भारते नूतनाः १५४९ कोविड्रोगिणः।
नवदिल्ली> सोमवासरे समाप्तासु २४ होरासु १,५४९ जना अपि कोविड्बाधिताः अभवन्। ३१ जनाः गतदिने मृताः। ०. ४३ प्रतिशतमिति प्रतिदिन रोगस्थिरीकरणमानम्।
१८ वयःपूर्णेभ्यः 'अवेक्षणमात्रा' परिगण्यते।
नवदिल्ली> भारते ये जनाः १८ वयःपूर्णाः तेभ्यः सर्वेभ्यः कोविड्प्रतिरोधसूच्यौषधस्य तृतीयमात्रां परिरक्षणमात्रारूपेण दातुं केन्द्रसर्वकारेण पर्यालोच्यते। चीनं अपि अन्तर्भाव्य बहुषु राष्ट्रेषु कोविड्प्रकरणानि संवर्धन्ते इत्यत एवायं निर्णयः। कोविड्प्रतिरोधे अग्रेसराः प्रवर्तकाः तथा ६० वयः प्राप्ताः ये वर्तन्ते, तेऽपि सम्प्रति तृतीयमात्रामर्हन्ति।
पाकिस्थाने इम्रान् खानस्य स्थानत्यागं भविष्यति?
इस्लामाबादः> पाकिस्थाने विपक्षदलैः समर्पिते अविश्वासप्रमेये मतदानप्रक्रियायाम् आसन्नायां प्रधानमन्त्रिणं इम्रान् खानं प्रति त्यागपत्रं समर्पयितुं सेनामुख्यः खमर जावेद् बज्वः निरदिशदिति तद्देशीयवार्तामाध्यमैः सूच्यते। इस्लामिकराष्ट्राणां संघस्य 'ओ ऐ सि' नामकस्य विदेशकार्यमन्त्रिणामुपवेशनानन्तरं त्यागपत्रं समर्पणीयमिति निर्दिष्टम्।
राष्ट्रे वर्तमानस्य आर्थिकप्रतिसन्धेः द्रव्यमूल्यातिवर्धनस्य च हेतुः इम्रानसर्वकारः इत्यारोप्य विपक्षदलीयैः सर्वकारस्य विमतसदस्यैः च अविश्वासपत्रं समर्पितमासीत्। मार्च् २८तमे दिनाङ्के मतदानप्रक्रिया भवेत्।
जप्पान्> आगमिनि पञ्च संवत्सराभ्यन्तरे जप्पानः भारते ३.२० कोटि रूप्यकाणां निक्षेपः करिष्यति इति प्रधानमन्त्री नरेन्द्रमोदी। जप्पानस्य प्रधानमन्त्रिणा फुमियो किषिदेन साकं साक्षात्कारानन्तरम् आसीत् ख्यापनम्।
मार्गभ्रंशहेतुना बालकौ पञ्चविंशतिदिनानि यावत् वने अभ्रमताम्। वृष्टिजलं वन्यफलानि च अश्रित्य अतिजीवनम्।
ब्रसीलिया> विश्वस्मिन् अतिबृहत्तमाः वनप्रदेशाः भवन्ति आमसोण् वृष्ट्यरण्यानि। घोरवनानि वन्यजीविनः च आमसोणं निगूढतायाः भयस्य च आवासस्थानं कारयन्ति। आमसोण् वनान्तरेषु मार्गात् भ्रष्टन्तौ पञ्चविंशतिदिनानन्तरं प्रत्यागतयोः बालकयोः अतिजीवनं वार्तामाध्यमेषु त्वरितप्रसरितम् अभवत्। ब्रसीलियादेशीयाः 'मुर' नाम गोत्रविभागे अन्तर्गतौ तौ नववर्षीयः ग्येय्सणः सप्तवर्षीयः गैको नामकः बालकः च आमसोण् वनान्तरात् रक्षाप्रवर्तकैः संरक्षितौ। घोरवनेषु पञ्चत्रिंशत् कि मि वनान्तर्भागे एव बालकौ रक्षाप्रवर्तकैः सन्दृष्टौ। बालकौ पिपासया बुभुक्षया च पीडितौ सन्तौ अपि, तयोः अन्यानि शारीरीकास्वास्थ्यानि न आसन् । फेब्रवरि मासस्य अष्टादश दिनाङ्के एव बालकौ वने दृष्टौ।
