अफ्गानिस्थाने भारताय स्थानपतिकार्यालयः आरब्धः।अफ्गानिस्थाने प्रवर्तनमारभ्यमाणस्य स्थानपतिकार्यालयस्य बाह्यदृश्यम्।
नवदिल्ली> अफ्गानिस्थानेन सह नयतन्त्रबन्धपुनःस्थापनाय वर्तमानीनः नयतन्त्रकार्यालयं स्थानपतिकार्यालयरूपेण पदं चकार। २०२१ तमे वर्षे तालिबानेन अफ्गानिस्थानस्य प्रशासने प्राप्ते भारतस्थानपतिकार्यालयस्य प्रवर्तनं स्थगयितमासीत्।
प्रवर्तननिरुद्धं स्थानपतिकार्यालयं पुनः प्रवर्तनसज्जं कारयिष्यतीति गतसप्ताहे भारतसन्दर्शनं कृतवते अफ्गानिस्थानस्य विदेशमन्त्रिणे अमीर् खान मुत्तखी इत्यस्मै भारतविदेशमन्त्री एस् जयशङ्करः वाग्दानं कृत वा नासीत्। पाकिस्थानं विरुद्ध्य प्रक्रमेषु अफ्गानिस्थानेन सह नयतन्त्रसामीप्यं सहायकं भवेदिति गण्यते।