शबरिगिरौ मूल्योपेतवस्तूनां मूल्यगणनाय उच्चन्यायालयस्य आदेशः।
कोच्ची> केरले शबरिगिरि धर्मशास्तामन्दिरस्य सुवर्णमभिव्याप्य सर्वेषां मूल्योपेतवस्तूनां मूल्यगणनाय उच्चन्यायालयः आदेशं व्यजिज्ञपत्। सेवानिवृत्तः न्यायाधिपः के टि शङ्करः एतदर्थं न्यायालयेन नियुक्तः।
शबरिगिरौ भगवतः सुवर्णमभिव्याप्य वस्तूनां समग्रसूचनाः न लभ्याः इति निर्णयस्य आधारे अस्ति न्यायालयस्य अयमादेशः।