विद्यालयीयछात्राणां धिषणावृत्तिपरीक्षा।
चीनम् अभिव्याप्य विदेशराष्ट्रेषु पुनरपि कोविड् व्याप्यते; भारते अपि जागरणनिर्देशः।
चीनः, दक्षिणकोरिया, सिंहपुरं इत्यादिषु राष्ट्रेषु कोविड्प्रकरणानि उद्गच्छन्ति। चीने गतदिने ५००० कोविड्प्रकरणानि नूतनानि जातानि। ओमिक्रोणस्य उपप्रभेद एव व्याप्यते इति सूच्यते।
युद्धप्रशमनाय शुभाप्तिविश्वासं प्राकट्य रष्या युक्रेनश्च।
कीव्> सप्ताहत्रयं यावत् अनुवर्तमानस्य रषिया-युक्रेनसंघर्षस्य चर्चया परिसमाप्तिं कर्तुं शुभाप्तिविश्वासमस्तीति उभे राष्ट्रे विश्वासं प्राकटयताम्। उभयोः राष्ट्रयोः मिथः चर्चा अनायासेन न भविष्यतीत्यपि सन्धिमार्गं प्राप्तुं प्रतीक्षा वर्तते इति रषियायाः विदेशकार्यमन्त्रिणा सेर्गय् लावरोवेन प्रस्तुतम्। फलप्रदा चर्चा प्रतीक्षते इति युक्रेनस्य राष्ट्रपतिः व्लादिमिर् सेलन्स्किः च उक्तवान्।
उभयोः राष्ट्रयोः प्रतिनिधयः ओण् लैन् द्वारा चर्चां कृतवन्तः आसन्। ततःपश्चादासीत् राष्ट्रनेत्रोः अभिमतप्रकाशनम्।
सैनिकप्रक्रमान् स्तगयितुम् अन्ताराष्ट्र न्यायालयेन आदिष्टः ।
कीव्> युक्रेनस्योपरि अधिनिवेशप्रक्रमान् आरभ्य २१ दिनानि अतीतानि। सन्दर्भेऽस्मिन् युद्धस्तंभनस्य समयः समागतः इत्यस्ति नूतनं प्रतिवेदनम्। युक्रेनस्य उपरि रष्येण अनुवर्तमानान् सैनिकप्रक्रमान् स्तगयितुम् अन्ताराष्ट्रन्यायालयेन आदिष्टः। युद्धस्य स्तगनमुद्दिश्य १५ विभिन्ननियमक्रमान् समादिष्टवन्तः सन्ति। युक्रेनः नाट्टोमध्ये अङ्गत्वं कदापि न स्वीकरिष्ये इत्यपि आसूत्रणे संसूचितम् ।
काश्मीरे वर्षद्वयाभ्यन्तरे १०४ सुरक्षाभटाः निहताः।
नवदिल्ली> गतवर्षद्वये काश्मीरप्रदेशे विविधेषु प्रतिद्वन्द्वेषु भारतस्य १०४ सुरक्षासैनिकाः विनष्टप्राणाः सन्तीति केन्द्रसर्वकारेणोक्तम्। प्रतिद्वन्द्वेषु ३४ भीकराः अपि निहताः। राष्ट्रस्य गृहसहमन्त्रिणा नित्यानन्दराय् वर्येण लोकसभायां ।
अन्ताराष्ट्रसीमाद्वारा १७६ निर्गलनोद्यमाः अभवन्। २०२० तममपेक्ष्य २०२१ तमे निर्गलनोद्यमाः न्यूनाः आसन्निति मन्त्रिणा उक्तम्।
नवदिल्ली देववाणी परिषदा कवि विंध्येश्वरीप्रसादमिश्रः समादृतः
वार्ताहरः - देशराज शर्मा-
