'ट्रोलिंग्' निरोधः आरब्धः।
अनन्तपुरी> केरलराज्ये समुद्रस्य गभीरतायां सयन्त्रनौकाद्वारा बृहज्जालानि उपयुज्य मत्स्यबन्धनं गतरात्रावारभ्य निरुद्धम्। जूलाय्मासस्य ३१ दिनाङ्कपर्यन्तमेव निरोधः। किन्तु परम्परागतमत्स्यबन्धनाय निरोधः नास्ति।
मिताली राजः निवृत्ता।
१९९९ तमे वर्षे स्वस्याः १६ तमे वयसि अयर्लान्डं विरुध्य एकदिनक्रीडया अन्तर्राष्ट्रीयक्रिक्कट्क्रीडाक्षेत्रे प्रारम्भं कृतवती मिताली २३ संवत्सराणि क्रीडाङ्कणेषु अभिमानार्हाभिः क्रीडाभिः प्रशोभितवती। एकदिनेषु निकषास्पर्धासु च भारतदलस्य नायिका आसीत्। १०,८६८ धावनाङ्कैः महिलाक्रिक्कट्क्रीडासु अधिकतमधावनाङ्कप्राप्ता इति श्रेष्ठपदं च प्राप्तवती। वनिताएकदिनस्पर्धासु अधिकतमधावनाङ्कार्हा च [७८०५] अभवत्।
राष्ट्रे कोविड् प्रकरणानि वर्धन्ते। विमानेषु मुखावरणम् अनिवार्यम् ।
भारते प्रतिदिनकोविड्बाधा ७००० अतीता।
नवदिल्ली> राष्ट्रे ९३ दिनानामनन्तरं प्रतिदिनकोविड्व्यापनं ह्यः ७००० अतीतम्। बुधवासरे प्रभाते समाप्ते २४ होराकाले ५२३३ जनाः नूतनतया कोविड्बाधिताः अभवन्। १. ६७ प्रतिशतमेव प्रतिदिनरोगस्थिरीकरणमानम्।
अनेन राष्ट्रे सम्पूर्णे आहत्य कोविड्बाधिताः ४,३१,९०,२८२ जाताः। इदानीं २८,८५७ रोगिणः परिचर्यायां वर्तन्ते।गतदिने सप्त जनाः मृताः। आहत्य ५,२४,१५ जनाः मृत्युवशं प्राप्ताः। आराष्ट्रं १९४. ४३ कोटि प्रत्यौषधमात्राः वितरीताः।
केरले कोविड्प्रकरणानि वर्धन्ते।
अनन्तपुरी> केरलराज्ये कोविड्प्रकरणानि अनुदिनं वर्धन्ते। ह्यः २२३१ जनाः रोगबाधिताः अभवन्। गतसाप्ताहिके प्रतिदिनसंख्या सहस्रातीता अनुवर्तमाना आसीत्। एरणाकुलं, तिरुवनन्तपुरं, कोट्टयं, तृश्शिवपेरूर् जनपदेषु एव नूतनाः कोविड्बाधिताः अधिकतया दृश्यन्ते।
रोगः तीव्रस्वभावरूपः नास्तीति स्वास्थ्यविभागेन निगदितम्। किन्तु मुखावरक-हस्तप्रक्षालनादिकानि कोविडनुशीलनानि पालनीयानीति निर्दिष्टमस्ति।
अष्टादश रोगिणः अर्बुदरोगात् मुक्तिं प्राप्तवन्तः । परीक्षणौषधम् फलप्रदम्।
भारतेन पुनरपि अग्नि -४ नाम क्षेपणास्त्रं विजयरूपेण परीक्षितम्।
'फ्रञ्च् ओपण् टेन्निस्' - पुरुषकिरीटं राफेल नदालेन प्राप्तं; महिलाकिरीटं इगा स्वियाटेक् इत्यनया च।
पारीस्> फ्रञ्च् ओपण् नामके टेन्निस् खेलने पुरुषाणाम् एकलस्पर्धायाः अन्तिमचक्रे स्पेयिन् देशीयः रफेल् नडालः किरीटं प्राप्तवान्। नोर्वे राष्ट्रस्य कास्पर् रूड् इत्येनं [६-३, ६-३, ६-०] इति क्रमेण नडालः अभिभूतवान्। तस्य १४तमं फ्रञ्च् ओपण् किरीटं भवत्येतत्। २२ तमः 'ग्रान्ड् स्लां' लाभश्च।
