भारतस्य अणुशक्तिनिलयाः अन्तर्जालिकाक्रमणात् सुरक्षिताः इति केन्द्रमन्त्री।
OUR YouTube Channel 1. SampratiVartah |
marquee
Friday, February 11, 2022
Thursday, February 10, 2022
भौमकान्तिकचण्डवाते स्पेस् एक्स् इत्यस्य ४० स्टार्लिङ्क् उपग्रहाः विनष्टाः।
न्यूयोर्क्> सूर्यात् समुत्पन्ने भौमकान्तिक-चण्डवाते स्पेस् एक्स् ४० स्टार्लिङ्क् उपग्रहाः नष्टाः। लो एर्त् ओर्बिट्ट् मध्ये ४९ स्टार्लिङ्क् उपग्रहाणां नूतनप्रकरस्य विक्षेपानन्तरं कानिचन दिनाभ्यन्तरे भौम-कान्ति-कचण्डवाते उपग्रहेषु ४० संख्याकाः विनष्टाः इति स्पेस् एक्सेन विशदीकृतम्। फेब्रुवरि तृतीये दिने उपग्रहाणां विक्षेपानन्तरमेव भौमकान्तिकचण्डवातः जातः। चण्डवातः तु होराचतुष्टयं दीर्घितम् आसीत्।
अतिदुर्गमे लम्बाग्रपर्वतशिलारन्ध्रे पतितः युवकः सेनया रक्षितः।
अतिदुर्गमे लम्बाग्रपर्वतशिलारन्ध्रे पतितः बाबु नामकः केरलीययुवकः सेनया रक्षितः। पाशबद्धो भूत्वा युवकस्य निकटमागतः सैनिकः प्रथमं तस्मै जलमदात्। अनन्तरं २०० मीट्टर् अधस्तात् रज्जुमुपयुज्य बाबुं उपरि उत्थापितवान्। ४६ होरानन्तरमेव बाबुः रक्षितः। तं सेनायाः उदग्रयाने पालक्काट् जनपदस्य आतुरालयं नीतः च। विशदस्वास्थ्यावलोकनानन्तरं तस्य स्वास्थ्यं समीचीनं चेत् बाबू बन्धुजनैः साकं गृहं प्रतिनिवर्तिष्यते।
Wednesday, February 9, 2022
महर्षि-नारदपुरस्कारेण बलदेवानन्द -सागरः समादृतः।
१९५२-तमे वर्षे जून-मासे चतुर्दश-दिनाङ्के गुजरातस्य भावनगर-जनपदे चमारडी-ग्रामे, शांकर-गुरुपरम्परायां समुत्पन्नः डॉ. बलदेवानन्द-सागरः सद्गुरोः तपोमूर्तेः स्वामिनः शिवोऽहं-सागरवर्यस्य आशीर्वादानुग्रहैः विश्वनाथ-नगर्यां काश्यां विद्यार्जनस्य शुभावसरम् अवाप्नोत्। नवदिल्ल्याम् आकाशवाणीतः संस्कृत-वार्तानां सम्पादनानुवाद-प्रसारणस्य ४५-वर्षात्मकेन, दूरदर्शने च २२-वर्षात्मकेन अनुभवेन साकं डॉ.सागरः विश्वस्मिन् दृश्य-माध्यमेषु प्रप्रथमस्य संस्कृत-वार्ताप्रसारकस्य यशस्तिलकम् अध्यगच्छत्। साम्प्रतमपि, असौ एतन्-माध्यम-द्वयात् अनारतं, भारतस्य माननीय-प्रधानमन्त्रिणः श्रीनरेन्द्रमोदिनः ‘मन की बात’- कार्यक्रमस्य संस्कृत-भाषान्तरस्य प्रसारणस्य च दायित्वं निभालयति। ‘संस्कृत-पत्रकारिताम्’ अधिकृत्य, ‘संस्कृतपत्रकारिता : इतिवृत्तम् अधुनातन-स्वरूपञ्च’- नाम्नः, प्रप्रथमं संस्कृतभाषया विरचित-पुस्तकस्य लेखन-सम्पादनाभ्यां सहैव सागरवर्यस्य एतद्-विषयकाः अनेके शोधलेखाः विभिन्नासु पत्र-पत्रिकासु सततं प्रकाश्यन्ते। एतदतिरिच्य, लेखक-कविः डॉ.