छत्तीसगढे २१० मावोवादिनः अपि आत्मसमर्पिताः।
जगदलपुरं> संघटस्य केन्द्रसमितिसदस्यमभिव्याप्य २१० मावोवादिनः महदायुधसञ्चयेन सह जगदलपुरे आत्मसमर्पणं कृतवन्तः। राज्यचरित्रे बृहत्तमम् आत्मसमर्पणमिति सर्वकारेण प्रस्तुतम्।
रूपेष् इति कथ्यमानः सतीशः भवति आत्मसमर्पितः केन्द्रसमितिसदस्यः। अनेन दिनत्रयाभ्यन्तरे आत्मसमर्पिताः मावोवादिनः २३८ अभवन्। १९ संख्याकाः ए के - ४७ भुषुण्डयः, स्वतः भारपूरणभुषुण्डयः [self loading riffles], २३ insas riffles, ११ 'बारल् ग्रनेड् लोञ्चर्' इत्यादीनि मावोवादिभिः परित्यक्तानि च।