महिलानां फ्रञ्च् ओपण् प्रतियोगितायां पोलण्ट् देशीया इगा स्विया टेक् नामिका अमेरिक्कायाः कोको गाफ् इत्येनां [६-१, ६-३] इति क्रमेण पराजितवती। २१ वयस्का इगा द्वितीयवारमेव फ्रञ्च् ओपण् विजितवती।
काश्मीरि पण्डितविभागानां कृते सविशेषसुरक्षा दास्यते।
नवदिल्ली> जम्मु-काश्मीरे 'पण्डित'नामकविभागे अन्तर्भूताः जनाः निरन्तरं भीकराक्रमणविधेयाः भवन्ति इत्यतः तेषां कृते सविशेषसुरक्षां दास्यति। गृहमन्त्रिणः अमितषाहस्य नेतृत्वे सम्पन्ने उच्चस्तरीयोपवेशने आसीदयं निर्णयः। भीकराक्रमणं प्रतिरोद्धुं कर्कशप्रक्रमान् अवलम्बितुमपि निर्णीतम्।
अमर्नाथतीर्थाटनं प्रति भीकराक्रमणसाध्यता वर्तते इत्यतः सुरक्षाशक्तीकरणाय गुप्तचरविभागविन्यासाय अपि निर्णयः कृतः। उपवेशने राष्ट्रियसुरक्षाउपदेष्टा अजित् डोवलः, स्थलसेनाधिकारी जन. मनोज् पाण्डे, जम्मु-काश्मीरस्य लफ्टनन्ट् राज्यपालः मनोज सिंहः इत्यादयः भागं स्वीकृतवन्तः।
विधानसभा उपनिर्वाचनानि - उत्तरखण्डे मुख्यमन्त्री विजयीभूतः।
अन्यस्मिन् स्थानद्वये वर्तितदलश्च।
नवदिल्ली> राष्ट्रे गते ३१तमे दिनाङ्के सम्पन्नानां त्रयाणां विधानसभाउपनिर्नाचनानां मतगणनाफलं प्रख्यापितम्। उत्तराखण्डस्य चम्पावत विधानसभामण्डले सम्पन्ने उपनिर्वाचने मुख्यमन्त्री पुष्करसिंहधामी विजयीभूतः।
कृतेषु मतदानेषु ९२.९४% संलभ्य एव सः मुख्यमन्त्रिपदं दृढीकृतवान्। मुख्यप्रतियोगी कोण्ग्रस्दलस्य निर्मला गह्तोरी इत्येनमपेक्ष्य ५५,००० मतदानानि धामिने अधिकतया लब्धानि। विगते विधानसभानिर्वाचने भा ज पी दलाय शासनाधिकारः पुनर्लब्धोSपि खातिमामण्दडले स्पर्धितः भाजपादलस्य मुख्यमन्त्रिस्थानाशी धामी पराजितः आसन्। किन्तु धामी एव मुख्यमन्त्रिरूपेण दलेन नियुक्तः। ततः मुख्यमन्त्रिणः स्पर्धायै भाजपादलप्रतिनिधी विधानसभाङ्गः कैलाष चन्द्र गह्तोरी स्वस्थानं परित्यक्तवान्। तत्रैव धामी उज्वलविजयं प्राप्तवान्।
अन्ययोः मण्डलयोः वर्तितस्य राजनैतिकदलस्य प्रतिनिधिः एव विजितः। ओडीषायां ब्रजराजनगरविधानसभामण्डले प्रशासनदलस्य बिजु जनता दलस्य अलक मोहन्ती विजयीभूतः। तथा च केरले तृक्काक्कर मण्डले कोण्ग्रस् दलस्य स्थानाशिनी उमातोमसः उज्वलविजयेन स्वदलस्य मण्डलं सुरक्षितमकरोत्।
हिमालयस्य उपत्यकायां संभूता पुष्पवाटिका यात्रिकाणां कृते उद्घाटिता।
तुर्कीराष्ट्रं नूतनं नाम स्वीकृतम्; संयुक्तराष्ट्रसंख्येन अङ्गीकृतम्।
