः २००७पर्यन्तं तमिलनाटे भाजपादलस्य राज्याध्यक्षः आसीत्।

Latest news

Sunday, August 17, 2025

 केरले अतितीव्रवृष्टिः।

कोच्ची> केरलस्य मध्योत्तरजनपदेषु दिनद्वयेन अतिवृष्टिः अनुवर्तते। बहवः प्रदेशाः जलनिमग्नाः जाताः। 

 वयनाट्, कण्णूर्, कासरगोड् जनपदेषु रविवासरे ओरञ्च् जागरूकतानिर्देशः कल्पितः। इतरेषु पीतजागरूकता विधत्ता। वयनाटे बाणासुरसागरसेतुः जलपूरितः इत्यनेन  जलनिर्गमनमार्गाः उद्घाटिताः। एरणाकुलं जनपदे पेरियार् नद्यां जलवितानं उच्चमभवत्।

 ट्रम्प-पुतिनयोः उच्चशिखरमेलनम्। 

युक्रेनप्रकरणे निर्णयो नाभवत्। 

उच्चशिखरमेलनाय अलास्का प्राप्तं पुतिनं ट्रम्पः स्वीकरोति। 

आङ्करेज्> विश्वराष्ट्रैः आकांङ्क्षया पर्यवलोकितं ट्रम्प-पुतिनयोः युक्रैनप्रकरणमधिकृत्य उच्चशिखरमेलनं निष्प्रयोजनमभवत्।  यू एस् राष्ट्रपतिः डोणाल्ड ट्रम्पः, रूसराष्ट्रस्य राष्ट्रपतिः व्लादिमिर् पुतिनः च मिथः गतदिने अलास्कायां  सम्पन्ने उच्चशिखरमेलने युक्रेनप्रकरणे शान्तिनिर्णयः नाभवत्। 

  अन्तिमसन्धिः नाभवत्तर्हि अपि चर्चायां क्रियात्मकः प्रगतिः जातः, परस्परचर्चा अनुवर्तिष्यते  इति होरात्रयं दीर्घितस्य मेलनस्य अनन्तरं विधत्ते संयुक्तप्रस्तावे नेतारौ प्रोक्तवन्तौ। अचिरेण लक्ष्यं प्राप्स्यतीति शुभाप्तिविश्वासश्च प्रकटितः।

 चीनस्य विदेशकार्यमन्त्री श्वः भारते। 

नवदिल्ली> सीमाविषये भारतस्य सुरक्षा उपदेष्टा अजित डोवलः इत्यनेन सह चर्चां कर्तुं चीनस्य विदेशकार्यमन्त्री वाङ् यि नामकः सोमवासरे भारतं प्राप्स्यति। सीमाप्रकरणे द्वितीयवारचर्चा एव भारते सम्पत्स्यते। सीमासमस्यापरिहाराय द्वाभ्यां राष्ट्राभ्यां चितौ प्रतिनिधी भवतः डोवलः वाङ् यि च।

 भारत-पाकिस्थानसंघर्षस्य समाप्तेः कारणम् अहमिति पुनः ट्रम्पः। 

डोनाल्ड ट्रम्पः। 

अलास्का> ओपरेषन् सिन्दूरस्य अंशतया जातः भारत-पाकिस्थानसंघर्षः आत्मनः व्यवहारेणैव समाप्तिं प्राप इति आवर्तनेन प्रस्तूयन् यू एस् राष्ट्रपतिः डोणाल्ड ट्रम्पः। अलास्कायां रष्यायाः राष्ट्रपतिना व्लादिमिर् पुतिनेन सह युक्रैनप्रकरणे शान्तिचर्चायाः अनन्तरं वार्तामाध्यमाय दत्ते अभिमुखे आसीत् ट्रम्पस्य आत्मप्रशंसा। स्वस्य व्यवहारः नाभविष्यत् तर्हि भारत-पाकिस्थानसंघर्षः  आणवयुद्धपर्यन्तं प्राप्येत इति 'फोक्स् न्यूस्' नामकवार्तामाध्यमाय दत्ते मुखामुखे ट्रम्पः अवदत्।

 पाकिस्थाने आकस्मिकप्रलयः

मरणानि ३०७ अभवन्। 

पेषवार्> अतितीव्रवृष्टिकारणात् पाकिस्थानस्य खैबर् पक्तूनप्रदेशे  दुरापन्ने आकस्मिकप्रलये भूस्खलने च मृतानां संख्या ३०७ अभवत्। मृतेषु १३ बालकाः अन्तर्भवन्ति। 

