विन्डीसं विरुध्य भारतस्य विजयः।
कोलि-गिलयोः शतकम्। कुलदीपः श्रेष्ठक्रीडकः।
शतकं प्राप्तवतः विराट कोह्लिनः आह्लादः।
अनन्तपुरी> वेस्ट् इन्डीसं विरुध्य एकदिन क्रिकटपरम्परायाः प्रथमस्पर्धायां भारतस्य अविस्मरणीयविजयः। आगामिविश्वचषके अनिषेध्य इति उद्घोषयन् १३९ धावनाङ्कान् सम्पाद्य विराट कोह्लिः आराधकान् रोमाञ्चपुलकितान् कृतवान्। कोह्लिनं विना शुभमान गिलः अपि शतकं सम्प्राप्तवान्।
अष्ट द्वारकाणां महाविजयः आसीत् ग्रीन् फील्ड् क्रीडाङ्कणे भारतगणेन प्राप्तः। विन्डीसगणः ५० क्षेपणचक्रे ७ ताडकानां विनष्टे २९५ धावनाङ्कान् सम्प्राप। प्रत्युत्तरक्रीडायां ४१.१ क्षेपणचक्रे केवलं द्वारकद्वयस्य विनष्टे ३०० धावनाङ्कान् सम्पाद्य भारतं विजयं प्राप। ८८ कन्दुकैः ९ षट्काणि, १० चतुष्काणि च सम्पाद्य आसीत् कोह्लेः १३९ धावनाङ्कसम्पादनम्। तस्य ५५ तमं शतकम्, एकदिने १५,००० धावनाङ्काः इति सविशेषता अपि 'विराटपर्वणि' विद्यते।
शुभमान गिलः ११० धावनाङ्कान् सम्प्राप्तवान्।१० क्षेपणचक्रेषु ४० धावनाङ्कान् प्रदाय चतुरान् विन्डीसताडकान् बहिर्नीतवान् भारतस्य क्षेपकः कुलदीप सिंहः श्रेष्ठक्रीडकपदं प्राप्तवान्।