केरलराज्ये कोविड्-प्रकरणेषु महती वृद्धिः;
तिरुवनन्तपुरम्> अद्यत्वे ११६१ जनाः अस्मिन् रोगेण पीडिताः सन्ति। एर्णाकुलम् जनपदे भवन्ति अधिके रोगिणः। प्रायः ३६५ जनाः अद्य रोगबाधिताः सन्ति। द्वौ मृतौ। अन्येषु जनपदेषु अपि कोविड् प्रकरणाः वर्धमानाः सन्ति। सम्प्रति देशे सर्वत्र १७८८३ कोविड्-रोगिणः चिकित्सां स्वीकुर्वन्ति। रोगबाघितेषु केवलं ०.०४% एव चिकित्सा स्वीक्रियन्ते। विगत२४ होरासु २१३४ जनाः स्वस्थतां प्राप्तवन्तः। एतेन रोगान्मुक्तानां संख्या ४२६१५५७४ अभवत्। अनेन रोगमुक्तिमानः प्रतिशतं ९८.७४ भवति। विगत २४ होरासु २३३८ नूतनाः प्रकरणानि प्राप्तानि। दैनिकं रोगव्यापनमानः प्रतिशतं ०.६४ इति भवति। साप्ताहिकं रोगव्यापनमानं प्रतिशतं ०.६१ इत्यपि भवति। केन्द्रसर्वकारस्य गणनानुसारम् इतः पर्यन्तं ८५.०४ कोटिः कोविड् परीक्षाः कृताः, विगत २४ होरासु ३६३८८३ परीक्षणानि कृतानि च।
अतिवृष्टिदुष्प्रभावेन असमे चत्वारः अपि मृताः।
असमदेशे विगत-चतुर्विंशतिहोरासु चत्वारः अपि मृताः अभवन्। नवगांव एवं चाचर प्रदेशयोः च चत्वारः मृताः। एतावता जलप्रलयेन ३६ जनाः मृताः इति असमराज्यस्य दुरन्तनिवारणायोगेन निगदितम्। नवगांवमण्डलं जलप्रलयेन सर्वाधिकं क्षतिग्रस्तम् आसीत्। नवगाव मण्डले ३.४६ लक्षं जनाः प्रलयबाधिताः सन्ति।
असमस्य अनेकेषु भागेषु अद्यापि पृथक् वृष्टिः प्रचलति। राज्ये ५०० संख्याधिकानि दुरिताश्वासशिबिराणि स्थापितानि सन्ति। सम्प्रति शिबिरेषु प्रायः एकलक्षं जनाः निवसन्ति।
उग्रप्रहरक्षमतायुक्तानां सैनिकोपकरणानां विदेशविक्रयणाय अनुमतिं दातुं जप्पान् सर्वकारः निरनोत्।
नवदिल्ली> भारतसहितं १२ देशेभ्यः क्षेपणास्त्रसहितं घातकशस्त्राणां विदेशविक्रयणं कर्तुं जप्पानः सज्जते। अग्निबाणादि उगप्रहरक्षमतायुक्तानि सैनिकोपकरणानि प्रतिरोधशस्त्रनिर्माणमण्डले भारतजप्पानयोः मिथः बन्धं दृढीकर्तुं प्रभवति। सैनिकोपकरणानां विदेशविक्रयणम् अनुबन्ध्य २०२३ मार्च् मासादारभ्य नियन्त्रणानि लघूकरिष्यति इति जप्पानस्य माध्यमेन निक्किना प्रतिवेदितम्।
अमेरिक्कायां विद्यालये १८ वयस्केन कृते भुषुण्डिप्रहारे २१ अपमृत्यवः।
हूस्टण्> अमेरिक्कायां टेक्सस् राज्ये युवाल्डिस्थाने 'रोब् एलिमेन्टरि' विद्यालये केनचन १८ वयस्केन कृते भुषुण्डिप्रहारे १९ छात्राः द्वावध्यापकौ च हताः। घातक इति सन्दिग्धः साल्वदोर् रामोस् नामकं युवकं आरक्षिसंघः गोलिकाप्रहारेण जघान। १० संवत्सराभ्यन्तरे अमेरिक्काराष्ट्रे दुरापन्नः महत्तमः भुषुण्डिप्रहारः एषः। ७ - १० वयस्काः बालका एव हताः।
