उत्तरखण्डे वृष्टिदुष्प्रभावः।
तीर्थाटकसंघाः लग्नाः।केदारनाथ तीर्थाटनं स्थगितम्।
रुद्रप्रयागः> अतिवृष्ट्या उत्तरखण्डराज्ये बहुत्र मृत्प्रपातः अभवत् इत्यतः तीर्थाटकसंघाः मार्गे लग्नाः। उपसहस्रं जनाः विविधप्रदेशेषु स्तम्भितमार्गाः वर्तन्ते। तत्र एकः संघः ५० संख्योपेतः केरलीयसंघः अस्ति। शनिवासरे केदारनाथदर्शनं कृत्वा प्रतिनिवर्तमानाः एते इति सूच्यते।
वृष्टिदुष्प्रभावेण केदारनाथतीर्थाटनं दिनद्वयं यावत् निरुद्धमिति राज्यप्रशासनेन निगदितम्।