OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 29, 2025

 केरलस्य राज्यस्तरीयं विद्यालयकायिक ओलिम्पिक्स् समाप्तम्।

तिरुवनन्तपुरं जनपदं सुवर्णचषकं सम्प्राप। 

सुवर्णचषकेन सह अन्तपुरं गणः आह्लादे।

अनन्तपुरी> ओलिम्पिक्स् महामहस्य आदर्शे संघटिता केरलस्य  विद्यालयछात्राणां राज्यस्तरीयकायिकमेला अनन्तपुर्यां समाप्ता। प्रथमतया उपकल्पितः 'Chief Minister's Cup' नामकः ११७. ५ पवन् मितस्य  सुवर्णचषकः तिरुवनन्तपुरं जनपदेन सम्प्राप्तः। राज्यपालः आर् वि आर्लेकरः चषकं सम्मानितवान्। 

  २०३ सुवर्णानि, १४७ रजतानि, १७१ कांस्यानि चोपलभ्य अनन्तपुरं प्रथमस्थानमवाप। आहत्य १,८२५ अङ्काः। ८९२ अङ्कान् सम्प्राप्य तृशूरजनपदं द्वितीयस्थानं सम्प्राप। कण्णूरः ८५९ अङ्कैः तृतीयं स्थानं प्राप्तवान्।