ओडिंगावर्याय केनियाराष्ट्रस्य अन्त्याञ्जलिः।
अन्त्यदर्शनाय जनसम्मर्दः; भुषुण्डिप्रयोगे ४ मरणानि।
अन्त्येष्टिक्रिया अद्य।
नेय्रोबी> केरले दिवंगतः केनियाराष्ट्रस्य भूतपूर्वप्रधानमन्त्री, वर्तमानीनविपक्षनेता रयिला ओडिंगा इत्यस्मै प्रियनेत्रे केनियनागरिकाणां प्रेमपूर्वान्त्याञ्जलिः। ओडिंगावर्यस्य अन्त्यदर्शनाय जनसम्मर्दे अनियन्त्रिते सुरक्षाधिकारिभिः कृते भुषुण्डिप्रयोगे चत्वारः नागरिकाः मृत्युभूताः। बहवः आहताः च। सामाजिकदर्शनाय भौतिकशरीरे 'कसरानि' पादकन्दुकक्रीडाङ्कणे प्राप्ते आसीत् अनियन्त्रितः जनसम्मर्दः।
अद्य 'बोण्टो' इत्यत्र अस्ति अन्येष्टिक्रियाः यत्र ओडिंगावर्यस्य कुलभवनं वर्तते।