  ४८ होराणामाभ्यन्तरे अस्ति एतावदधिके जनाः मृत्युमुपगताः। २३ जनाः आहताः। दुरन्तनिवारणसेनया रक्षाप्रवर्तनानि आरब्धानि। वृष्टिः आगस्ट् २१ दिनाङ्कपर्यन्तम् अनुवर्तिष्यते इति तत्रस्थेन पर्यावरणविभागेन निगदितम्। 

  बजौर्, बुणेर्, स्वात्, मनेह्रा, षाङ्ला, तोर्घर्, बडाग्राम् इत्येषु जनपदेषु वृष्टिदुष्प्रभावः कठिनतया दृश्यते।

Saturday, August 16, 2025

 पाकिस्थाने वृष्टिदुष्प्रभावः।

आकस्मिकप्रलये २०० जनाः विनष्टप्राणाः अभवन्।

इस्लामबादः> अतिवृष्टेः दुष्प्रभावेन पाकिस्थाने महान् दुरन्तः। आकस्मिकप्रलयेन, भूविच्छेदेन च उत्तरपाकिस्थाने १९४ जनाः मृत्युमुपगताः इति निर्णीताः। बहवः तिरोभूताः जाताः। २४ होराभ्यन्तरे एव एवंप्रकारदुरन्तः आपन्नः। 

  अफ्गानिस्थानस्य सीमासमीपे खैबर् पक्तूनप्रान्ते पर्वतोपान्तप्रदेशे अस्ति कठिनः वृष्टिदुष्प्रभावः। अत्र १५० अधिके जनाः मृताः। पाकिस्थानस्याधीने वर्तमाने काश्मीरे नव जनाः मृत्युमुपगताः। जब्रारीनामकः ग्रामः मेघविस्फोटनानन्तरं जातायामतिवृष्ट्यां मग्नोSभूत्। बजौर्, अबोट्टाबादः, खैबर् लोवर् दिर् इत्येषु स्थानेषु भूविच्छेदेन असंख्यं गृहाणि विशीर्णानि।

 दिल्यां 'दर्गा'याः भित्तिका सन्निपत्य ५ जनाः मृताः। 

नवदिल्ली> मुगलचक्रवर्तिनः हूमयूणस्य शवकुटीरस्यसमीपं वर्तमानस्य दर्गामन्दिरस्य  भित्तिका सन्निपत्य पञ्च जनाः मृत्युमुपगताः। तिस्रः महिलाः द्वौ पुरुषौ च मृताः। 

  शुक्रवासरे मध्याह्नानन्तरमासीत् दुर्घटना।  प्रार्थनां कर्तुं दर्गामन्दिरं प्राप्तवन्तः एव दुरन्ताधीनाः जाताः। भञ्जितस्य मन्दिरस्य अवशिष्टेभ्यः उपदश जनाः क्षतैः आतुरालयं नीताः।

 राष्ट्रे स्वतन्त्रतादिनम् आमानितम्।

रक्तदुर्गे प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रध्वजमुन्नयति।

नवदिल्ली> भारतस्य ७९ तमं स्वतन्त्रतादिनं विविधैः कार्यक्रमैः आराष्ट्रम् आमानितम्। नवदिल्यां 'रेड् फोर्ट्' [रक्तदुर्गः]  इत्यत्र प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रध्वजम् उन्नीतवान्। ततः पूर्वं मोदिवर्यः राजघट्टं प्राप्य महात्मागान्धिनः स्मृतिमण्डपे पुष्पाञ्जलिं समार्पयत्। 

  रक्तदुर्गस्था वेदिका ओपरेषन् सिन्दूरं,विकसितभारतम् इत्यादिप्रकरणाधिष्ठितैः कलारूपैः अलङ्कृता आसीत्। स्थल-नौ-वायु-तटसंरक्षणसेनाविभागानां संघाः पथसञ्चलनम् अकुर्वन्। पञ्चसहस्राधिके आमन्त्रितातिथयः स्वतन्त्रतादिनोत्सवदर्शनाय प्राप्तवन्तः। 

  प्रधानमन्त्रिणः स्वतन्त्रतादिनभाषणं राष्ट्रविकासः, देशसुरक्षा, प्रजाक्षेमः, स्वपर्याप्तता, यूनां वृत्यवकाशः इत्यादिभिः विषयैः सम्पन्नमासीत्। प्रभाषणं १०३ निमेषं यावत् दीर्घितमासीत्। अनुस्यूततया १२ तमं प्रभाषणमासीत् अस्मिन् वर्षे रक्तदुर्गे सम्पन्नम्।

