भारतीयज्ञानपरम्परायाः समृद्धिं, प्रासङ्गिकतां, चिरन्तनसांस्कृतिकमहत्त्वं च प्रकाशयति सप्तदिवसीयः संस्कृत-महोत्सवः
केन्द्रीयसंस्कृतविश्वविद्या
भारतीयज्ञानपरम्परायाः समृद्धिं, प्रासङ्गिकतां, चिरन्तनसांस्कृतिकमहत्त्वं च प्रकाशयति सप्तदिवसीयः संस्कृत-महोत्सवः
केन्द्रीयसंस्कृतविश्वविद्या
दक्षिणप्रान्तीयराज्यानां मेलनं सम्पन्नम्।
मुल्लप्पेरियार् - नूतनः जलबन्धः आवश्यक इति केरलम्। 
दक्षिणप्रान्तीयराज्यानां मेलने तमिलनाटमुख्यमन्त्रिणा विजय जोसफेन सह केरलमुख्यमन्त्री वि डि सतीशः, उद्योगमन्त्री पि के कुञ्ञालिकुट्टी च सौहृदभाषणे।
चेन्नै> दक्षिणप्रान्तीयराज्यानां समितेः ३१ तममुपवेशनं तमिलनाटे चेन्नैनगरे सम्पन्नम्। केन्द्रगृहमन्त्री अमित शाहस्य आध्यक्षे आयोजिते उपवेशने केरलं, तमिलनाट्, कर्णाटकम्, आन्ध्रप्रदेशः इत्येतेषां राज्यानां मुख्यमन्त्रिणः, तेलङ्कानस्य उपमुख्यमन्त्री, पुदुच्चेरी तथा अन्तमान् निकोबार् केन्द्रशासनप्रदेशयोः लफ्टनन्ट् पदीयौ राज्यपालौ, लक्षद्वीपात् प्रदेशशासकश्च भागं गृहीतवन्तः।
नदीजलोपयोगविषये उद्भूताः तर्कवितर्काः परस्परचर्चया परिहर्तव्याः इति अमित शाह वर्येण निर्दिष्टम्। ब्रह्मपुत्रः, गोदावरी, कावेरी इत्यादीनां महानदीनां संयोजनेन आगामिशतवर्षाणि यावत् राष्ट्रे जलदौर्लभ्यं न भवेदिति च तेन प्रोक्तम्।
मुल्लप्पेरियारे नूतनजलबन्धः आवश्यकः।
केरले मुल्लप्पेरियार् नद्यां वर्तमानस्य जलबन्धस्य स्थाने नूतनः जलबन्धः आवश्यकः इति केरलराज्येन निर्दिष्टम्। जलबन्धस्य स्थानं, रूपकल्पनम् इत्यादिकं तमिलनाटेन निर्णीयतामिति च केरलाय मुख्यमन्त्रिणा वि डि सतीशेन प्रोक्तम्। नूतनजलबन्धस्य निर्माणव्ययः सर्वः केरलेनैव वोढुं सन्नद्धमिति च तेनोक्तम्। किन्तु वर्तमानीने जलबन्धे जलतलस्य उन्नतिः १५२ पादमितेन वर्धयितव्य इति दढमते अस्ति तमिलनाटः।
नेहरू ट्रोफी नौकाकेलिः श्वः मध्याह्ने द्विवादने भविष्यति।
आलप्पुषा> द्विसप्ततितमस्य नेहरू ट्रोफी नौकाकेल्याः उद्घाटनम् श्वः शनिवासरे मध्याह्ने द्विवादने केरलस्य मुख्यमन्त्री श्री वि डि सतीशः निर्वत्स्यति। उद्घाटनानन्तरं भागं गृह्णतां नौकानां सामूहिकसञ्चलनम् (mass drill) भविष्यति। तदनन्तरं सर्पनौकानाम् (snake boats) प्रारम्भिकस्पर्धाः, अन्तिमस्पर्धा च भविष्यतः। २२ सर्पनौकाः आहत्य एकसप्तति नौकाः स्पर्धायां भागं स्वीकरिष्यन्ति। प्रातःकाले नववादनादारम्य नगरे गतागतनियन्त्रणमपि आयोजितमस्ति।
'नीट्' प्रतिषेधे संघर्षः।
अन्वेषणाय सर्वोच्चन्यायालयस्य समितिः।
न्यायाधीशः सुभाष रेड्डिः पञ्चसदस्योपेतसमित्याः अध्यक्षः।
नवदिल्ली> नीट् [NEET]प्रश्नपत्रचोरणं विरुध्य दिल्ल्यां तथा राष्ट्रस्य विभिन्नस्थानेषु सम्पन्नेषु प्रतिषेधेषु जातान् संघर्षान् अधिकृत्य अन्वेष्टुं पञ्चसदस्योपेतसमितिः
सर्वोच्चन्यायालयेन नियुक्ता।सर्वोच्चन्यायालयस्य भूतपूर्वः
न्यायाधीशः सुभाष रेड्डिः समित्याः अध्यक्षः भविष्यति।
