प्रथमम् एकदिनम् आस्ट्रेलियया विजितम्।
पेर्त्> वृष्ट्या विरसं कारिते प्रथमे एकदिनक्रिकट् प्रतिद्वन्द्वे आस्ट्रेलिया भारतं सप्त द्वारकैः पराजयत। वृष्टिकारणात् मध्येमध्ये स्थगिता स्पर्धा २६ क्षेपणचक्रैः आकुञ्चिता आसीत्। १३६ धावनाङ्कान् सम्प्राप्य भारतस्य क्रीडा समाप्ता।
प्रत्युत्तरक्रीडायां पुनरपि वृष्टीक्रीडा जाता। अतः वृष्टिनियमेन आस्ट्रेलियायाः विजयलक्ष्यं १३१ इति पुनर्निर्णीतम्। २१. १ क्षेपणचक्रैः ते त्रीणां ताडकानां विनष्टे लक्ष्यं सम्प्राप्तवन्तः।