Friday, August 15, 2025

 स्वतन्त्रतादिनोत्सवः। 

चतुर्भ्यः सैनिकेभ्यः  कीर्तिचक्रं लभन्ते; पञ्चदशभ्यः  वीरचक्रं च। 

नवदिल्ली> भारतस्य ७९ तमस्वतन्त्रतादिनाचरणस्य अङ्गतया सैनिकपुरस्काराः राष्ट्रपतिना द्रौपदी मुर्मू वर्यया उद्घोषिताः। 

  १२७ सैनिकाः धीरतायै दीयमानाय पुरस्काराय अर्हाः अभवन्। ४० सेनाप्रमुखाः विशिष्टसेवापुरस्कारान् प्राप्तवन्तः। एषु चत्वारः कीर्तिचक्रपुरस्कारेण विशिष्टाः भवन्ति।  १५ सैनिकाः वीरचक्रेण, २६ सैनिकाः शौर्यचक्रेण च आमानिताः।

 बिहारस्य संगृहीतमतदायकावलिः 

अपनीतानां वृत्तान्ताः प्रकाशयितव्याः - सर्वोच्चन्यायालयः। 

नवदिल्ली> तीव्रमतदायकावलीपरिष्करणस्य [SIR] अंशतया निर्वाचनायोगेन आगस्ट् प्रथमदिनाङ्के  प्रसिद्धीकृतात् संगृहीतमतदायकावलेः निष्कासितानां ६५ लक्षं मतदायकानां वृत्तान्तान् प्रसिद्धीकर्तुं सर्वोच्चन्यायालयेन निर्दिष्टम्। निष्कासनस्य कारणमपि सूचितव्यम्। 

  अपसारितानां सूचनाः आगामिकुजवासरात्पूर्वं प्रकाशयितव्याः इति न्यायाधीशः सूर्यकान्तः, न्यायाधीशः जोय् मल्या बाग्चि इत्येतयोः नीतिपीठेन निर्दिष्टम्। प्रकरणमिदं आगामिशुक्रवासरं प्रति परिवर्तितम्।

  यदि वृत्तान्ताः प्रसिद्धीक्रियन्ते तर्हि निर्वाचनायोगं विरुध्य प्रचारः  समापयिष्यतीति न्याया. जोय् मल्या वर्येण सूचितम्।

 जम्मु-काश्मीरे महामेघविस्फोटनम्।

४६ जनाः मृत्युमुपगताः।

दुरन्तस्थानात् मृतशरीराणि अपनीयन्ते। 

श्रीनगरं> जम्मु-काश्मीरस्य किष्त्वार् जनपदस्थे चिसोतिनामके ग्रामे गुरुवासरे मध्याह्ने दुरापन्ने महति मेघविस्फोटने तदनन्तरं जाते गभीरे गिरिजलपाते ४६ जनाः मृताः। द्विशताधिके जनाः तिरोभूताः। १२० अधिके क्षताः जाताः। मृतेषु द्वौ सि ऐ एस् एफ् भटौ अन्तर्भूतौ इति सूच्यते। 

  मच्चैल् मातृमन्दिरं प्रति गमनमार्गे आसीदयं दुरन्तः। तीर्थाटनमार्गः विनश्य अत्यन्तं तुमुलोSभवत्। तीर्थाटनं स्थगितं कारितम्। 

  राष्ट्रियदुरन्तनिवारणसेनायाः सङ्घद्वयं उधंपुरतः किष्त्वारं प्रति प्रेषितम्। शताधिके जनाः सुरक्षितस्थानं नीताः इति रक्षाप्रवर्तकैः निगदितम्। 

  गिरेः अधित्यकायां वर्तितानां ग्रामवासिनां गृहाणामुपरि प्रलयजलं पङ्क-शिलाखण्ड-वृक्षखण्डैः सहितं पतितम्। प्रदेशमासकलं मृदाच्छादितमभवत्।

Thursday, August 14, 2025

आगामिषु त्रिषु वा पञ्चसु वा संवत्सरेषु कृत्रिमबुद्धिमत्ता मानवानाम् अशीतिप्रतिशतं कर्माणि स्वयमेव करिष्यति। 