सागरः, आधुनिकसंस्कृत-साहित्ये, संस्कृत-रंगकर्मणि अध्यापने च स्वीयं विशिष्टं योगदानं विदधाति। विविधैः पुरस्कारैः सम्मानितः डॉ.बलदेवानन्द-सागरः २०१८-तमे वर्षे संस्कृतभाषायाः पत्रकारितायाः च क्षेत्रे विशिष्ट-योगदानार्थं महामहिम्नः राष्ट्रपतेः “सम्मान-प्रमाणपत्र-प्रदानेन” सम्मानितः।
विद्यालयाः महाविद्यालयाः च फेब्रुवरिमासस्य अन्तिमपादे पूर्णतया प्रवर्तनसज्जाः भविष्यन्ति। जनपदेषु नियन्त्रणानि अनुवर्तन्ते।
तिरुवनन्तपुरम्> केरलेषु विद्यालयेषु महाविद्यालयेषु च फेब्रुवरि मासस्य अन्तिमे पादे सर्वान् छात्रान् समाविश्य प्रातः आरभ्य सायाह्नपर्यन्तं प्रवर्तनाय सज्जीकर्तुं कोविडस्य अवलोकनयोगे निश्चितः। तदर्थं विद्यालयेषु सज्जीकरणानि समारब्धुं मुख्यमन्त्रिणा पिणरायी विजयेन निर्देशो दत्तः। ततः पर्यन्तं केवलं समार्धछात्रान् समाविश्य कक्ष्याः चालयिष्यन्ति।
अरुणाचले हिमपातः - सप्त सैनिकाः अप्रत्यक्षाः।
इटानगरम्> अरुणाचलप्रदेशे कमेङ् नामकमण्डलस्य उच्चस्थानेषु क्रियमाणायां निशापरिक्रमवेलायां जातेन महता हिमपातेन सप्त सैनिकाः अप्रत्यक्षाः अभवन्। चीनेन भूट्टानेन सह सीमांशं गृह्यमाणं १४,०००पादोन्नतपरिमितं जनवासरहितं वनप्रदेशमण्डलं भवति केमाङ्।
शैत्यकाले निशापरिक्रमणमत्र बहुदुष्करं भवति। कतिपयदिनेषु महान् हिमपातः अत्र वर्तते। किन्तु सर्वसन्नाहमुपयुज्य रक्षाप्रवर्तनमनुवर्तते इति सेनाधिकारिभिः उक्तम्।
विधानसभानिर्वाचनानि - प्रथमचरणं श्वः उत्तरप्रदेशे आरभ्यते।
नवदिल्ली> पञ्चसु राज्येषु प्रचाल्यामानानां विधानसभानिर्वाचनानां प्रथमचरणं श्वः आरभ्यते। उत्तरप्रदेशस्य ११ जनपदेषु ५८ विधानसभामण्डलेषु च श्वः मतदानं भविष्यति। २. २७ कोटिजनाः प्रथमचरणे मतदानाधिकारं विनियोक्ष्यन्ते।
५८ मण्डलेषु सघोषप्रचारणं ह्यः समाप्तम्। ७ चरणैः उत्तरप्रदेशे निर्वाचनं विधातव्यमस्ति।
Tuesday, February 8, 2022
कोविड् वैराणुं नाशयितुं नैट्रिक् ओक्सैड् वातकः फलप्रदः इति अध्ययनम्।
नैट्रिक् ओक्सैड् वातकस्य श्वसनेन सार्क् कोविड् वैराणुं नाशयितुं शक्यमिति अध्ययनं सूचयति। कोच्चि देशे अमृत आतुरालयीयभिषग्वराः तथा अमृत विश्वविद्यापीठस्य च अधीने वर्तमानस्य अमृत स्कूल् ओफ् बयोटेक्नोलजि संस्थायाः वैज्ञानिकाः च समेत्य कृताध्ययने एव अवगतज्ञानमिदं दृढीकृतम्।