साहित्याकादमी-पुरस्कारसम्मानितस्य (२०२१) संस्कृतकवेः डा. विंध्येश्वरीप्रसादमिश्र "विनय" -महाभागस्याभिनन्दनं "देववाणी परिषद्, दिल्ली" -पक्षतो नवदिल्ल्यां वाणीविहारे रमालये ११.३.२०२१ तमे दिनाङ्के अक्रियत। आचार्यमिश्रेण "सृजति शङ्खनादं किल कविता" इत्यस्मात् पुरस्कृतात् काव्यसङ्ग्रहात्कविता अपि श्राविता:।पंडित: सत्यनारायणपांडेय: मङ्गलाचरणमकरोत्। वरद:, रम्या, शुभांगी (सुरुचि:) शिवांगी च श्लोकान् अश्रावयन्। परिषदुपाध्यक्ष: प्रोफेसरसुधीकान्तभारद्वाजोऽ
भारते १२ - १४ वयस्केभ्यः कोविड्वाक्सिनम्।
नवदिल्ली> १२ - १४ वयस्केभ्यः बालेभ्यः बुधवासरादारभ्य कोविड्प्रत्यौषधं दास्यतीति भारतस्य स्वास्थ्यमन्त्री मन्सुखमाण्डव्यः प्रास्तूयत। Biological - E नामकसंस्थायाः 'कोर्बे वाक्स्' नामकं सूच्यौषधमेव दीयते।
तथा च षष्ठ्यब्दपूर्णेभ्यः सर्वेभ्यः बुधवासरादारभ्य तृतीयमात्रामपि दातुं निर्णयः कृतः। २०२१ जनुवरि १६ तमे दिनाङ्के आसीत् राष्ट्रे वाक्सिनवितरणमारब्धम्। इतःपर्यन्तं १८० कोटि मात्राः वाक्सिनीनि वितरीतानि।
युक्रेन युद्धं - कीव् लक्ष्यीकृत्य रष्या।
कीव्> युक्रेनाधिनिवेशस्य १७ तमे दिने रषीयसेना युक्रेनराजधानीभूतस्य कीव् नगरस्य २५ कि मी समीपं प्राप्ता इति ब्रिट्टनस्य गुप्तचरविभागेन निगदितम्। कीव् नगरं विनाशयितुं रूसराष्ट्रेण महदाक्रमणमासूत्रयिष्यतीति बिट्टनेन पूर्वसूचना दत्ता।
युक्रेनस्य युद्धकौशलप्रमुखाः प्रदेशाः रषीयसेनया वलयिताः इति युक्रेनमाध्यमैः निवेदितम्। हार्कीव्, मिकोलेव्, सुमी इत्येतेषु नगरेषु अग्निशस्त्राक्रमणं तीव्रमस्ति। विद्युज्जलभोज्याभावेन नागरिकाः अतिक्लेशमनुभवन्ति।
केरळेषु पाठपुस्तकमुद्रीकरणं सम्पूर्णम्।
अनन्तपुरी> केरळे आगामिने अध्ययनसंवत्सराय प्रथमकक्ष्यातः दशमकक्ष्यापर्यन्तं पाठपुस्तकानां मुद्रीकरणं सम्पूर्णतां प्राप्तमिति राज्यस्य शिक्षामन्त्री वि शिवन्कुट्टिः न्यवेदयत्।
प्रथमकक्ष्यातः नवमकक्ष्यापर्यन्तं वार्षिकमूल्यनिर्णयपरीक्षाः मार्च् २३ दिनाङ्कतः आरप्स्यन्ते। दशकक्ष्याछात्राणां एस् एस् एल् सि परीक्षाः मार्च् ३१ तः एप्रिल् २९ पर्यन्तं विधास्यन्ति। मेय् मासे अध्यापकानां परिशीलनं पूर्तीकृत्य जूण् प्रथमदिनाङ्के एव आगामी अध्ययनवर्षमारप्स्यते इति च मन्त्रिणा उक्तम्।
युक्रेनतः २५ लक्षं नागरिकाः पलायिताः।