अभियाचकैः उन्नीताः आरक्षकभटानाम् अतिक्रमः, दण्डप्रयोगादिकप्रक्रमाः, सर्वकारीयपक्षतः उन्नीतानि पुलीसदलं विरुध्य प्रक्षोभकैः कृतमाक्रमणं, वाहनानां विनाशनं, इतराणि आरोपणानि च समित्याः अन्वेषणपरिधौ सन्ति।
आपद्बान्धवः केरलराज्यपालः।
गात्रसीदनात् पतिताय यात्रिकाय आर्लेकरवर्यस्य परिचर्या।
मार्गे समक्षं सीदनात् पतितं यात्रिकं साहाय्यमाचरन् राज्यपालः राजेन्द्र आर्लेकरः।
अनन्तपुरी> लोकभवनस्य पुरतः गात्रसीदनात् भूमौ पतिताय यात्रिकाय १५ निमेषान् यावत् परिचरणादिकं साहाय्यं दत्वा केरलस्य राज्यपालः राजेन्द्र आर्लेकरः आपद्बान्धवः अभवत्।
राज्यपालः कार् यानेन लोकभवनात् बहिः गच्छन्नासीत्। तदा वेल्लयम्पलं निवासी गिरीशः लोकभवनस्य पुरतः पतन्निति दृष्ट्वा यानं स्थगयित्वा बहिरवतीर्य गिरीशस्य समीपं प्राप्तवान्। तस्मै आवश्यकं साहाय्यं दातुं स्वसेवकान् निरदिशत्। गिरीशस्य दूरवाणीतः तस्य परिवारमाहूय वृत्तान्तं न्यवेदयच्च। किन्तु परिवारस्य विदूरवर्तित्वात् गिरीशम् आतुरालयं प्रवेशयितुं व्यवस्थां कृतवान्। १५ निमेषान् यावत् तस्य समीपम् स्थित्वा आर्लेकरवर्यः परिचरणादिकं कृतवान्। आतुरालयं प्रविष्टस्य तस्य स्वास्थ्यं समीचीनं वर्तते।
Latest newsLatest news
भारत-श्रीलङ्कानिकषः।
प्रथमस्पर्धायां भारतस्य विजयः।
देवदत्त पटिकल् , मानव सुतरः च।
गोल्> स्पर्धाद्वयोपेते क्रिकट् निकषे प्रथमस्पर्धायां भारतस्य १६५ धावनाङ्कानां विजयः। ३७२ धावनाङ्कानां विजयलक्ष्येण द्वितीयप्रकरणे क्रीडामारब्धा श्रीलङ्का २०६ धावनाङ्कैः सर्वे बहिर्गताः। अनेन भारतं १-० इति रीत्या अग्रे तिष्ठति।
प्राप्ताङ्कसूचिका - भारतं ४६२,१९३। श्रीलङ्का २८४, २०६।
प्रथमप्रकरणे शतकं (१६७), द्वितीयप्रकरणे ४४ धावनाङ्कान् च प्राप्तवान् देवदत्त पटिकल् इत्येषः श्रेष्ठक्रीडकोSभवत्। राजस्थाननिवासी मानव सुतरः ५५ धावनाङ्कैः ६ द्वारकाणि सम्प्राप्तवान्।
केरलम्।
विष़िञ्ञं नौकाश्रयेण निर्यातायाताः समारब्धाः।
राज्यस्य विशिष्टकालं प्रति पदक्षेपः इति मुख्यमन्त्री।
एक्सिम् दौत्यं मुख्यमन्त्री वी डी सतीशः ध्वजप्रदर्शनेन उद्घाटयति।
अनन्तपुरी> राज्यस्य आर्थिकाभिवृद्धये राष्ट्रस्य समग्रविकासाय च नूतनाध्यायं विरचयन् विष़िञ्ञम् अन्ताराष्ट्रनौकाश्रयेण सम्पूर्णनिर्यातायातप्रवर्तनानि [EXIM - Export & Import] समारब्धानि। प्रथमं निर्यातस्य समुद्रवहनभाण्डस्य (Container) प्रस्थानं मुख्यमन्त्री वि डि सतीशः ध्वजप्रदर्शनेन उद्घाटनमकरोत्।
राज्यस्य आर्थिकाभिवृद्धये विशिष्टकालस्य प्रारम्भ इति उद्घाटनकार्यक्रमे मुख्यमन्त्रिणा प्रोक्तम्। भौगोलिकव्यापारमार्गान् ऋजुरूपेण सम्बद्ध्यमानम् अन्ताराष्ट्रकवाटरूपेण अयं नौकाश्रयः परिणमिष्यते इति सः प्रतीक्षां प्रकटयामास।
विष़िञ्ञम् अन्ताराष्ट्रनौकाश्रयेण विभिन्नान् भूखण्डान् प्रति मातृमहानौकया एव पण्यवस्तूनाम् उपसंक्रमणं साध्यमस्ति। अनेन यातायायव्ययः न्यूनीकर्तुं शक्यते। विश्वस्मिन् ११० नौकाश्रयान् प्रति केरलस्य उत्पन्नानि ऋजुरूपेण अतिशीघ्रं नीतुं शक्यते।
होर्मुस् संघर्षः अनुवर्तते - तैलेन्धनमूल्यं वर्धते।