हत्याप्रकरणे राष्ट्रपतिः जो बैडनः अत्यन्तवैकारिकतया दःखं प्रतिषेधं च प्रकाशितवान्।
राजनैतिकक्षेत्रे महिलाप्रातिनिध्यं न्यूनं - राष्ट्रपतिः।
अनन्तपुरी> राजनैतिकमण्डले महिलानां कृते तासां सामर्थ्यानुसारं स्थानं न लभते इति राष्ट्रपतिः रामनाथकोविन्दः प्रास्तूयत्। केरलविधानसभया आयोजिते भारतस्य महिलासामाजिकानां राष्ट्रियसम्मेलनम् उद्घाटनं कुर्वन् भाषमाणः आसीत् राष्ट्रपतिः।
"राजनैतिकक्षेत्रे महिलानां पश्चाद्गमनत्वं लोके सर्वत्र दृश्यते। मनोभावस्य परिवर्तनमेव परिहारः।" - राष्ट्रपतिना उक्तम्।
भारतस्वातन्त्र्यस्य ७५ तमसंवत्सराोत्सवः 'आसादी का अमृतमहोत्सव' इत्यस्य अंशतया सम्पद्यमाने अस्मिन् सम्मेलने महिलाः लोकसभा-विधानसभासामाजिकाः भागं कुर्वन्ति। अद्य सम्पत्स्यमानं समापनसम्मेलनं लोकसभाध्यक्षः ओं बिर्लावर्यः करिष्यति।
महिलानां स्वतन्त्र्यं मा ध्वंसयतु । सङ्कल्पान् परिवर्तयन्तु - तालिबानं प्रति यु एन्।
श्रीलङ्कायाम् आर्थिकमन्त्री प्रधानमन्त्री एव।
कोलम्बो> राष्ट्रस्य वित्तमन्त्रिरूपेण प्रधानमन्त्री रनिल् विक्रमसिंगे राष्ट्रपतिना गोताबय राजपक्से वर्येण नियुक्तः। अन्येषु सर्वेषु विभागेषु मन्त्रिषु नियुक्तेष्वपि वित्तमन्त्रिस्थाने अनिश्चितत्वं वर्तितमासीत्। ह्यः एव वित्तविभागः प्रधानमन्त्रिणा एव बिभर्तु इति राष्ट्रपतिः निर्णयमकरोत्।
क्वाड् उच्चशिखरमेलनमध्ये जप्पानस्य आकाशोपरि रष्यस्य चीनस्य च विमानानि ।
डोक्यो> क्वाड् राष्ट्रनेतृणां मेलनमध्ये स्वव्योमसीमायाः समीपे चीनेन रष्येण च संयोज्य विमानोड्डयनं कृतमिति कारणेन जप्पानस्य प्रतिरोधमन्त्रिणा नोबुवो किषिणा खेदः प्रकटितः । चीनस्य रष्यस्य च प्रवृत्ततिं न्यायीकर्तुं न शक्यते इति तेन प्रोक्तम्। क्वाड् राष्ट्राणां अमेरिक्का, इन्ड्या, ओस्ट्रेलिया, तथा जप्पानस्य च राष्ट्रनेतारःप्रादेशिक सुरक्षामधिकृत्य परस्परं चर्चिते सन्दर्भे एव विमानानि जप्पानस्य व्योमसीम्नि प्रविष्टानि।
'क्वाड्' शिखरसम्मेलनम् अद्य।
नवदिल्ली> Quadrilateral Security Dialogue (QUAD) इति कृतनामधेयस्य भारत-अमेरिक्का-आस्त्रेलिया-जापानराष्ट्राणां संघस्य तृतीयं शिखरसम्मेलनम् अद्य टोकियो नगरे समपद्यते। रूस्-युक्रेनयुद्धः, भारत-पसफिक् क्षेत्रे जाताः समस्याः, कोविड् व्यापनं प्रतिरोधश्च इत्यादयः विषयाः सम्मेलने चर्चाविधेयाः भविष्यन्ति।