   सण्-मैक्रोसिस्टम्स् (Sun Microsystems) नामकस्य विश्वविश्रुतस्य तन्त्रज्ञानसंस्थानस्य सहसंस्थापकः प्रसिद्धः उद्यमधनपतिश्च खोस्ला विनोदः महतीं भविष्यद्वाणीम् अकरोत् । स अवदत् यद् आगामिषु त्रिषु वा पञ्चसु वा संवत्सरेषु कृत्रिमबुद्धिमत्ता मानवानाम् अशीतिप्रतिशतं कर्माणि स्वयमेव करिष्यति । तेन मानवानां कर्मलोपो भवेत्।

नवदिल्यां प्रवृत्ते प्रैम्स्ट्याक्-सम्मेलने (Primestack Conference) भाषमाणः स इमं विचारं प्राकटयत् । तस्य मतेन न केवलं सामान्यानि कर्माणि अपि तु यावन्ति विशेषज्ञानानि अपेक्षितानि कर्माणि सन्ति तान्यपि अनेन यन्त्रपुरुषेण अपहरिष्यन्ते । 

 खोस्लाविनोदः कथयति यद् एषा न कापि भीतिः अपितु महानवसर एव वर्तते । तस्य आशयः अयमस्ति यत् यदा कृत्रिमप्रज्ञा बौद्धिककार्याणि करिष्यति तदा मानवाः अधिकसृजनात्मकेषु कार्येषु स्वकीयं समयं प्रयोक्तुं शक्ष्यन्ते ॥


यथा पूर्वस्मिन् काले यन्त्राणि शारीरिकश्रमम् अपाहरन् तथैवेदानीं कृत्रिमबुद्धिमत्ता बौद्धिकश्रमम् अपहरिष्यति । किन्तु अस्य परिवर्तनस्य गतिः पूर्वस्मात् अतीव वेगवती भविष्यति प्रभावश्चापि सुविशालः। केचन चिन्तयन्ति यत् लुप्तानां कर्मणां स्थाने नूतनानि कर्माणि उत्पत्स्यन्ते । खोस्लाविनोदस्तु एतं विचारं पूर्णतया न अङ्गीकरोति । तस्य मतेन कर्मणः स्वरूपमेव परिवर्तते न तु केवलं सङ्ख्या ॥


चैट्-जीपीटी (ChatGPT) इत्यादीनां कृत्रिमप्रज्ञासाधनानाम् उदयः अस्य भविष्यकथनस्य प्रत्यक्षं प्रमाणम् । अतः कृत्रि मबुद्धिमत्तया सह कार्यं कर्तुं ये कुशलाः भविष्यन्ति तेषामेव भविष्यम् उज्ज्वलम् इति तस्य कथनस्य सारः ॥

 इस्रयेलाक्रमणम् 

गासा सिटीमध्ये २४ होराभ्यन्तरे १२३ मरणानि। 

जरुसलेमः> गासामभिभवितुम् उद्दिश्य  प्रथमतया निगृहीतुं निश्चिते गासासिटीप्रदेशे इस्रयेलेन कृते व्योमाक्रमणे २४ होराभ्यन्तरे १२३ जनाः विनष्टप्राणाः अभवन्। 

  एतावत्समयाभ्यन्तरे एतावदधिके जनाः मृत्युमुपगताः इति सप्ताहाभ्यन्तरे प्रथममेव। एतदतिरिच्य भोज्यवितरणकेन्द्रं प्रति गमने २५ पालस्तीनीयाः इस्रयेलसेनायाः भुषुण्डिप्रयोगेण मृताः।

 प्रधानमन्त्रिणः सूर्यघर्योजना अग्रे सरति॥

  राष्ट्रियकल्याणं पुरस्कृत्य प्रधानमन्त्रिणा प्रवर्तिता 'प्रधानमन्त्रिसूर्यघर्-मुक्तविद्युद्योजना' महता वेगेन देशेऽस्मिन् अग्रेसरतीति केन्द्रसर्वकारेण विज्ञापितम् ॥ अस्याः कारणेन गृहेषु सौरोर्ज्वयन्त्राणां संस्थापनद्वारा नागरिकाः प्रतिमासं त्रिशतमात्रकपर्यन्तं विद्युदूर्ज्वं निःशुल्कं प्राप्नुवन्ति ॥