पश्चिमेष्यायां संजातस्य संघर्षस्य पृष्ठभूमौ होर्मुस्-समुद्रसंयोजक-मार्गेण यातायातस्य अनिश्चितता निरन्तरं वर्तते। इरानेन सह किमपि वार्तालापं न करिष्यामः इति अमेरिक-राष्ट्रस्य अध्यक्षः डोनाल्द् ट्रम्पः अवदत्। किन्तु होर्मुस्-मार्गस्य पुनरुद्धाटनाय अमेरिकेन आर्थिक-प्रतिबन्धाः समापनीयाः इति इरानस्य अभिमतम् अस्ति। होर्मुस्-क्षेत्रे संकटस्य वर्धनेन वैश्विक-खनिजतैलस्य मूल्यं वर्धते। ‘ब्रेण्ट् क्रूद्’ तैलस्य मूल्यं प्रतिबारल् ९१ डालर्-मुद्राः अतिक्रान्तवत्। गल्फ-क्षेत्राद् बहिः स्थितेषु सुरक्षितेषु स्थानेषु तैलस्य सञ्चयं वर्धयितुं साऊदी-अरब्-संयुक्त-अरब्-अमीरात्-देशौ प्रयतेते। जापान-देशे वर्तमानः तैलसङ्ग्रहः दशगुणेन वर्धयितुं कार्यम् आरब्धम्। एतस्मिन्नेव समये, होर्मुस्-समुद्रसंयोजकं पुनः उद्घाटयितुम् अमेरिक-ओमान-देशौ इरानेन सह पृथक्-पृथक् विचारविमर्शं कुरुतः।
अर्जुनपुरस्काराः उद्घोषिताः। 
अर्जुनपुरस्कारार्हेषु ट्रीसा जोली, गायत्री गोपीचन्दः, दिव्या देशमुखः।
नव दिल्ली> राष्ट्रस्य वैभवसम्पन्नानां कायिकताराणां कृते दीयमानः अर्जुनपुरस्कारः उद्घोषितः। १७ कायिकप्रतिभाः पुरस्काराय अर्हाः जाताः। कायिकमण्डलस्य परमोच्चपुरस्कारः 'ध्यान् चन्द् खेल्रत्न' पुरस्कारः न प्रख्यापितः। २०२५ तमवर्षस्य पुरस्कार एवोद्घोषितः।
तेजश्विन् शङ्करः, प्रियङ्का गोस्वामी [उभौ अत्लटिक्स्], गायत्री गोपीचन्दः, ट्रीसा जोली [उभौ बाड्मिन्टण्], नरेन्द्रः [मुष्टियुद्धं], विदित् गुजराती, दिव्या देशमुखः [चतुरङ्गः], धनुष् श्रीकान्तः [डफ् षूटिंग्], लाल् रसियामी, राजकुमार पाल् [होकी], सुर्जीत्, पूजा [कबडी], रूद्रान्ष् खन्डे वाल् [पारा षूटिंग्], एक्त ब्यान् [पारा अत्लटिक्स्], अरविन्द सिंहः [रोविंग्], अखिल षेवोरान् [षूटिंग्] इत्येते अर्जुनपुरस्कारार्हाः।
यू जि सि नेट् पुनःपरीक्षा।
सार्धमासं गूढक्रीडा।
नव दिल्ली> यू जि सि संस्थायाः देशीय योग्यता परीक्षायां (नेट् NET) त्रिषु विषयेषु गुरुतरदोषाः सन्तीति आक्षेपः परीक्षासमाप्तिसन्दर्भे एव परीक्षार्थिभिः सूचितः आसीत्। किन्तु स्वकीयदोषान् अङ्गीकर्तुम् एन् टि ए संस्थायाः सार्धमासस्य कालः आवश्यकमभवत्। प्रारम्भदशायां स्वकीयदोषान् अवगणितवती एन् टि ए संस्था विमर्शने प्रक्षोभे च शक्ते सति प्राज्ञसमितिं रूपीकृत्य अन्वेषणाय निर्बद्धा जाता। ततः आंगल-कोमेर्से-सोष्योलजी विषयेषु पुनःपरीक्षा निर्दिष्टा।
प्रश्नपत्रस्रवणात् नीट्-यू जी पुनःपरीक्षा सञ्चालनस्य लज्जाकरावस्थायां नेट् परीक्षादोषारोपः एन् टि ए संस्थाम् इतोSपि सङ्कीर्णताम् अनयच्च।
सेप्टम्बरमासे नवम दशमदिन्ङ्कद्वये एव पुनःपरीक्षा निर्णीता।
द्वौ एयर् इन्डिया वैमानिकावपि मादकवस्तुशोधनायां पराजितौ।
नव दिल्ली> एयर् इन्डिया विमानसमवायस्य द्वौ वैमानिकौ च उन्मादकवस्तूपयोगपरिशोधनायां पराजितौ इति सूच्यते। एतयोः सूचिकर्मादर्शः [sample] स्थिरीकरणशोधनायै समर्पितः इति अधिकृतैः सूचितम्।
