केरलस्य राज्यस्तरीयं विद्यालयकायिक ओलिम्पिक्स् समाप्तम्।
तिरुवनन्तपुरं जनपदं सुवर्णचषकं सम्प्राप। 
सुवर्णचषकेन सह अन्तपुरं गणः आह्लादे।
अनन्तपुरी> ओलिम्पिक्स् महामहस्य आदर्शे संघटिता केरलस्य विद्यालयछात्राणां राज्यस्तरीयकायिकमेला अनन्तपुर्यां समाप्ता। प्रथमतया उपकल्पितः 'Chief Minister's Cup' नामकः ११७. ५ पवन् मितस्य सुवर्णचषकः तिरुवनन्तपुरं जनपदेन सम्प्राप्तः। राज्यपालः आर् वि आर्लेकरः चषकं सम्मानितवान्।
२०३ सुवर्णानि, १४७ रजतानि, १७१ कांस्यानि चोपलभ्य अनन्तपुरं प्रथमस्थानमवाप। आहत्य १,८२५ अङ्काः। ८९२ अङ्कान् सम्प्राप्य तृशूरजनपदं द्वितीयस्थानं सम्प्राप। कण्णूरः ८५९ अङ्कैः तृतीयं स्थानं प्राप्तवान्।