न्यूयोर्क्> रष्या राष्ट्रस्य युक्रेनाधिनिवेशं प्रारभ्य इतःपर्यन्तं तद्राष्ट्रात् पलायितानां नागरिकाणां संख्या २५ लक्षमतीतेति यू एन् संस्थायाः अभयार्थिविभागस्य नेता निगदितवान्। पलायितेषु दशलक्षं बालकाः अन्तर्भवन्ति। ५० लक्षं अभयार्थिनः स्वीकर्तुं सिद्धाः भवेयुरिति यूरोपियन् यूणियन् संघेन पूर्वमेव सूचना दत्ता आसीत्।
'ओपरेषन् गङ्गा' परिसमाप्ता; युक्रेनात् सर्वे भारतीयाः स्वदेशं प्राप्ताः।
नवदिल्ली > आशङ्कायाः भीत्याश्च दुरितपर्वणमतीत्य युक्रेनस्य सुमि युद्धमुखात् अन्तिमः भारतीयसंघश्च स्वराष्ट्रं प्राप्ताः। छात्रान् अभिव्याप्य विंशतिसहस्रं जनाः केन्द्रसर्वकारस्य नयतन्त्रपटुत्वस्य अश्रान्तपरिश्रमस्य च साफल्येन भारतं प्रत्यागताः।
युद्धस्थानात् भारतीयान् अपसर्तुं साह्यं कृतमित्यनेन रषिया,युक्रेनः,रोमानिया, हङ्गरी, पोलण्ट्, स्लोवाकिया, मोल्डोवा इत्येतेभ्यः राष्ट्रेभ्यः भारतं कृतज्ञतां समार्पयत्।
कोविडस्य व्यापनम् - चीनेषु नवति लक्षं जनसंख्यायुक्ते नगरे कीलनं ख्यापितम्।
बेय्जिङ्> दीर्घकालं यावत् कोविड्रोगस्य उपशमनानन्तरं पुनरपि कोविडस्य व्यापनहेतुना चीनेषु नवति लक्षं जनसंख्यायुक्तनगरे कीलनं ख्यापितम्। चीनस्य पूर्वोत्तरनगर्यां चाङ्चुन्याम् एव कीलनं ख्यापितम्। नगरेषु वाहनानां गमनागमनमपि निरोधितम्। गृहात् बहिः न कोऽपि गन्तव्यः। बहिर्गमनात्पूर्वं त्रिवारं कोविड्निर्णयपरिशोधनाविधेयः भवितव्यः इति अधिकारिणा निर्दिष्टः। अनिवार्यरहितानि आपणानि कीलनीयानि।
भारतस्य तीरसेनायाः उदग्रयानं काश्मीरे भग्नमभवत्। वैमानिकः निहतः। सहवैमानिकः व्रणितश्च।
केरलस्य संस्कृताध्यापक-संघटनयोः राज्यस्तरीय संवत्सरीयोपवेशनं समारब्धम्।
विधानसभानिर्वाचनानि - पञ्चसु चतुर्षु भाजपादलाय प्रशासनाधिकारः , एकस्मिन् 'आप्'दलाय।
नवदिल्ली> फेब्रुवरि १० तमादारभ्य मार्च् ७तमदिनाङ्कपर्यन्तं दीर्घितानां विधानसभानिर्वाचनानां फले समागते भा ज पा दलस्य उज्वलविजयः। उत्तरप्रदेशः, उत्तरखण्डः, मणिप्पुरं, गोवा इत्येतेषु राज्येषु भा ज पा दलेन प्रशासनपदं प्राप्तम्। पञ्चाबराज्ये तु इदंप्रथमतया अरविन्द केज्रिवालस्य आम् आद्मी पार्टी [आप्] इत्यनेन प्रशासनपदमारोहितम्।
उत्तरप्रदेशे योगि आदित्यनाथस्य शासनानुवर्तनं भवति। आहत्य ४०३ स्थानेषु २७३ स्थानेषु विजयीभूय एव भाजपादलं द्वितीयवारं राज्याधिकारं जग्राह। उत्तराखण्डे सप्ततिषु ४७ पदानि भाजपादलेन प्राप्तानि। मणिप्पुरे ६० स्थानेषु ३२ स्थानानि सम्प्राप्य भाजपादलेन शासनं पुनः दृढीकृतम्। गोवायां तु ४० तः २० स्थानानि प्राप्तानि। स्वतन्त्रसदस्यानां साहाय्येन तत्र प्रशासनानुवर्तनं करिष्यतीति निश्चितम्।