शिखरसम्मेलनमध्ये भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अमेरिक्कायाः राष्ट्रपतिः जो बैडनः, जापानीयप्रधानमन्त्री फुमियो किषिदः, आस्ट्रेलियायाः नूतनः प्रधानमन्त्री आन्टणी अल्बनीसः इत्येभिः सह उभयराष्ट्र चर्चां करिष्यति।
मूल्यातिवर्धनं तीव्रं - सामान्यजनाः महासङ्कटे।
कोच्ची> साप्ताहिकं यावत् केरले जनाः भोज्यवस्तूनां नित्योपयोगवस्तूनां च मूल्यातिवर्धने महान्तं क्लेशमनुभवन्ति। इन्धनमूल्यातिवर्धनस्य कारणतः राष्ट्रे सञ्जातस्य द्रव्यातिवर्धनस्य परिणितफलमिति आर्थिककुशलाः अभिप्रयन्ति।
केरलेषु सर्वत्र शाकादीनां मूल्यमनुदिनं वर्धते। मासैकस्मात् पूर्वं शतरूप्यकैः पञ्चकिलोपरिमितं रक्तफलं लब्धमासीत्। किन्तु इदानीं एककिलोपरिमिताय रक्तफलाय १०० - १२० रूप्यकाणि दातव्यानि। तथा च अन्येषां शाकानामपि २० % - ३० % मूल्यवर्धनमभवत्। तण्डुलस्यापि मूल्यं अष्टरूप्यकपर्यन्तं किलोपरिमिताय वर्धितम्।
जनानां सङ्कटपरिहाराय सर्वकारस्य पदक्षेपः अत्यन्तापेक्षित इति बहुभिः संघटनैः आवेदितम्।
वानरज्वरः - द्वादशराष्ट्रेषु यावत् शताधिकप्रकरणानि प्रतिवेदितानि।
जनीव> विश्वराष्ट्राणां मध्ये आशङ्कां जनयन् वानरज्वरव्यापनं विविधराष्ट्रेषु अनुवर्तते । कोविड्व्यापनं विविधराष्ट्रेषु अनुवर्तमाने सन्दर्भे अस्मिन् वानरज्वरस्य व्यापनम् आशङ्कां जनयन् अस्ति। मेय् मासस्य एकविंशतितमदिनाङ्कपर्यन्तां औद्योगिकगणनामनुसृत्य द्वादशराष्ट्रेभ्यः द्विनवति प्रकरणानि प्रतिवेदितानि। तानि प्रकरणानि अतिरिच्य २८ जनाः वानरज्वरस्य लक्षणानि प्रकटयन्तः सन्ति । कोविड् व्यापनम् अनुवर्तमानेभ्यः द्वादशराष्ट्रेभ्य: एव विश्वस्वास्थ्यसंस्थायाः प्रतिवेदनानि लब्धानि। वानरज्वरबाधया मरणानि इतःपर्यन्तं न प्रतिवेदितानि ।
प्रधानमन्त्री नरेन्द्रमोदी 'क्वाड्' नेतृतलसम्मेलने सहभागित्वं कर्तुं जप्पानं प्रति प्रस्थितवान्।
नवदिल्ली> क्वाड् नेतृत्वतलसम्मेलने सहभागित्वं कर्तुं प्रधानमन्त्री नरेन्द्रमोदी जप्पानं प्रति प्रस्थितवान्। जप्पानस्य प्रधानमन्त्रिणः फुमियो किषिदस्य निमन्त्रणं अनुसृत्यैव प्रधानमन्त्री नरेन्द्रमोदी जाप्पानं प्रति प्रस्थितवान्। भारतं, अमेरिक्का, जप्पानः तथा ओस्ट्रेलियाराष्ट्रः च क्वाड् सख्ये अन्तर्भवन्ति। क्वाड् योगः अद्य डोक्यो मध्ये समारप्स्यते। चतुर्विंशतिहोरापर्यन्तम् आयोज्यमाने दिनद्वयात्मके कार्यक्रमे विविधेषु त्रयोविंशति कार्यक्रमेषु सः भागं स्वीकरिष्यति। क्वाड् नेतृत्वतलयोगाभ्यन्तरे प्रधानमन्त्री नरेन्द्रमोदी अमेरिक्कायाः राष्ट्रपतिना जो बैडनेन सह मेलनं भविष्यति।