आतुरालये कृते प्रायोगिकाध्ययने नैट्रिक् ओक्सैड् चिकित्सां स्वीकृताः कोविड् 19 रोगिणः , सामान्य कोविड्चिकित्सा लब्धवतां रोगिणाम् अपेक्षया शीघ्रं रोगात् मोचनं प्राप्तवन्तः इति दृढीकृतः। तेषु मरणमानमपि शून्यमिति स्थिरीकृतम्।
Monday, February 7, 2022
अन्ताराष्ट्र-बाह्याकाशनिलयः २०३१ तमे संवत्सरे शान्तसमुद्रे निपतिष्यति।
अन्ताराष्ट्र-बाह्याकाशनिलयस्य प्रवर्तनं २०३० पर्यन्तम् अनुवर्तिष्यते।। तदनन्तरं २०१३ तमे संवत्सरे एतं शान्तसमुद्रे पातयिष्यति। नासया एव वार्तेयं सूचिता। १९९८ तमे संवत्सरे विक्षिप्तः बाह्याकाशनिलयः जनुवरि मासस्य ३१ तमे दिनाङ्के भ्रमणपथात् निष्कासयितुं नासया प्रक्रमाः समायोजिताः। भ्रमणपथात् विचलितः बाह्याकाशनिलयः क्रमेण भूमौ उप्लुत्य पसफिक् समुद्रे पोयन्ट् नेमो इति ख्याते स्थाने निपतिष्यति। तीरात् २७०० । कि. मि . दूरपरिधौ बाह्याकाशनिलय-श्मशानम् इति ख्याते अस्मिन् स्थाने एव उपग्रहाः, अन्ये मानवनिर्मितावशिष्टानि च आपातयिष्यन्ति।
रूस् राष्ट्रे प्रतिदिनकोविड्प्रकरणानि १.८ लक्षम्।
मोस्को> रूस् राष्ट्रे कोविड्रोगिणः संख्या अनुदिनं वर्धते। गतदिनद्वये प्रतिदिनसंख्या १.८ लक्षम् अतीता। गतदिने ६६१ मरणानि चाभवन्। आराष्ट्रम् ओमिक्रोण् प्रभेद एव व्याप्यते इति अधिकृतैः निगदितम्।
गतमासमपेक्ष्य कोविड्बाधितानां संख्या दशगुणितमभवत्। सम्पूर्णपिधानं वा किमपि नियन्त्रणं वा सर्वकारेण न विधत्तम्। ओमिक्रोणः बालकानपि अबाधत इत्यतः सामान्यस्थानेषु ऊनाष्टादशवयस्कानां प्रवेशाय नियन्त्रणं विधत्तम्।
अद्यावधि राष्ट्रे १.८ कोटिजनाः कोविड्बाधिताः अभवन्। आहत्य मरणानि ३,३५,४१४ अभवन्।
Sunday, February 6, 2022
भारतस्य प्रियगीतिका लता मङ्केष्करः दिवंगता।
मुम्बई> जवाहरलालनेह्रूमहोदयेन भारतस्य प्रियगीतिका इति विशिष्टनामधेया गानसरस्वती लतामङ्केष्करः [९२] अद्य प्रभाते मुम्बय्यां ब्रीच् कान्टी आतुरालये मृत्युमुपगता। कोविड्बाधिता सा सप्ताहं यावत् परिचर्यायामासीत्। अन्त्येष्टिक्रियाः अद्य सायं मुम्बय्यां शिवजीउद्याने विधास्यन्ति।
भारतीयसंगीतस्य महाराज्ञिपदमलङ्कृता सा ३६ अधिकासु भाषासु उप ४०,००० चलच्चित्रगानानाम् आलपनेन आराष्ट्रं जनानां मनसि चिरप्रतिष्ठामवाप्तवती। लतायाः वियोगे राष्ट्रपतिः प्रधानमन्त्री उपराष्ट्रपतिः इत्यादयः अनेके अन्यराष्ट्रियनेतारश्च अनुशोचनं प्रकाशितवन्तः। दिनद्वयात्मकं देशीयदुःखाचरणं च प्रख्यापितम्।
ऊनविंशतिः वयोमितानाम् विश्वचषकक्रिकेटस्पर्धा भारतेन विजिता
- पुरुषोत्तम शर्मा -