  चतुर्विंशत्युत्तरद्विसहस्रतमस्य वर्षस्य फेब्रुवरीमासे प्रारब्धा भवति इयं योजना। द्विसहस्रषड्विंशति-सप्तविंशतितमवित्तीयवर्षाभ्यन्तरे राष्ट्रस्य कोटिपरिमितेषु गृहेषु सौरोर्ज्वप्रणाल्याः संस्थापनं कार्यमित्यस्ति योजनायाः मुख्यलक्ष्यम्॥ एतत्कार्यसिद्धये सर्वकारेण पञ्चसप्ततिसहस्रैकविंशतिकोटिरूप्यकाणां विशाला धनराशिरनुमोदिता ॥ गृहेषु एककिलो वाट्तः त्रिकिलो-वाट्क्षमतायुक्तानां यन्त्राणां संस्थापनाय त्रिंशत्सहस्ररूप्यकाणि यावद् अष्टसप्ततिसहस्ररूप्यकाणि अनुदानं प्रदीयते ॥

 अद्यतनवृत्तानुसारम् अष्टपञ्चाशल्लक्षाधिकेषु प्राप्तनिवेदनेषु षोडशलक्षपञ्चाशत्सहस्रगृहेषु सौरोर्ज्वसंस्थापनकार्यं पूर्तिमगमत् ॥ राज्येषु च महाराष्ट्रराज्यं (२,३४,७३६) गुर्जरप्रदेशः (२,२८,५०७) उत्तरप्रदेशश्च (१,२०,८६६) क्रमशः प्रथमद्वितीयतृतीयस्थानेषु विराजन्ते ॥


  अस्यां योजनायाम् अल्पवृद्धिना सह ऋणसौविध्यं विद्युद्वितरणसंस्थानानि (DISCOM) माध्यमेन सुलभा संस्थापनप्रक्रिया तथा नेट्-मीटरिङ्ग् (Net Metering) व्यवस्थेत्यादयोऽपि लाभाः सन्ति ॥ अधिकविवरणाय पञ्जीकरणाय च www.pmsuryaghar.gov.in इति सर्वकारीयं जालस्थानं नागरिका अवलोकयेयुः ॥

  विज्ञाः शास्त्रज्ञाश्चाभिप्रयन्ति यद् एतेन सौरोर्ज्वप्रसारेण न केवलं गृहस्थानां विद्युद्व्ययभारो लघूभविष्यति अपि तु पर्यावरणहानिकरस्य अङ्गाराम्लवायोः उत्सर्जनमपि नियन्त्रितं भविष्यति ॥

Wednesday, August 13, 2025

 केरले विद्यालयेषु विशिष्टदिनेषु छात्राणां गणवेषः निरस्तः।

शिक्षामन्त्रिणं वि शिवन्कुट्टिवर्यं कण्णूर् सर्वकारोच्चतरविद्यालयछात्राः उत्सवदिनेषु गणवेषनिरासमधिकृत्य निवेदयन्ति। 

कण्णूर्> केरले विद्यालयेषु श्रावणोत्सवः, क्रिस्तुमस् इत्यादीनां विशिष्टदिनानां कार्यक्रमेषु भागं कर्तुं वर्णवस्त्रं धर्तुं अवकाशः स्यात्। सोमवासरे कण्णूरस्थे मुण्टेरि सर्वकारीयोच्चतरविद्यालये नूतनं कक्ष्यासमुच्चयमुद्घाटनं कर्तुं आगतं शिक्षामन्त्रिणं वि शिवन्कुट्टिवर्यं  छात्राणां निवेदनमासीत् उत्सवदिनेषु गणवस्त्रात् मुक्तिः। 

  तदनन्तरं कुजवासरे तृश्शूर् जनपदे सम्पन्ने विद्यालयीयकलोत्सवस्य स्वागतसंघरूपीकरणवेलायां  मन्त्रिवर्यः छात्राणामपेक्षाम् अङ्गीकृत्य प्रस्तावं कृतवान्।

 नागार्जुन-उमेश-संस्कृत-महाविद्यालये संस्कृतसप्ताहस्याभवत् भव्यसमापनम्

संस्कृतसप्ताहः–परम्परा नवाचारयोरद्वितीय-सङ्गमः– डॉ.छबिलालन्यौपानेः

बिहारराज्यान्तर्गते दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामेऽवस्थितेन कामेश्वरसिंहदरभङ्गा-संस्कृतविश्वविद्यालयस्याङ्गीभूतेन नागार्जुन-उमेश-संस्कृतमहाविद्यालयेन अगस्तमासस्य षड्दिनाङ्कादारभ्य आयोजितस्य संस्कृतसप्ताहस्य समापनं भौमवासरे 12.08.2025 दिनाङ्के सम्पन्नम्।

