ए ऐ निर्मितेषु अङ्कपत्रम् आवश्यकम्।
अतिकुशलव्याजनिरोधाय केन्द्रस्य उद्यमः।
नवदिल्ली> कृत्रिमबुद्धिमत्ताम् [AI] उपयुज्य अतिकुशलव्याजप्रस्तुतिं [deep fake presentation] सृष्ट्वा डिजिटल् माध्यमैः प्रसारणं निरोद्धुं केन्द्रप्रशासनेन संक्षिप्तनियमः विधत्तः। ए ऐ उपयुज्य 'अल्गोरित'तन्त्रं परिवर्त्य वा सृज्यमानानि चित्राणि चलनदृश्यानि [Videos] चाभिव्याप्य तादृशप्रस्तुतिषु अङ्कपत्राणि [Labels] अवश्यं करणीयानि।
ए ऐ उपयुज्य यद्वस्तु कृत्रिमतया निर्मीयते तत् वास्तविकमिति प्रतिभाति तर्हि तस्य कृत्रिमत्वं अङ्कपत्रेण प्रस्ताव्यमिति प्रशासनस्य निष्कर्षा। तदर्थं रूपीकृतेषु संक्षिप्तनियमेषु नवम्बर् तस्य दिनाङ्कपर्यन्तं itrules.consulation@meity.gov.in इत्यत्र अभिमतानि निर्देशाश्च समर्पणीयानि।