आगस्ट् चतुर्थदिनाङ्के एयर् इन्डियाविमानस्य व्योमगर्तपतनानन्तरं टाटा ग्रूप् समवायस्य अधीशत्वे वर्तमानानां सर्वेषां वैमानिकानां उन्मादकवस्तुपरिशोधना अवश्यंभाविनी कारिता। ४०० वैमानिकानां परिशोधना सम्पन्ना।
केरलम् इति नामपरिवर्तनविधेयकस्य राष्ट्रपतेः अङ्गीकारः।
नव दिल्ली> केरलराज्यस्य नाम बहुषु स्थानेषु 'केरल' इति उपयुज्यमानस्य स्थाने 'केरलम्' इति उपयोक्तुम् आधिकारिकाङ्गीकारः लब्धः। संसदः सभाद्वयेन अङ्गीकृते विधेयके राष्ट्रपतिः द्रौपदी मुर्मू हस्ताक्षरमकरोत्। आधिकारिकप्रमाणपत्रेषु परं केरल इत्यस्य स्थाने केरलम् इति प्रयोक्ष्यते।
झार्खण्डे जे एस् एस् सि - सि जि एल् परीक्षाः निरस्ताः।
उद्योगार्थिनां प्रक्षोभस्य विजयः। 
प्रक्षोभकाणां विजयाह्लादः।
राञ्ची> २४ दिनानि यावत् झार्खण्डराज्यस्य राजधान्याम् उद्योगार्थिभिः क्रियमाणम् आन्दोलनं विजितम्। परीक्षाप्रक्रमस्य क्रमभङ्गेन प्रश्नपत्रप्रस्रवणेन च आरोपणविधेयाः जे एस् एस् सि [Jharkhand Staff Selection Commission] तथा सि जि एल् परीक्षाः - Combined Graduate Level Examination - निराकरिष्यन्तीति मुख्यमन्त्री हेमन्त सोरन् उदघोषयत्।
टि एस् आर् डेटा प्रोससिंग् [TSR Data processing] नामकेन अभिकरणेन आयोजिताः सर्वाः परीक्षाः तया कृताः सर्वे सर्वकारनियुक्तयश्च पूर्णतया निरस्ताः इति मुख्यमन्त्रिणा प्रस्तुतम्।
२०१४ तमवर्षादारभ्य राज्ये आयोजितानां सर्वकारनियुक्तिपरीक्षाणां क्रमभङ्गान् अधिकृत्य गुप्तान्वेषणं करिष्यति। परीक्षाप्रक्रमाः सम्पूर्णतया परिष्करिष्यन्ति, सुतार्याः च भविष्यन्ति।
'षेहसाद् भट्टी भीकरश्रृङ्खला' भञ्जिता इति केन्द्र गृहमन्त्री।
१४ राज्येभ्यः २५४ प्रवर्तकाः निगृहीताः।
नव दिल्ली> ऐ एस् ऐ इति पाकिस्थानीचारसंघटनस्य सहयोगेन प्रवर्तमानस्य षेहसाद् भट्टी नामिका भीकरश्रृङ्खला केन्द्र सुरक्षा संस्थाभिः भञ्जिता इति केन्द्र गृहमन्त्रिणा अमित शाहेन प्रस्तुतम्। राष्ट्रस्य १४ राज्येभ्यः संघटनायाः २५४ प्रवर्तकाः निगृहीताः। स्वतन्त्रतादिनं लक्ष्यीकृत्य आसूत्रिता बृहती भीकराक्रमणाभियोजना एव विनाशिता इति गृहमन्त्री अमित शाहवर्यः एक्स् नामकमाध्यमेन प्रकाशिते प्रस्तावे अभिमानितवान्।
उत्तरप्रदेशात् ६२ जनाः निगृहीताः। हरियानं (५२), दिल्ली (५१), पञ्चाबः (४४) इत्येतेभ्यः राज्येभ्यः अधिकतया भीकरप्रवर्तकाः निगृहीताः। राजस्थानं, महाराष्ट्रं, उत्तराखण्डः, कर्णाटकं, गुजरातः, बिहारं, तेलङ्कानं, हिमाचलः, जम्मू-काश्मीरं, केरलम् इत्येतेभ्यः राज्येभ्यः इतराः निगृहीताः। केन्द्र गुप्तान्वेषणसंस्थायै लब्धसूचनायाः आधारे राज्यस्थारक्षकसेनायाः सहयोगेन पूर्वोक्तेषु राज्येषु त्वरितशोधनां कृत्वा निग्रहणं कृतम्।
निगृहीतेभ्यः ग्रनेड-पिस्टलादीनि आयुधानि, सि सि टि वि दृश्योपकरणानि पाकिस्थाने निर्मितानि वस्तूनि च संगृहीतानि।
यू एस् सैनिकानां शिरसे पारितोषिकम् उद्घोष्य इरानः।