पञ्चाबे तु प्रशासनपदमुपस्थितं कोण्ग्रस् दलम् उन्मूलनं कृत्वा एव अरविन्द केज्रिवालस्य नेतृत्वे विद्यमानं आप् दलं प्रप्रथमतया शासनाधिकारं प्राप। तत्र मुख्यमन्त्रिपदे भगवन्त् मनु वर्यः भविष्यति।
युक्तैनतः पलायितानां संख्या २० लक्षम् ।
युक्रैन् - रष्ययोः मिथः तृतीयतल शान्तिचर्चा बेलारूसे समारब्धा।
कीव्> युक्रैने रष्यस्य आक्रमणम् अनुवर्तिते अस्मिन् सन्दर्भे उभयोः राष्ट्रयो: मिथ: तीयतलशान्तिचर्चा बेलारूसे समारब्धा। रष्यस्य महासंघेन सह अद्य समारप्स्यमाणे सति, चर्चार्थं आयोजिते प्रतिनिधिसंघे परिवर्तनानि नास्ति इति युक्रैनस्य राष्ट्रपतिना व्लादिमिर् सेलन्स्किवर्यस्य उपदेशकेन मिखायिलो पोडोलियाकेन ट्वीट्ट् कृतम्। अनस्यूतं द्वादशतमदिने परस्परं युद्धम् अनुवर्तमाने सन्दर्भे एव इयं चर्चा प्रचलति।
युक्रैन् - द्वितीयं युद्धरोधनमपि निष्फलम्।
कीव्> युक्रैने रविवासरे प्रख्यापितं युद्धरोधनमपि निष्फलं जातम्। रूससमयमनुसृत्य प्रभाते १० वादनतः रात्रौ ९ वादनपर्यन्तमासीत् मरियुपोल्, वोल्नोवाखः इत्येतयोः प्रदेशयोः युद्धविरामः प्रख्यापितः। किन्तु तत्रापि रूसेन अग्निशस्त्राक्रमणमनुवर्तितम्। तदा जनानामपसारणं स्थगितमिति युक्रेनसर्वकारेण निगदितम्।
द्विलक्षाधिकं जनाः मरियुपोले निबद्धाः सन्ति। शनिवासरेSपि अपसारणं नाभवत्।
हैदरलि तङ्ङल् दिवंगतः।
केरले मुस्लिंलीग् नामकस्य राजनैतिकदलस्य राज्याध्यक्षः पाणक्काट् हैदरलि शिहाब् तङ्ङल् वर्यः अद्य मध्याह्ने दिवंगतः। अर्बुदरोगबाधितः सः अङ्कमाल्यां कस्मिन्नपि निजीयातुरालये परिचर्यायां आसीत्। यू डि एफ् इति केरलस्य विपक्षदलसंघस्य नेतृषु प्रमुखः अयं मुस्लिमलीगस्य उन्नताधिकारसमित्यङ्गः राजनैतिककार्यसमित्याः अध्यक्षश्चासीत्।
सर्वदा धर्ममैत्र्यर्थं प्रवर्तमानः हैदरलिमहोदयः सर्वस्वीकार्यः आसीत्। मुख्यमन्त्री पिणरायि विजयः, विपक्षनेता वि डि सतीशः, भूतपूर्वमुख्यमन्त्रिणौ ए के आन्टणि, उम्मन् चाण्टिः कोण्ग्रस् दलस्य देशीयाध्यक्षा सोणियागान्धी ,राहुलगान्धी इत्यादयः बहवः राजनैतिकदलनेतारः तस्य निर्याणे श्रद्धाञ्जलिं प्रकाशितवन्तः। तस्य मृतदेहसंस्कारः प्रभाते ९ वादने पाणक्काटस्थे जुमा मस्जिदाराधनालये खबर्स्थाने विधत्तः।