भारत-इङ्ग्लैण्डयोः मध्ये क्रीडिता ऊनविंशतिः वयोमितानाम् विश्वचषकक्रिकेटस्पर्धा भारतेन विजिता। निर्णायकस्पर्धायां भारतेन चतुः क्रीडकाणां सुरक्षापूर्वकम् इङ्ग्लैण्डदलं पराजितम्। अयं पञ्चमः अवसरः यदा भारतेन इयं स्पर्धा विजिता। पणकं विजित्य इङ्ग्लैण्डदलेन आदौ धावनाङ्कनिर्माणं स्वीकृतम्। भारतेन नवत्यधिकैकशतं धावनाङ्कानां लक्ष्यम् अष्टचत्वारिंशे कन्दुकक्षेपचक्रे सम्प्राप्तम्। भारतस्य राजबावाय श्रेष्ठप्रदर्शनात् स्पर्धापुरुषः इति प्रदतः च।
२१६ पादोन्नता रामानुजाचार्यस्य समत्वप्रतिमा प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पिता।
हैदराबाद्> एकादशशतके सामूहिकपरिष्कर्ता तथा भक्तसन्यासी इति प्रख्यातस्य श्रीरामानुजाचार्यस्य समत्वप्रतिमा प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पिता। प्रतिमा एषा ज्ञानस्य प्रतिरूपं भवति। श्रीरामानुजेन यत् उद्घोषितं तत् विश्वाय मार्गदर्शकं भूयात् इति प्रार्थये इति उद्घाटनसमारोहे प्रधानमन्त्रिणा निगदितम्। वसन्तपञ्चमीदिने एव प्रतिमा समर्पिता। भारतस्य पौराणिकसंस्कृतिं परिपोषयति एषा प्रतिमा। २१६ पादोन्नता प्रतिमा पञ्चलोहेन निर्मिता भवति। हैदराबाददेशे षंषाबादे ४५ एक्कर् विस्तृते भवनसमुच्चये एव प्रतिमा स्थापिता। विश्वस्मिन् उपविश्यमानरूपेण वर्तमानासु प्रतिमासु बृहत्तमा लोहप्रतिमा भवति एषा।
'भद्रवेदी' नाम ५४ पादोन्नते भवने एव प्रतिमा स्थापिता। भवने एका अङ्कीयग्रन्थशाला, अनुसन्धानकेन्द्रं, श्रीरामानुजाचार्यस्य कृतयः तथा तत्त्वचिन्ताप्रतिपादकः शैक्षिकमंचः (gallery), एका रङ्गभूमिः (theatre) च सज्जीकृता अस्ति।
कोविड् - केरलम् आश्वासतीरमायाति।
अनन्तपुरी> केरलराज्ये डिसम्बरमासस्य अन्तिमदिनेषु आरब्धस्य कोविड्तृतीयतरङ्गस्य तीव्रता गतेन दिनत्रयेण आकुञ्चमाना दृश्यते। प्रतिदिनरोगस्थिरीकरणमानं [TPR%] प्रतिदिनरोगिणां संख्या च अधोमुखेन आक्ञ्चतीति आश्वासस्य विषयः। फेब्रुवरि द्वितीयवारे प्रतिदिनसंख्या दशसहस्राधः भविष्यतीति स्वास्थ्यनिपुणैः गण्यते। अतः राज्ये कोविड्नियन्त्रणेषु लाघवं विधत्तम्।
डिसम्बर् २७तमे दिनाङ्के राज्ये १६३६ कोविड्प्रकरणानि प्रस्तुतानि। तृतीयतरङ्गस्य प्रारम्भदिनमिति मन्यमाने २८ तमे दिनाङ्के २४७४ नूतनाः रोगिणः अभवन्। ततः प्रतिदिनरोगिणां संख्या लम्बतया वर्धमाना आसीत्। जनुवरि १२तमे नूतनरोगिणः १२७४२ अभवन्। ततः पञ्चमे दिने २२,९४६ अभवत् रोगिसंख्या। २५तमे दिनाङ्के ५५,४७५ जनाः रोगबाधिताः अभवन्। तृतीयतरङ्गस्य अत्युच्चस्था संख्या एषा आसीत्। ततः रोगिणां प्रतिदिनसंख्या क्रमेण आकुञ्चिता अभवत्।
