लयणल् मेसी निवृत्तवान्।
पादकन्दुकेतिहासः लयणल् मेसी अन्ताराष्ट्रियक्रीडाभ्यः विरराम। सामाजिकमाध्यमद्वारा एव अर्जन्टीनादलनायकः मेसीवर्यः स्वस्य निवृत्तिनिर्णयम् उदघोषयत्। ३९ तमे वयसि अस्ति तस्य विरतिः।
२१ वर्षाणां क्रीडाजीवने मेसीवर्यः २०७ क्रीडाभ्यः १२५ लक्ष्यकन्दुकानि सम्प्राप्तवान्। ६५ लक्ष्येभ्यः सः कारणभूतश्चाभवत्।
