OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 28, 2025

 एस् ऐ आर् अभियानस्य प्रथमसोपानम् आरब्धम्। 

प्रथमसोपाने नव राज्याणि; त्रयः केन्द्रप्रशासनप्रदेशाश्च।

निर्वाचनायोगमुख्यः ग्यानेष कुमारः।

नवदिल्ली> केन्द्र निर्वाचन आयोगेन आविष्कृतं समग्र मतदायकावलीपरिष्करणं [एस् ऐ आर् अभियानं] सोमवासरस्य अर्धरात्रौ औद्योगिकतया समारब्धम्। 

  जनप्रातिनिध्यनियमस्य २१ तमं विभागमनुसृत्य एव भारते मतदानिनाम् आवलिः सज्जीक्रियते परिष्क्रियते च। संसद्-विधानसभयोः निर्वाचनात् पूर्वं मतदानिनाम् आवलिः समग्रतया परिष्क्रियते इत्यस्ति एस् ऐ आर् अभियोजना। केन्द्रनिर्वाचनायोगस्य अस्ति अस्य पूर्णाधिकारः। 

   एस् ऐ आर् अभियोजना प्रचाल्यमानेषु राज्येषु आहत्य ५०. ९९ कोटि मतदानिनः वर्तन्ते इति मुख्यनिर्वाचनायोगः ग्यानेष कुमारः वार्ताहरसम्मेलने निगदितम्। यत्र परिष्करणं प्रचाल्यते तत्रत्यः मतदानावलिः जडीकृतः इति तेनोक्तम्।

  अन्तमान् निकोबार् द्वीपसमूहः, छत्तीसगढः, गोवा, गुजरातः, केरलं, लक्षद्वीपः, मध्यप्रदेशः, पुतुच्चेरी, राजस्थानं, तमिलनाट्, उत्तरप्रदेशः, पश्चिमवंगः इत्येषु राज्येषु केन्द्रप्रशासनस्थानेषु च प्रथमसोपाने  एस् ऐ आर् प्रचलिष्यति।