टेहरानं> ये इरानीयाः यू एस् सैनिकान् घ्नन्ति वा गृह्णन्ति तेषां कृते आर्थिकसम्मानानि उद्घोषितानि इरानेन। यदि महिलाः एतत्कर्म कुर्वन्ति चेत् ताभ्यः पारितोषिकं युगलीकरिष्यति। इरानस्य सेनामुख्यं अमीर् हातमी इत्येनं पुरस्कृत्य इर्ना नामिकया वार्तासंस्थया एवायं वत्तान्तः बहिरागतः।
किन्तु अस्य प्रवृत्तिपथे सन्देहो वर्तते। यतः इदानीं यू एसः इराने स्थलयुद्धं न करोति। अस्मिन् सन्दर्भे कथं यू एस् सैनिकान् हन्तुं निगृहीतुं वा शक्यते इति सन्देहः।
केरले श्रावणोत्सवस्य विलम्बरकाहलं सम्पन्नम्।
पूर्णवेदपुर्यां हस्तनक्षत्रघोषयात्रा वर्णशबलं जातम्।
![]() |
| हस्त घोषयात्रायां प्रस्तुतानि कलारूपाणि। |
तृप्पूणित्तुरा> केरलस्य देशीयोत्सवाय श्रावणोत्सवाय विलम्बरकाहलं पूर्णवेदपुर्यां [तृप्पूणित्तुरा नगरे] वर्णशबलेन सम्पन्नम्। ग्रामीणकलारूपाणि, नृत्त-कथाकेलिवेषाः, विविधाः भेरीतालमेलनानि, निश्चलदृश्यानि च सहस्रशः जनेषु आह्लादतरङ्गान् जनयामासुः।
'अत्तं नगरी'ति कृतनामधेये सर्वकारीयबालकोच्चविद्यालये [Govt Boys' High school] समायोजिते कार्यक्रमे मुख्यमन्त्री वि डि सतीशः हस्तनक्षत्रोत्सवस्य उद्घाटनमकरोत्। मन्त्री अनूप जेकबः हस्तपताकाम् उन्नीतवान्। प्रान्तस्थाः संसदीयसदस्याः, विधानसभासदस्याः, सांस्कृतिकप्रमुखाः, जानपदीयाधिकारिणी तथा अन्ये च कार्यक्रमे भागं गृहीतवन्तः।
अत्तं नगरे समीपसभागारेषु च २५ तमदिनाङ्कपर्यन्तं विभिन्नाः सांस्कृतिक-कलाकार्यक्रमाः आयोज्यमानाः सन्ति। २६ तमे दिनाङ्के अस्ति 'तिरुवोणं' नाम सुदिनम्।
NET परीक्षायामपि तालभङ्गः।
त्रिषु विषयेषु पुनः परीक्षा।
नव दिल्ली> कलालयशिक्षकाणां योग्यता परीक्षा नेट् [National Eligibility Test] इत्यस्मिन्नपि बहुदोषाः दृष्टाः इत्यतः त्रिषु विषयेषु पुनःपरीक्षां सञ्चालयितुं एन् टि ए संस्थया निश्चितम्। जूण् मासे सम्पन्नेषु ८७ विषयेषु English, Commerce, Sociology इत्येतेषु विषयेषु एव पुनःपरीक्षा विहिता।
पूर्वोक्तानां विषयाणां प्रश्नपत्राणि अधिकृत्य बहवः दोषारोपाः सूचिताः। पूर्वकृतपरीक्षाभ्यः बहूनां प्रश्नानाम् आवर्तनं, अक्षन्तव्याः व्याकरणदोषाः, पण्डितानां नामसु दोषाः चिह्नेषु आशयेषु च दोषाः इत्यादयः बहवः क्रमभङ्गाः सूचिताः आसन्। अतः एषु विषयेषु पुनःपरीक्षा आवश्यकी इति एन् टि ए संस्थया रूपीकृतया समित्या निर्दिष्टा।
इन्डोनेष्यायां भूकम्पः
४७ मरणानि। 
भूकम्पे भग्नमेकं भवनम्।
जकार्ता> इन्डोनेष्यायां फ्लोर्स् नामके द्वीपे शनिवासरे प्रभाते - प्रादेशिकसमयः- दुरापन्ने भूकम्पे पञ्चाशदधिके जनाः मृत्युमुपगताः। भूकम्पमापिन्यां ७. ७ अङ्कितमासीत्। ततः बहूनि पुनश्चलनानि अभूवन्। बहूनि भवनानि भग्नानि। मृत्युसंख्या वर्धिष्यते इति सूच्यते।
युवकाः मार्गदर्शकाः इति प्रधानमन्त्री।
रक्तदुर्गे भाषमाणः प्रधानमन्त्री ।
नव दिल्ली> विकसितभारतं प्रति मुख्याः मार्गदर्शकाः युवकाः इति प्रधानमन्त्री नरेन्द्र मोदी अवोचत्। दिल्ल्यां रक्तदुर्गे आयोजिते राष्ट्रस्य ८० तमे स्वतन्त्रतादिनोत्सवे भाषमाणः आसीत् प्रधानमन्त्री । अनुस्यूततया १३तमवारं राष्ट्रियपताकाम् उन्नीय मोदिवर्यः युवजनानां कृते नैकानि उद्घोषणानि कृतानि।
