OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 20, 2025

 ए.बी.आ.एस्.एम्. राष्ट्रियाधिवेशने त्रिभ्यः शिक्षकेभ्यः “शिक्षाभूषणसन्मानः” प्रदत्तः

गुरुः बालकस्य स्रष्टा, पालकश्च अज्ञानस्य संहारकश्च भवति – अवधेशनन्दगिरिः।

    सीकरा> केशवविद्यापीठे (जामडोली–जयपुरे) आयोजिते अखिलभारतीयराष्ट्रियशैक्षिकमहासभायाः नवमे राष्ट्रियाधिवेशने देशस्य त्रिभ्यः शिक्षकेभ्यः अस्मिन् संवत्सरस्य शिक्षाभूषणसन्मानः प्रदत्तः।

    राजस्थानस्य उदयपुरस्य प्रो. भगवती प्रकाश शर्मा, (गौतम बुद्धविश्व विद्यालयस्य कुलपतिः) हरियाणायाः प्रोफ. सुषमा यादवः, (दिल्ली विश्वविद्यालयस्य प्राध्यापिका एवं हरियाणा केन्द्रीय विश्व विद्यालयस्य पूर्व कुलपतिः) केरळस्य वि. जे. श्री कुमारः (अमृत संस्कृत उच्च माध्यमिक विद्यालयः कोल्लम्) च सम्मानिताः। 

  एषः सम्मानः महासभायाः महासचिवेन आचार्येण अवधेशनन्दगिरि-महाभागेन  राष्ट्रिय-स्वयंसेवक-संघस्य वरिष्ठ पदाधिकारिणा सुरेशसोनिना सह प्रदत्तः।

सन्दर्भे अस्मिन् मुख्यातिथिः आचार्यः अवधेशनन्दगिरिः अवदत्  “गुरुः बालकस्य स्रष्टा, पालकः, अज्ञानस्य संहारकश्च भवति। शिक्षा मनुष्यं पुरुषार्थवन्तं करोति, जीवनं च पुण्येन पूरयति। गुरवः समाजनिर्माणे महत्त्वपूर्णां भूमिकां वहन्ति।” इति।

सम्मानितेभ्यः शिक्षकेभ्यः  एकलक्षरूप्यकाणां राशिः, प्रशस्तिपत्रं, रजतपतकं च सम्मानरूपेण दत्तानि ॥