सौदि अरेब्याराष्ट्रेषु इदानीं वानरज्वरः न प्रमाणीकृतः इति स्वास्थ्यमन्त्रालयः।
विविधराष्ट्रेषु प्रसृतः वानरज्वरः इतःपर्यन्तं सौदि अरेब्याराष्ट्रेषु न प्रमणीकृतः इति स्वास्थ्यमन्त्रालयेन आवेदितम्। यूरोप्प् राष्ट्रे तथा अमेरिक्का राष्ट्रे च वानरज्वरः प्रतिवेदितः अस्ति। तदनुसृत्य विश्वस्वास्थ्यसंस्थायाः नेतृत्वे सौदि अरेब्याराष्ट्रेषु निरीक्षणं प्रबलम् अकरोत् । रोगबाधितराष्ट्रेषु गच्छद्भिः सन्दर्शकैः स्वास्थ्यमानदण्डाः पालनीयाः।
श्रीलङ्कायां नव मन्त्रिणः अपि नियुक्ताः; किन्तु वित्तमन्त्री नास्ति।
कोलम्बो> श्रीलङ्कायां मन्त्रिमण्डले स्वास्थ्य-शैक्षिक-विनोदसञ्चारादिषु विभागेषु नूतनाः नव मन्त्रिणः अपि राष्ट्रपतिना गोताबय राजपक्से इत्यनेन नियुक्ताः। किन्तु सुप्रधाने वित्तविभागे मन्त्री न नियुक्तः।
मासान् यावत् राजनैतिकानिश्चितत्वे आर्थिकसङ्कटे च पतितमस्ति राष्ट्रम्। मेय् नवमदिनाङ्के प्रधानमन्त्री महिन्द राजपक्से इत्यस्य स्थानत्यागेन मन्त्रिमण्डलमसाधुः अभवत्। ततः रनिल् विक्रमसिंगे प्रधानमन्त्रिपदे नियुक्तः। गतवासरे चत्वारः मन्त्रिणः अपि नियुक्ताः। तान् विना एव नव मन्त्रिणः अपि अधिकतया नियुक्ताः। तेषु द्वौ विमतपक्षीयौ अपि स्तः।
महाराष्ट्रे विधवासम्बन्धिनः दुराचाराः तिरस्क्रियन्ते।
मुम्बई> राज्ये विधवासम्बन्धिनः दुराचारान् तिरस्कृत्य सर्वकारः शासनं ज्ञापितवान्। ग्रामविकासमन्त्रिणा हसन् मुषिरिफ् वर्येण वृत्तान्तोSयं निगदितः।
यदा भर्तुः मृतदेहसंस्कारक्रियाः आरभन्ते ततः पूर्वं पत्न्याः सीमन्तसिन्दूरनिर्मार्जनं, स्फटिककङ्कणानां भञ्जनं, परिणयसूत्रखण्डनमित्याद्याः दुराचाराः राज्ये बहुषु स्थानेषु इदानीमपि वर्तन्ते। किञ्च विधवाः मङ्गलकर्मभ्यः निवार्यन्ते च। मानवाधिकारलङ्घनपराः एतादृशाः आचाराः महिलानामात्माभिमानवेधाः इति मन्त्रिणा उक्तम्।
कोलाप्पूरस्थे मन्गावग्रामे तथा हेर्वादग्रामे च एतादृशानां स्त्रीविरुद्धानां दुराचाराणां निरोधः कृतः आसीत्। ततः प्रचोदितेनैव सर्वकारस्य अयं निर्णयः।
राजीवगान्धिहत्यापराधी पेररिवालः मोचितः।
नवदिल्ली> भारतस्य भूतपूर्वप्रधानमन्त्रिणः राजीवगान्धिनः हत्याप्रकरणे जीवपर्यन्तकारागृहवासाय दण्डितः ए जि पेररिवालः ३१ संवत्सराणां कारागृहवासानन्तरं सर्वोच्चन्यायालयस्य आदेशेन विमोचितः। सम्पूर्णनीतिं दृढीकर्तुं सर्वोच्चन्यायालयस्य सविशेषमधिकारं - प्रशासनसंविधानस्य १४२ तमम् अनुच्छेदम् - उपयुज्य एव न्याया. एस् नागेश्वररावस्य अध्यक्षतायाम् अङ्गत्रयात्मकनीतिपीठेन अयं निर्णयः स्वीकृतः।