राष्ट्रस्य समग्रविकसनाय सप्त क्षेत्राणि संयोज्य 'सप्तधाराभियोजना' च उद्घोषिता।
२०२७ जनसंख्यागणना।
प्रश्नावलिः बहिःप्रकाशिता।
जातिवृत्तान्ताः संग्रहीष्यन्ते।
नव दिल्ली> २०२७ मार्च् प्रथमदिनाङ्के आरप्स्यमाणायाः जनसंख्यागणनप्रक्रियायाः प्रश्नावलिः केन्द्रप्रशासनेन बहिःप्रकाशिता। ४० प्रश्नाः अन्तर्भूताः सन्ति। नवम, दशम प्रश्नरूपेण नागरिकाणां धर्म-जातिवृत्तान्तः प्रश्नायते। राष्ट्रे प्रथमतया एव जनसंख्यागणनस्य अंशतया जातिवृत्तान्ताः अपि संगृह्यन्ते।
स्वातन्त्र्यलब्धेः परं संपद्यमाना अष्टमी जनसंख्यागणना भवत्येषा। सामान्यतया आगामि वर्षे मार्च् प्रथमदिनाङ्के एव जनसंख्यागणना आरप्स्यते। किन्तु जम्मु-काश्मीरं, लडाकं,हिमाचलप्रदेशः, उत्तराखण्डः इत्येषु प्रदेशेषु गणनप्रक्रियायाः प्रथमसोपानम् आगस्ट् १७ तमे दिनाङ्के आरप्स्यते।
जनसंख्यागणनायै ६१२८२ परिसंख्यानप्रवर्तकाः [Enumeraters] १०१८९ पर्यावेक्षकाः [supervisor] च नियुक्ताः।
भारत-श्रीलङ्का क्रिकट् निकषपरम्परा अद्य आरभ्य।
भारतस्य ६०० तमा निकषस्पर्धा।
कोलम्बो> भारतस्य क्रिकट्गणस्य ६०० तमा निकषस्पर्धा इति विशेषणतया श्रीलङ्कां विरुध्य निकषपरम्परा शनिवासरे आरभ्यते। स्पर्धाद्वयात्मिकायाः परम्परायाः प्रथमस्पर्धा प्रभाते दशवादने आरप्स्यते। शुभमान गिलः अस्ति भारतगणस्य नायकः।
भारतदलस्य नूतनपरम्परा एव श्रीलङ्कया सह क्रीडति। क्रीडकद्वयं विना सर्वे भारतीयक्रीडकाः प्रथमतया एव श्रीलङ्कां विरुध्य स्पर्धते।
भारतस्य ८० तमं स्वतन्त्रतादिनम् अद्य।
![]() |
नवदिल्ली> आराष्ट्रम् अद्य ८० तमं स्वतन्त्रतादिनम् आमान्यते। दिल्ल्यां रक्तदुर्गे सम्पद्यमानः उत्सवः प्रधानमन्त्रिणः नरेन्द्र मोदिनः नेतृत्वे सम्पत्स्यते। राष्ट्रियगीतस्य वन्दे मातरस्य १५० तमं वार्षिकं युवशक्तिश्च अस्य वर्षस्य स्वतन्त्रतादिनोत्सवस्य विषयौ स्तः।
इदं प्रथमतया रक्तदुर्गे वन्दे मातरगानं पूर्णतया आलपति।
रक्तदुर्गे भीकराक्रमणं
अल् खायिदा उपसंघः इति यू एन्।
यू एन्> २०२५ नवम्बर मासे नवदिल्ल्यां रक्तदुर्गे दुरापन्नस्य कार् बोम्बस्फोटनस्य पृष्ठभूमिकायाम् अल् खायिदा इति भीकरसंघटनस्य उपसंघः इति यू एन् संस्थया दृढीकृतम्।
ए क्यू ऐ एस् इति नामकेन भारतीयसंघटनेन एव स्फोटनं कृतमिति संयुक्तराष्ट्रसंघटनस्य रक्षासमित्याः आवेदनपत्रे सूच्यते। कश्चन प्रादेशिकभीकरसंघः इति रूपेण प्रस्तुतसंघः विकासमुपगच्छतीति आवेदनपत्रे निरीक्षते।
संसदः वर्षाकालसम्मेलनं समाप्तम्।
सदा प्रक्षुब्धानि १९ दिनानि।
मन्त्रिणः स्थानत्यागः, प्रधानमन्त्रिणः नाममात्रसान्निध्यं, गृहमन्त्रिणः विदूरस्थितिः।
![]() |
| वन्दे मातरगानालापसमये लोकसभा। |
नव दिल्ली> भारतसंसदः १९ दिनात्मकं वर्षाकालसम्मेलनं सभाद्वये च सम्पूर्णं प्रक्षुब्धेन कोलाहलेन च विधाय समाप्तम्। लोकसभायां प्रश्नोत्तरवेला आकालं सम्पूर्णतया स्थगिता। जन्तर मन्तरे सि जे पी संघटनस्य आन्दोलनं विरुध्य कृताः आरक्षकप्रक्रमाः आसन् विपक्षदलेन कृतस्य प्रक्षोभस्य कोलाहलस्य च मुख्यहेतुः।