षेन् वोण् निर्यातः।
बाङ्कोक्> क्रिकट् इतिहासः इति विख्यातः आस्त्रिलियायाः 'स्पिन्' ऐन्द्रजालिकः षेन् वोण् [५२] शुक्रवासरे दिवंगतः। ताय्लान्ट् मध्ये हो समूयि प्रदेशस्थे स्वभवने मृतरूपेण दृष्ट आसीत्। हृदयस्तम्भनमेव कारणमिति प्राथमिकनिर्णयः।
क्रिक्कट् मण्डले सम्भूतेषु वरिष्ठतमेषु क्रीडकेषु अन्यतम षेन् वोणः निकषस्पर्धायां अधिकतमविक्कट् लब्धेषु द्वितीयस्थानमर्हति। १५ संवत्सराणां दीर्घिते तस्य क्रीडाजीवने ७०८ द्वारकाः [Wickets]तेन लब्धाः।
मणिप्पुरे द्वितीयचरणमतदानम् अद्य।
इम्फाल्> मणिप्पुरराज्यस्य विधानसभानिर्वाचनस्य द्वितीयचरणम् अद्य सम्पद्यते। ६ जनपदानां २२ मण्डलेषु द्वे महिले समेत्य ९२ स्थानाशिनः स्पर्धन्ते। ८.३ लक्षं मतदायकाः सन्ति।
भूूतपूर्वमुख्यमन्त्री तथा च वरिष्ठः कोण्ग्रस् नेता ओक्रम् इबोबी सिंहः, भूूतपूर्वः उपमुख्यमन्त्री गय्खान गामः, इदानीन्तनमन्त्रिणौ लेप्टावो हावोकिप्, लोसि डिखो इत्यादयः प्रतिद्वन्दिषु प्रमुखाः सन्ति।
चर्चा अनुवर्तते; युद्धं च।
कीव्> रूस-युक्रैनयोः युद्धे साप्ताहिके अतीते युद्धरोधनाय उभयोः राष्ट्रयोः द्वितीयचरणचर्चा समारब्धा। बलारस् राष्ट्रस्य ब्रस्ट् मण्डलस्थथे पुष्चा नामक स्थाने एव चर्चावेदिका।
किन्तु प्रतिद्वन्द्वे लाघवं न भविष्यतीति रूसस्य राष्ट्रपतिः व्लादिमिर् पुतिनेन निगदितम्। सैनिकसाहाय्यं न लभते चेत् युक्रैनस्य पतनमासन्नमिति युक्रैनस्य राष्ट्रपतिः व्लादिमिर् सेलन्स्किना उक्तम्। रूसस्य ४९८ स्वकीयाः सैनिकाः आहवे मृता इति रूसेन दृढीकृतम्। १६०० भटाः व्रणिताः, २८९० युक्रेनीयसैनिकान् अमारयदिति च रूसस्य वक्ता अवदत्।
मिसैल् पक्षी - वेगः ३०० कि.मि - षहीन् फालकन् रामक्कल्मेड् प्रदेशे।
रष्यस्य अग्निबाणप्रहारेण युक्रैनस्य प्रशासनकार्यालयः अग्निगोलमभवत्।
युक्रैने अधिनिवेशस्य पश्चात् विभिन्नमण्डलेभ्यः कठिनः उपरोधः बहिष्करणं च रष्येण अभिमुखीक्रियमाणः अस्ति। किन्तु अधुना भवनसमुच्चयाः प्रशासनकार्यालयाः च लक्ष्यीकृत्यैव रष्यस्य आक्रमणं प्रचलति। प्रधाननगरौ कीविं खर्कीविं च लक्ष्यीकृत्यैव रष्यः आक्रमणं करोति। राष्ट्रे द्वितीयं प्रधाननगरमिति ख्यातस्य खर्किविनगरस्य प्रशासनकार्यालयः रष्यस्य अग्निबाणप्रहारेण भञ्जितमभवत्। घटनायाः अस्याः चलनचित्रखण्डदृश्यं युक्रैनस्य विदेशकार्यमन्त्रालयेन ट्विट्टर् माध्ये प्रकाशितम् ।
