२६ लक्षं मृद्दीपैः सरयू तीरं प्रकाशपूरितम् अभवत्। रामनामजपैः अन्तरिक्षं मुखरितम् अभवत्। अयोध्यायै गिन्नस् पुस्तके स्थानं लब्धम्।
लखनौ> दीपावली पर्वणस्य अनुबन्धितया ह्यस्तन्यां सायं सन्ध्यायाम् अयोध्यायां २६ लक्षं मृद्दीपाः प्रकाशिताः। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गिन्नस् अधिकारिणः प्रमाणपत्रे स्वीकृतवान्। २६१७२१५ तैलदीपानां प्रदर्शनं तथा एकस्मिन् समये अनेकैः जनैः दीपाराधना कृता इत्यस्मै च विश्ववैशिष्ट्य-रेखाङ्कित-पुस्तके स्थानं लब्धम्। गिन्नस् विभागस्य प्रमाणपत्रम् च अलभत। ( चित्रम् ओण् लैन् माध्यमतः स्वीकृतम् )