गृहमन्त्रिणः अमित शाहस्य सभायाः पूर्णतया असान्निध्यं दिनं प्रति विपक्षदलीयानां रोषाय कारणमभवत्। प्रधानमन्त्रिणः नरेन्द्र मोदिनः नाममात्रसान्निध्यं च विमर्शकारणमभूत्। सि जे पी प्रक्षोभस्य कारणात् शिक्षामन्त्रिणः धर्मेन्द्र प्रधानस्य स्थानत्यागाय च सम्मेलनमिदं साक्षी अभवत्।
अस्मिन् सम्मेलनकाले १२ विधायकानि अनुमोदितानि। परीक्षासु क्रमभङ्गं निरोद्धुमुद्दिश्य नियमपरिष्करणं, राष्ट्रियबहुमतिषु अवहेलननिरोधः इत्यादीनि प्रमुखानि आसन्। किन्तु भूरिशः विधेयकानि चर्चां विनैव अनुमोदितानि।
अन्तिमदिने , गुरुवासरे वन्देमातरगानस्य सम्पूर्णालापनं कृत्वा सभा अनिश्चितकालं प्रति विसृष्टा।
होर्मुसस्य उपरि यू एसस्य सम्पूर्णनियन्त्रणमस्तीति ट्रम्पः।
वाषिङ्टणः> तन्त्रप्रधानः पण्यगमनागमनमार्गः होर्मुस् इत्यस्य समुद्रसङ्कोचस्य उपरि यू एस् राष्ट्रस्य सम्पूर्णनियन्त्रणाधिकारः अस्तीति राष्ट्रपतिः डोनाल्ड ट्रम्पः ट्रूत् सोष्यल् माध्यमद्वारा प्रस्तुतवान्।
जूण् मासे प्रबलीकृतः सन्धिः अमेरिकया उल्लंघितः इत्यस्मिन् विषये तद्राष्ट्रेण निष्कृतिः दातव्यः इति इरानेन निर्दिष्टमासीत्। अनेन होर्मुसम् आधारीकृत्य शाश्वतशान्त्यर्थं विधत्ताः व्यवहाराः निष्फलीकृताः अभवन्।
'टाटा सण्स्' अध्यक्षः एन् चन्द्रशेखरः त्यागपत्रं समार्पयत्। 
एन् चन्द्रेशेखरः।
मुम्बई> 'टाटा सण्स्' नामकोद्योगसाम्राज्यस्य अध्यक्षः एन् चन्द्रशेखरः त्यागपत्रं समर्पितवान्। दश वर्षाणि यावत् अध्यक्षस्थानम् अलङ्कुर्वतः तस्य २०२७ फेब्रुवरिपर्यन्तं कालपरिधिः अवशिष्यते।
एयर् इन्डिया संस्थायाः अधिग्रहणमभिव्याप्य नैकाः नूतनाभियोजनाः चन्द्रशेखरस्य नेतृत्वे आरब्धाः। किन्तु एयर् इन्डियायाः प्रवर्तनक्षेत्रे उद्भूताः विवादाः चन्द्रशेखरस्य प्रतिकूलाय अभवदिति सूच्यते।
भूकम्पः।
कोलम्बियायाम् आपत्कालीनजागरूकता।
मरणानि १८१, आहताः १३००, अदृष्टाः ३०००।
![]() |
| भवनावशिष्टे अन्वेषणं कुर्वन्ति। |
पेरेरा> कोलम्बियाराष्ट्रे सोमवासरे दुरापन्ने भूकम्पे मृतानां संख्या १९१ अभवत्। १३०० जनाः आहताः इति प्राथमिकगणना। ८६तः अधिकानि भवनानि भग्नानि। ३००० तःअधिके जनाः अदृष्टाः इति सूच्यन्ते। तेषां कृते अन्वेषणं प्रचलन्ति।
मरणसंख्या इतोSपि वर्धिष्यते इति सूच्यते। राष्ट्रे देशीयापत्कालीनावस्था उद्घोषिता। पेरेरा नामके नगरे सन्ति अधिकतया कष्टनष्टानि वृत्तान्तीकृतानि। षट् विमाननिलयाः अल्पकालीनतया पिहिताः। पञ्चनगरेषु रक्तजागरूकता प्रख्यापिता।
विमानस्य आकाशगर्तपतनं
वैमानिकः मादकवस्तु उपयुक्तवान्।
नव दिल्ली> आगस्ट् चतुर्थदिनाङ्के ताय्लान्टतः नव दिल्लीं आगच्छत् एयर् इन्डियायाः यात्राविमानं आकाशगर्तं पतितम् इत्यस्यां घटनायां मुख्यवैमानिकः 'मरिजुवाना' नामकं उन्मादकवस्तु उपयुक्तवान् इति परिशोधनया स्पष्टीकृतम्। १३७ यात्रिकैः सह विमानं ३०० पादमितं गर्तं नियन्त्रणं विनश्य पतितमासीत्।
