OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 29, 2026

 तमिलनाट्।

नवजातशिशुभ्यः मुख्यमन्त्रिणः सुवर्णाङ्गुलीयकोपहारः। 

'ताय् मामन् तङ्कमोतिरं तिट्टम्' अभियोजना समारब्धा। 

अभियोजनायाः उद्घाटनवेलायां मुख्यमन्त्री विजयः। 

चेन्नै> तमिलनाटे सर्वकारातुरालये जन्म लब्धानां नवजातशिनूनां कृते एक ग्राममितस्य सुवर्णाङ्गुलीयकम् उपहारत्वेन दीयमानं 'ताय् मामन् तङ्कमोतिरं तिट्टं' नामिका अभियोजना राज्ये समारब्धा। सोमवासरे मधुरायां राजाजी सर्वकारातुरालयस्थानां शिशूनाम् अङ्गुलीषु अङ्गुलीयकं धारयित्वा लालयित्वा च मुख्यमन्त्री विजय जोसफः अभियोजनायाः उद्घाटनं निरवहत्। 

  जनैः प्रसूत्यर्थं सर्वकारीयातुरालयाः आश्रयणीयाः इत्येव अभियोजनायाः लक्ष्यम्।  मुख्यमन्त्रिणः जन्मदिनादारभ्य [जूण् २२] सर्वकारीयातुरालयेषु लब्धजन्मानः शिशवः अस्य गुणभोक्तारः भविष्यन्ति।