ह्यः ३३,५३८ नूतनरोगिणः जाताः। टिपिआर् मानं तु ३२.६३ आसीत्। रविवासरेषु विधत्तं पिधानसमानं नियन्त्रणं अद्यापि अस्ति।
Saturday, February 5, 2022
संस्कृतेः समार्जने कलायाः अतीव प्राधान्यमस्ति।
फुजैरा> संस्कृतेः समार्जने सर्गात्मककलानाम् अतीव प्रधान्यमस्ति इति फुजैरादेशस्य उत्तराधिकारिणा शैख् मोहम्मद् बिन् हमद् बिन् मोहम्मद् अल् शर्खिणा प्रोक्तम्। फुजैरा अल् हनिया मरुप्रदेशे इट्टलीदेशस्य शिल्पिना जागो नामकेन निर्मितम् 'अत्र पश्यतु' इति कलारूपं सन्द्रष्टुम् आगतः आसीत् मोहम्मद् अल् शर्खि। फुजैरा सर्वकारस्य सहकारतया इट्टलीदेशात् फुजैरादेशं प्रति नीत्वा स्थापितम् आसीत् एतत् शिल्पम्। शिशोः आकारसदृशं शिल्पमिदम् इदानीं सन्दर्शकान् कलास्वादकान् च हठादाकर्षत् विराजते।
Friday, February 4, 2022
बेयिजिङ् ओलिम्पिक्स् उद्घाटन-समापन कार्यक्रमान् तिरस्कर्तुं भारतेन निश्चितम्।
नवदिल्ली> २०२२ बेयिजिङ् ओलिम्पिक्स् उद्घाटन-समापन कार्यक्रमान् तिरस्कर्तुं भारतेन निश्चितम्। भारतस्य चीनस्य च मध्ये गाल्वान्देशे जाते प्रतिद्वन्दे व्रणितः चीनस्य लिबरेषन् सेनाध्यक्षः क्वि फबावो दीपशिखां समुद्वहति इति कारणेनैव कार्यक्रमः तिरस्कर्तुं भारतेन निश्चितम्। केन्द्रविदेशकार्यमन्त्रालयस्य वक्त्रा अरिन्दं बग्जिना वार्तामेलने वार्तेयं आवेदिता।
ऐ एस् मुख्यः निहतः इति अमेरिक्का। आक्रमणे स्त्रियः बालिकाबालकौ च निहताः।
वाषिङ्टण्> ऐ एस् मुख्यः अबु इब्राहिं अल्- हाष्मि अल् - खुरैषिः सेनया व्यापादितः इति अमेरिक्का। उत्तरपश्चिमसिरियादेशे यु एस् सेनया कृते आक्रमणे एव अल् - खुरैषि मृतः इति यु एस् राष्ट्रपतिना जो बैडनेन प्रोक्तम्। ' सायुधसेनायाः निपुणतायै धीरतायै च धन्यवादान् अर्पयामहे इति बैडनेन स्वप्रस्तावे अवदत्। दौत्ये भागं स्वीकृताः सर्वे अमेरिक्कादेशीयाः सुरक्षिताः सन्तः प्रत्यागताः इत्यपि तेन सूचितम्।
Thursday, February 3, 2022
३७० अनुच्छेदस्य निरासानन्तरं जम्मूकश्मीरे ४३९ भीकराः हताः इति केन्द्रसर्वकारः।
नवदिल्ली> ३७० अनुच्छेदस्य निरासानन्तरं जम्मूकश्मीरे अद्यावधि ४३९ भीकराः निहताः तथा केन्द्रप्रशासनप्रदेशे भीकरप्रवर्तनसम्बन्धिनः ५४१ घटनाः पञ्चीकृताः इत्यपि आभ्यन्तरसहमन्त्रिणा नित्यानन्दरायेन राष्ट्रसभायां आवेदितम्। ३७० अनुच्छेदस्य निरासानन्तरं९८ सामान्यजनानां जीवनाशः अभवत्।१०९ सैनिकाः वीरमृत्युं प्राप्ताः इति आभ्यन्तरसहमन्त्रिणा प्रोक्तम्।