राजीवगान्धिनः हत्याप्रकरणे षष्ठः अपराधी आसीत् पेररिवालः। १९९१ तमे वर्षे तमिळनाडस्थे श्रीपेरुम्पुत्तूरे एल् टि टि ई नामकेन संघेन कृते बोम्बस्फोटने आसीत् राजीवगान्धी हतः। स्फोटके उपयुक्तः विद्युत्कोशः १९वयस्केन पेररिवालेन आनीतमित्यासीत् तस्योपरि आरोपितः अपराधः। किन्तु विद्युत्कोशः किमर्थमिति तदानीं तेन अज्ञातमासीदिति प्रकरणान्वेषकेषु अन्यतमेन सि बी ऐ अधिकारिणा ज्ञापितम्। ततः प्रभृति पेररिवालस्य विमोचनाय तस्य माता अर्पुतम्माल् तथा अन्ये मानवाधिकारप्रवर्तकाः च अक्षीणं प्रयत्नं कुर्वन्तः आसन्।
पेररिवालं मोचयितुं तमिलनाट्सर्वकारस्य आवेदनं राज्यपालेन अकारणेन विलम्बायितमित्येतदपि सर्वोच्चन्यायालयस्य प्रक्रमस्य कारणमभवत्। किन्तु कोण्ग्रस् दलेन पेररिवालस्य मोचने प्रतिषेधः प्राकट्यत।
चीनेन भारतस्य सीमनि सेतुः निर्मीयते। घटना निरीक्षते इति भारतम्।
मरियापोल् नगरं युक्रैनस्य नियन्त्रणात् अपभ्रष्टम्।
कीव्> ८२ दिनानां युद्धस्य अन्ते मरियापोल् नगरं युक्रैनात् रूस् अधिनिवेशनेन बलादपहृतम्। नगरस्थे 'अस्टोवस्टाल्' अयोनिर्माणकेन्द्रे युक्रेनेन कृतः प्रतिरोधः समापितः।
तीव्ररीत्या व्रणिताः ५३ युक्रेनभटाः रष्यायाः नियन्त्रणे वर्तमाने नावो असोविस्क् नगरस्थे आतुरालये प्रवेशिताः। अवशिष्टान् द्विशताधिकान् सैनिकान् मानवीयमार्गेण ओलेनिव्कानामकं ग्रामं प्रापयिष्यतीति युक्रेनस्य रक्षासहमन्त्रिणा हन्ना मालियार् इत्यनेनोक्तम्। सैनिकानां प्राणरक्षणमेव प्रधानमिति राष्ट्रपतिः व्लादिमिर् सेलन्स्की अवोचत्।
शिलातैलापणस्य पुरतः पङ्क्तिबद्धतायाः आवश्यकता नास्ति। श्रीलङ्का-सर्वकारः।
नवीदिल्ली> श्रीलङ्का-सर्वकारेण उक्तं यत् देशे पेट्रोल् न प्राप्यते, जनाः शिलातैलापणस्य-पुरतः पङ्क्तिं न स्थापयन्तु। श्रीलङ्कादेशस्य सर्वकारेण उक्तं यत् पेट्रोलस्य क्रयणार्थं पर्याप्तं विदेशीयविनिजं नास्ति। देशे डीज़लस्य भण्डारः अस्ति। परन्तु अवशिष्टं पेट्रोल् आम्बुलेन्स् यानेन सहितम् आवश्यकसेवानां कृते निर्धारितम् इति अधिकारिणः अवदन्।
तटे शिलातैलसंभृतं महानौका अस्ति। परन्तु ऊर्जामन्त्री कञ्चना विजेसेकेरा सभां प्रति अवदत् यत् तस्य क्रयणार्थं आवश्यकं विदेशीयविनिमयं तस्य समीपे नास्ति।
अद्य वा श्वः वा महानौकायाः तैलविषये निर्णयं कर्तुं शक्यते इत्यपि तेनोक्तम्।