विवादास्पदायां दुर्घटनायां वैमानिकौ परिशोधनाधीनौ अभवताम्। अत्रैव मुख्यवैमानिकं विरुध्य परिणतिः अजायत।
झार्खण्ड परीक्षाक्रमभङ्गः।
उद्योगार्थिनां विधानसभासंचलने संघर्षः।
राञ्ची> झार्खण्डराज्यस्य पि एस् सि संस्थया कृतेषु उद्योगार्थपरीक्षासु व्यापकतया क्रमभङ्गः विधत्तः इत्यारोप्य कतिपयदिनानि यावत् उद्योगार्थिभिः अनुवर्तमानः प्रतिषेधः गतदिने महति संघर्षे परिसमाप्तः। राज्य विधानसभां प्रति विधत्तं पथसंचलनं विरुध्य आरक्षकदलेन दण्डप्रयोगः, जलप्रक्षेपिणीप्रयोगः, अश्रुवायुस्फोटकानि च प्रयुक्तानि। महिलाः अभिव्याप्य बहवः क्षताः जाताः।
राष्ट्रे पि एस् सि, स्टाफ् सेलक्षन् संस्थाभिः कृतासु परीक्षासु भ्रष्टाचारम् आरोप्य गतानि १७ दिनानि यावत् शतशः उद्योगार्थिनः महान्तं प्रतिषेधं कुर्वन्ति। षट्वारम् उद्योगार्थिभिः सह सर्वकारस्य चर्चा अभवदपि सर्वा पराजिता। १३ परीक्षासु क्रमभङ्गः विधत्तः इति आरोपणम्। किन्तु केवलं तिस्रः परीक्षाः निरस्तुं शक्यन्ते इति सर्वकारस्य वाग्दानं आन्दोलकैः निरस्तम्।
कोलम्बियायां भूकम्पः - शताधिकानि मरणानि। 
विशीर्णभवनेषु रक्षाप्रवर्तनं कुर्वन्तः।
बोगोट्टा> कोलम्बिया नामके दक्षिण अमेरिकीयराष्ट्रे प्रकम्पयन् बृहत्भूकम्पः। रिक्टर् मापिन्यां ७. ४ अङ्किते भूकम्पे न्यूनातिन्यूनं शतं जनाः मृताः। बहूनि भवनानि विशीर्णानि। भवनावशिष्टेषु बहवः लग्नाः वर्तन्ते।
राष्ट्रराजधानीनगरं बोगोट्टा इत्यस्मात् ४०० कि मी दूरे सोमवासरे आसीत् भूकम्पः। एक्वडोर् इति सीमाराष्ट्रे अपि भूकम्पस्य प्रकम्पनानि अनुभूतानि।
कोटग्रामे संस्कृतस्य महाकुम्भः! देववाण्याः जयघोषैः गूँजितः आदर्श-संस्कृत-ग्रामः
कोटग्रामः, मोरी, उत्तरकाशी। उत्तराखण्ड-संस्कृत-संस्थानस्य, उत्तराखण्ड-सर्वकारस्य च निर्देशानुसारम् आदर्श-संस्कृत-ग्रामे कोटग्रामे सोमवासरे, १० अगस्त २०२६ दिनाङ्के प्रथमः अवस्थापनादिवस-समारोहः हर्षोल्लासेन उत्साहेन च सम्पन्नः। कार्यक्रमस्य आयोजनं ग्रामप्रधानद्वारा श्रीमती-संगीता-रावत-महोदयाया: अध्यक्षतायां ग्रामस्थे सोमेश्वर-महादेव-मन्दिर-प्राङ्गणे सम्पन्नम्।
कार्यक्रमात् पूर्वं प्रातः ११ वादने समस्ताः ग्रामवासिनः कुलाका-शिवमन्दिर-प्राङ्गणे समागताः। ततः तस्मात् स्थालात् भव्यसंस्कृत-शोभायात्रा प्रारब्धा, या सोमेश्वर-महादेव-मन्दिर-प्राङ्गणं यावत् अगच्छत्। शोभायात्रायां वैदिक-मन्त्राणां घोषेण, संस्कृतगीतैः संस्कृतजयघोषैश्च सम्पूर्णस्य ग्रामस्य वातावरणं संस्कृतमयम् अभवत्।
येमनने सौद्यां च हूत्याक्रमणम्।
७ मृताः, १५ क्षताः।
सना> येमनने मोखहा नौकाश्रयं प्रति, सौदी अरेबियायाः तैलशुद्धीकरणशालां प्रति च हूति विमतविभागः रविवासरे आक्रमणमकरोत्। आक्रमणे ४ सैनिकान् अभिव्याप्य सप्तजनाः मृताः इति यमनस्य प्रतिरोधसेनया निगदितम्।
यमनसर्वकारस्य अधीने वर्तमानः बृहत् नौकाश्रयः भवति मोखहा। ड्रोण्, अग्निशस्त्राणि चोपयुज्य आसीदाक्रमणम्। सौद्याः तैलशुद्धीकरणशालां प्रति विधत्ते आक्रमणे जीवहानिः नास्ति। अग्निः निर्व्यापितः इति अधिकृतैरुक्तम्।