कोविड् चिकित्सामालिन्यानि परिस्थितिभीषां जनयति इति विश्वस्थास्थ्यसंस्था।
कोविड् चिकित्सालयात् बहिः व्यापृतानि चिकित्सामालिन्यानि मानवाय परिस्थितेः च भीषाः भविष्यन्ति इति विश्वस्वास्थ्यसंस्थायाः पूर्वसूचना । मालिन्यसंस्करणसुविधायाः पुनःशोधनमधिकृत्य विश्वस्वास्थ्यसंस्थायाः नूतनावेदने इयं पूर्वसूचना प्रकाशिता। अयुताधिकं टण् मितानि चिकित्सकीयमालिन्यानि एव कोविड् महामारिकारणेन जातानि। एतानि आविश्वं स्वास्थ्यसुविधायै भीषां जनयन्ति।
Wednesday, February 2, 2022
तमिल्नाटे शैक्षिकसंस्थाः उद्घाटिताः।
चेन्नई> तमिल्नाटुराज्ये कोविड्व्यापनेन पिहिताः विद्यालयाः कलालयाश्च पुनरुद्घाटिताः। पिधाने लाघवानि प्रख्यापितानि इत्यतः प्रथमकक्ष्यायाः आरभ्य +२ पर्यन्तासु कक्ष्यासु ह्यः आरभ्य सम्मुखाध्ययनमारब्धम्। १००% छात्रेभ्यः विद्यालयान् प्रति आगमनाय अनुज्ञा दत्ता।
कोविडमाधारीकृत्य अनुशासनानि पालनीयानीति राज्यस्य स्वास्थ्यमन्त्रिणा एम् सुब्रह्मण्येन निगदितम्। आराज्यं १.१० कोटि छात्राः अध्ययनं कुर्वन्ति।
विश्वक्रीडापुरस्कारः श्रीजेषाय।
लोसान्> गतवर्षस्य श्रेष्ठः विश्वक्रीडकः [World games athlete of the year] इति पुरस्काराय भारतस्य यष्टिक्रीडादलस्य लक्ष्यस्थानपालकः आर् श्रीजेषः चितः। विविधराष्ट्रेभ्यः चितेभ्यः २४ क्रीडकान् मतदानप्रक्रियया पृष्ठतः अपसृत्य एव केरलीयोऽयम् अनेन अन्ताराष्ट्रपुरस्कारेण समादृतः।
अनेन पुरस्कारेण समाद्रियमाणः द्वितीयः भारतीयक्रीडको भवति श्रीजेषः। टोक्यो ओलिम्पिक्स् मध्ये भारताय कांस्यपतकं प्राप्तवान्। भारतस्य ध्यान्चन्द् खेल्रत्नपुरस्कारोऽपि अनेन लब्धः आसीत्।
ई- पारपंत्रं, ५ जि, अङ्कीयरूप्यकं च अस्मिन् संवत्सरे- आयव्ययसंकल्पप्रख्यापनम्।
राष्ट्रे ई - पारपत्रसौविध्यं विलम्बं विना प्रवृत्तिपथमानेष्यति इति वित्तमन्त्रिण्या निर्मलासीतारामेण प्रोक्तम्। २०२२-२३ आर्थिकसंवत्सरे ई पारपत्रसौविध्यं पौरजनेभ्यः लप्स्यते। पारपत्रस्य बाह्यपुटे ई-शकलं, सुरक्षासंबन्धिविवरणानि च आलेखयिष्यन्ति। अधिकसुरक्षासुविधया सम्पन्नं भविष्यति ई- पारपत्रम्।
५जि (पञ्चम-जनरेषन्) इत्यस्य शीघ्रवार्ताविनिमयोपाधेः उपयोगार्थं अनुमतिः अस्मिन् संवत्सरे एव चालयिष्यति इति मन्त्रिण्या आयव्ययसंकल्पभाषणे आवेदितम्।२०२२-२३ आर्थिकसंवत्सरे एव ५जि सेवाः राष्ट्रे लप्स्यते।
अङ्कीयरूप्यकम्।
