बिहारनिर्वाचनम्।
प्रथमचरणाय पत्रिकासमर्पणं सम्पन्नम्।
पट्ना> बिहारविधानसभायाः निर्वाचनस्य प्रथमसोपानाय नामाङ्कनपत्रिकासमर्पणस्य कालपरिधिः शुक्रवासरे समाप्तः। १२१ स्थानेभ्यः १२५० स्थानाशिनः पत्रिकाः समर्पिताः। निर्वाचनस्य प्रथमचरणं नवम्बर् षष्ठे दिनाङ्के सम्पत्स्यति।
किन्तु मुख्यप्रतिद्वन्दिसख्येषु स्थानविभजनं स्थानाशिनिर्णयं च न पूर्तीकृतम्।