संस्कृतसप्ताहस्य अन्तिमदिवसे “डिजिटल् युगे संस्कृतभाषा– परम्परासंवाहिका उत भविष्यभाषा ? इति विषयिण्याः वाद-विवादप्रतियोगितायाः, “भारतीयज्योतिषशास्त्रम् – परम्परा, विज्ञानम्, आधुनिकजीवने च तस्य प्रासङ्गिकता” इति विषयकव्याख्यानस्य, समापनसत्रस्य च आयोजनम् अभवत्।

वादविवादप्रतियोगितायां बालकृष्णः, अञ्जलिः, अञ्जूः, कबीरः, श्रुतिः, सुरेशः, राजभूषणः, मुरारी, अभिलाषा, मन्नूः, महेशः, राकेशः, कृष्णः, अमनः चेत्यादयः प्रतिभागिनः स्वोत्कृष्टस्मरणशक्त्या, भावपूर्णप्रस्तुतिना, संस्कृतप्रेम्णा च प्रेक्षकान् प्राभावयन्।

मुख्यवक्त्री डॉ.सरस्वतीकुमारी प्रावोचद्यद् ग्रह-नक्षत्राणां गतीनामध्ययनाधारितं भारतीयज्योतिषशास्त्रं वैदिककालात् प्रवर्त्तमानमेकं प्राचीनविज्ञानपरम्परारूपमस्ति। अस्य विकासः गणित-खगोल-पर्यवेक्षणादीनां सुदृढसिद्धान्तैः अभवत्। पञ्चाङ्गनिर्माणम्, कालचक्रम्, कुण्डल्यनिर्माणम् चेत्यादयो विधयः समाजे मार्गदर्शनस्य साधनानि अभवन्। आधुनिकयुगेऽपि शास्त्रमिदं आत्मबोधे मानसिकशान्तौ सम्यङ्निर्णयग्रहणे च साहाय्यकरम् अस्ति। अङ्कप्रणालीयप्रौद्योगिकीमाध्यमेन अद्यत्वेऽस्य शास्त्रस्य विस्तारोऽधिको जातो वर्तते।

सन्दर्भेऽस्मिन् सहायकप्राचार्येण वीरसनातनपूर्णेन्दुरायेणोक्तं यत् संस्कृतसप्ताहो न केवलं शैक्षणिककार्यक्रमः, किन्तु अस्माकं सांस्कृतिकमूलैः सह सम्बद्धतां प्राप्तुं सेतुभूतोऽस्ति। अवसरेऽस्मिन् आयोज्यमानाः विविधाः कार्यक्रमाः छात्राणां भाषाकौशलं, तर्कक्षमतां, सृजनशीलतां, सांस्कृतिकजागरूकतां च वर्धयन्ति।

मुख्यातिथिः पं.महानन्दझाः संस्कृतं भारतस्य सांस्कृतिकचेतनायाः, दार्शनिकगहनतायाः, नैतिकमूल्यानां च अमूल्यं निधिरूपम् अभिधाय एतद् भाविसन्ततीनां बौद्धिक-नैतिक-विकासानां कृते आवश्यकमस्तीति प्रतिपादितवान्।

कार्यक्रमसमन्वयकः डॉ.छबिलालन्यौपानेः संस्कृतसप्ताहं परम्परायाः आधुनिकतायाश्च संगमरूपेण वर्णयन् वादविवादैः, निबन्धैः, श्लोकपाठैः, व्याख्यानैः च छात्राणां प्रतिभा, सृजनशीलता, तर्कक्षमता, सांस्कृतिकबोधश्च वर्धिता इति उक्तवान्।

अध्यक्षीयोद्बोधने प्रभारिप्रधानाचार्यः डॉ.रामसंयोगरायः प्रोक्तवान् यत् संस्कृतम् अस्माकं सांस्कृतिकम् आत्मभूतम्, ज्योतिषशास्त्रं च अस्य बौद्धिकरत्नं भवति। प्रतियोगिताः व्याख्यानानि च परम्परायाः आधुनिकदृष्टेः च संगमं प्रकाशयामास।

कार्यक्रमे डॉ.आलोककुमारः, डॉ.नियतिकुमारी, डॉ.विभूतिनाथझाः, डॉ.सरिताकुमारी, मुकुन्दकुमारः अन्ये च संस्कृतप्रेमिणः उपस्थिताः आसन्।

कार्यक्रमस्य समापनं संस्कृतजयघोषेन राष्ट्रगीतेन च अभवत्, येन परिसरे संस्कृतगौरवस्य, राष्ट्रियचेतनायाः च उत्साहपूर्णं वातावरणं व्याप्तम्।