नवदिल्ली> २०२२-२३ संवत्सरे अङ्कीयरूप्यकं प्रकाशयिष्यति इति आयव्ययसंकल्पे ख्यापितम्। गुप्तव्यवस्थाशृङ्खला (block chain), अन्यानि प्रौद्योगिकविज्ञानानि च उपयुज्य अङ्कीयरूप्यकाणि भारतीय रिज़र्व वित्तकोशः प्रकाशयिष्यन्ति। एतानि आर्थिकक्षेत्रे प्रचोदकानि भविष्यन्ति इति वित्तमन्त्रिण्या प्रोक्तम्।
Tuesday, February 1, 2022
राष्ट्रं ८.८५% अभिवृद्धिं प्राप्स्यति इति आर्थिकसर्वेक्षणम्।
नवदिल्ली> आगामिनि आर्थिकसंवत्सरे राष्ट्रं ८.८५% अभिवृद्धिं प्राप्स्यति इति आर्थिकसर्वेक्षणफलं सूचयति। आयव्यय-सङ्कल्पं पुरस्कृत्य वित्तमन्त्रिण्या निर्मला सीतारामेण संसदे समर्पिते आर्थिकसर्वेक्षणे एव अभिवृद्धिः भविष्यति इति सूचना। भूरिजनैः कोविड्प्रतिरोधवाक्सिनं स्वीकृतम् इत्यतः आर्थिकस्वरूपस्य प्रत्यागमने शीघ्रता भविष्यति इत्यपि सर्वेक्षणं ज्ञापयति।
Monday, January 31, 2022
नवदिल्ल्याम् आकाशे विस्मयान् विरच्य उदग्रयन्त्रप्रकाशप्रदर्शिनी।
नवदिल्ली> राजधानीनगर्याः आकाशे सहस्रशः उदग्रयन्त्राणां साहाय्येन आयोजिता प्रकाशप्रदर्शिनी दिल्लीनिवासिनां सर्वेषां नूतनं दृश्यानुभवम् अभवत्। गणतन्त्रदिनस्य समापनात्मकसमारोहे 'बीट्टिङ् रिट्ट्रीट्' इत्यस्य भागतया भारते इदंप्रथमतया एव उदग्रयन्त्रप्रकाशप्रदर्शिनी समायोजिता। नवदिल्ल्यां विजयचौक्के शनिवासरे सायाह्ने आसीत् प्रकाशप्रदर्शिनी। दशनिमेषपर्यन्तं दीर्धिते कार्यक्रमे राष्ट्रेण स्वदेशेनिर्मितान उदग्रयन्त्राणि एव उपयुक्तानि। मनोहरसङ्गीतस्य पाश्चातले राष्ट्रस्य आलेख्यपत्रं, त्रिवर्णपताका, महात्मागान्धिनः चित्रं, सिंहमुद्रा इत्यादीनि उदग्रयन्त्रद्वारा आकाशे प्रकाशितानि।
Sunday, January 30, 2022
कनडा राजधानीं वलयित्वा फ्रीडं कोण्वोय्। ट्रूडो रहस्यकेन्द्रे इति सूचना।
सोमवासरादारभ्य संसत्। आयव्ययपत्रं मङ्गलवासरे।सम्मेलनाय अधिवेशनद्वयम्।
नवदिल्ली> अधिनिवेशद्वयात्मकं संसदीयसम्मेलनं राष्ट्रपतेः अभिसम्बुद्ध्या श्व आरभ्यतेे। राष्ट्रस्य आर्थिकस्थितिं विशदीक्रियमाणम् आर्थिकान्वीक्षणपत्रं सोमवासरे सामान्यायव्ययपत्रं मङ्गलवासरे च अवतारयिष्यते।
फेब्रुवरी प्रथमदिने ११ वादने वित्तमन्त्रिणी निर्मला सीतारामः लोकसभायामायव्ययपत्रमवतारयिष्यति। कोविडनुशासनपूर्वकं विधास्यमानस्य सम्मेलनस्य प्रथममधिवेशनं फेब्रुवरि ११ दिनाङ्के समाप्स्यति। द्वितीयमधिवेशनं मार्च् १४ तमे आरभ्य एप्रिल् ८ तमे समाप्तिमेष्यति।
Saturday, January 29, 2022
फेब्रुवरी प्रथमपादे विद्यालयेषु साक्षादध्ययनमारब्धुं केन्द्रसर्वकारः।