अन्ताराष्ट्रिय-मनुष्याधिकारनियमान् उल्लङ्घ्य एव रष्यः युद्धं करोति। सामान्यजनान् निहन्ति। सैनिकेतर - वस्तूनि नाशयन्ति। बृहन्नगराण्येव रष्यः लक्ष्यीकरोति। रष्यः अधुना तत्र अग्निबाणेन प्रहरति इति युक्रैनस्य विदेशकार्यमन्त्रालयेन ट्विट्टर् मध्ये सूचितम।
कोविडस्य चतुर्थतरङ्गः जूण्मासे इत्यनुशीलनफलम्।
नवदिल्ली> भारते जूण् मासादारभ्य कोविड्महामार्याः चतुर्थः तरङ्गः भविष्यतीति काण्पूरस्थायाः ऐ ऐ टि संस्थायाः अनुशीलनफलम्। तेषामावेदनमनुसृत्य ओक्टोबर् मासपर्यन्तं चतुर्थतरङ्गस्य कालः भवेत्।
वाक्सिनस्य लभ्यतां विषाणुप्रभेदस्य स्वभावं चानुसृत्य रोगतीव्रता कियतीति वक्तुं शक्येत। विविधानि राष्ट्राणि एतदाभ्यन्तरे चतुर्थतरङ्गस्य प्रभावमनुभवन्ति स्म।
युक्रैने कवचितस्फोटकाक्रमणेन भारतीयविद्यार्थी निहतः।
कीव्> युक्रेने कवचितस्फोटकाक्रमणेन (shell attack) भारतीयविद्यार्थी निहतः। कर्णाटकादेशीयः नवीन् एस् जि एव हतः। मरणवृत्तान्तः विदेशकार्यमन्त्रालयेन स्पष्टीकृतः च अस्ति। अद्य प्रभाते एव बार्कीवे आक्रमणं आपन्नम्। बार्किव् वैद्यकीयविश्वविद्यालये चतुर्थसंवत्सरीयः वैद्यकीयछात्रः आसीत् नवीनः। युक्रैन् सेनया निर्दिष्टे समये भक्ष्यवस्तूनि क्रेतुं पङ्क्त्यां स्थितः आसीत्। तस्मिन्नवसरे एव आक्रमणं समजनि इति प्रतिवेदनानि सन्ति।
रष्यस्य अग्निबाणप्रहारेण युक्रैनस्य प्रशासनकार्यालयः अग्निगोलः अभवत्।
युक्रैने अधिनिवेशप्रयत्नस्य पश्चात् विभिन्नमण्डलेभ्यः कठिनः उपरोधः बहिष्करणं च रष्येण अभिमुखीक्रियमाणः अस्ति। किन्तु अधुना भवनसमुच्चयाः प्रशासनकार्यालयाः च लक्ष्यीकृत्यैव रष्यस्य आक्रमणं प्रचलति। प्रधाननगरौ कीविं खर्कीविं च लक्ष्यीकृत्यैव रष्यः आक्रमणं करोति। राष्ट्रे द्वितीयं प्रधाननगरमिति ख्यातस्य खर्किविनगरस्य प्रशासनकार्यालयः रष्यस्य अग्निबाणप्रहारेण भग्नमभवत्। दुर्धघटनायाः अस्याः दृश्यखण्डं युक्रैनस्य विदेशकार्यमन्त्रालयेन ट्विट्टर् माध्ये प्रकाशितम्। अन्ताराष्ट्रिय-मानविक-व्यक्तिनियमान् उल्लङ्घ्य एव रष्यः युद्धं करोति। सामान्यजनान् निहन्ति। सैनिकेतर - वस्तूनि नाशयन्ति। बृहन्नगराण्येव रष्यः लक्ष्यीकरोति। रष्यः अधुना तत्र अग्निबाणेन प्रहरति इति युक्रैनस्य विदेशकार्यमन्त्रालयेन ट्विट्टर् मध्ये सूचितम।