OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 29, 2025

 इस्रयेलानुकूलपरामर्शः

पाकिस्थानीयमाध्यमप्रवर्तकः तीव्रवादिभिः हतः। 

कराची> दूरदर्शनप्रणालीकार्यक्रमे इस्रयेलम् अनूकूल्य परामृष्टवान् इत्यारोप्य पाकिस्थानीयमाध्यमप्रवर्तकं अवतारकं च इम्तियास् मिर् नामकं मततीव्रवादिनः भुषुण्डिप्रयोगेण जघ्नुः। सेप्टम्बरमासे २१ तमे दिनाङ्के आसीदियं घटना। 

  तद्दिनवृत्तिं समाप्य गृहं प्रति गमनवेलायामासीत् आक्रमणम्। चत्वारः अपराधिनः निगृहीताः। निरुद्धधार्मिकतीव्रवादसंघटनस्य 'सैनबीयौन् ब्रिगेड्' इत्यस्य अंशेन प्रवर्तमानाः एते इति आरक्षकाधिकारिभिः उक्तम्।