नवदिल्ली> फेब्रुवरिमासस्य प्रथमपादादारभ्य राष्ट्रे कोविड्महामार्याः तृतीयतरङ्गः दुर्बलः भविष्यतीति विश्वस्वास्थ्यसंघटनस्य पारिभाषिकोपदेशसमित्याः अध्यक्षः डो अनुराग अगर्वालः उक्तवान्। तादृश्यामवस्थायां विद्यालयेषु साक्षादध्ययनाय प्रथमपरिगणना दातव्या इति तेनोक्तम्।
'ओण् लेन् कक्ष्याणां स्थाने ओफ् लैन् कक्ष्याः आरम्भणीयाः इत्येतत् छात्राणां भविष्यविषये अत्यन्तापेक्षितमस्ति। छात्रान् विद्यालयेभ्यः विदूरं नयति इत्यतः तेषां मानसिकशारीरिकादीनां स्वस्थताविषये तद्दोषाय भवेत्। अतः विद्यालयाः उद्घाटयितव्याः' अगर्वालेनोक्तम्।
वाक्सिनीकरणमाने तद्वारा आर्जिते रोगप्रतिरोधे च भारतं बहु अग्रे वर्तते। इतरराष्ट्राणि अपेक्ष्य मृत्युमानं रोगव्यापनमानं च तुच्छमिति विद्यालयोद्घाटनमालक्ष्य तेन निगदितम्।
राष्ट्रे अतिसम्पन्नं राजनैतिकदलं भवति भा ज दलम्। तेषां परिसम्पत्तिः ४६४७ कोटिः भवति।
नवदिल्ली> राष्ट्रे २०१९-२०२० संवत्सरीयेषु अतिसम्पन्नेषु राजनैतिकदलेषु प्रथमस्थानमावहति भा ज दलम् इति प्रतिवेदनम्। अस्मिन् कालावधौ ४८४७.७८ कोटि रूप्यकाणां परिसम्पत्तिः भ ज दलाय अस्ति इतिअसोसियेषन् ओफ् डेमोक्राट्टिक् रीफोंस् (ए डि आर्) नाम निर्वाचननिरीक्षणसंघेन प्रकाशितायां गणनायां संसूचितम्। परिसम्पत्तौ द्वितीयस्थाने बि एस् पि एव। ६९८.३३ एव तेषां परिसम्पत्तिः। तृतीयस्थानीयस्य कोण्ग्रस् दलस्य ६८८.१६ कोटि
परिसम्पत्तिरेव अस्ति। अस्मिन् कालावधौ राष्ट्रे सप्त राष्ट्रियदलानां तथा४४ प्रादेशिकदलानां च यथाक्रमं६९८८.५७ कोटि रूप्यकाणां२१२९.३८ कोटि रूप्यकाणां च आहत्य परिसम्पत्तिः अस्ति इत्येव ए डि आर् संस्थायाः प्रतिवेदनम्। सप्त राष्ट्रियदलानां आहत्य परिसम्पत्तिषु प्रतिशतं६९.३७ भविष्यति भा ज दलस्य परिसम्पत्तिः।
Friday, January 28, 2022
ओमिक्रोण् उपविभेदस्य बि ए २ इत्यस्य व्यापनक्षमता अधिका।
नवदिल्ली> राष्ट्रे कोविडस्य तृतीयतरङ्गहेतुभूतस्य ओमिक्रोण् विभेदस्य डेल्टा विभेदापेक्षया व्यापनक्षमतामानः अधिकः इति प्रतिवेदनम्। बहिरागतानि प्रतिवेदनानि अनुसृत्य ओमिक्रोणापेक्षया तस्य उपभेदस्य बि ए२ इत्यस्य अतिव्यापनक्षमता अस्ति। उपभेदः मन्दं सर्वत्र प्रसरति इति स्वास्थ्यमन्त्रालयेन पूर्वसूचना दत्ता। राष्ट्रिय- रोगनियन्त्रणकेन्द्रस्य निदेशकेन सुजीत् सिंहेन वार्तेयं आवेदिता। सन्दर्भेऽस्मिन् बि ए २ उपभेदः अद्यावधि भारते न दृढीकृतः इत्यपि तेन प्रोक्तम्। डेल्टा विभेदस्य भीषा न समाप्ता इति च तेन निगदितम्।