OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, October 23, 2025

 नयनाभिरामम् अय्यप्पस्वामिनं राष्ट्रपतिः यथेच्छं समपश्यत्। 

राष्ट्रपतिः द्रौपदी मुर्मू सन्निधाने दर्शनं करोति। 

शबरिगिरिः> 'इरुमुटिक्केट्ट्' नामकम् अर्चनाद्रव्यभाण्डं शिरसि धृत्वा, शरणप्रार्थनां कृत्वा, अष्टादशसोपानानि नग्नपादाभ्यामारुह्य भारतस्य प्रथमनागरिका द्रौपदी मुर्मू महोदया 'कन्निमालिकप्पुरम्' इति प्रथममहिलाशास्तृव्रतधारिणी भूत्वा धर्मशास्तारम् अय्यप्पस्वामिनं सम्पूर्णनयनास्वादननेन प्रणमति स्म। ४० मिनिट् समयं सन्निधाने यापयित्वा राष्ट्रपतिः 'प्रसादं' स्वीकृत्य  पूर्णहृदयेन गिरेः अवारोहयत्। 

  बुधवासरे मध्याह्ने आसीत् द्रौपदी मुर्मू वर्यायाः शबरिगिरिसन्दर्शनम्। प्रभाते ८. ४० वादने प्रमाटम् इत्यत्र सज्जीकृते उदग्रयानावतरणस्थाने अवतीर्य सा वीथीमार्गेण पम्पां प्राप्तवती। पम्पानद्यां प्रतीकात्मकस्नानानन्तरं गणेशमन्दिरं प्राप्य तत्रस्थेन मुख्यार्चकेन सज्जीकृतं 'इरुमुटिक्केट्ट्' नामकं अर्चनाद्रव्यभाण्डं स्वीकृत्य सविशेशयानेन सन्निधानं प्राप्तवती। तदनन्तरं सन्निधाने अनुवर्त्यमानम् आचार-विश्वासानुसारं क्रियाः विधाय १८ सोपानानि आरोहितवती। गर्भगृहसमीपं मुख्यार्चकः पूर्णकुम्भेन स्वीकृतवान्। ततः देवस्य दर्शनं पूर्णहृदयेन कृतवती च।